SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१८॥ क PREPARATOREHEAPESCRIBE भिहितमवगन्तव्यम् । एतदेव च मतिज्ञानं यथोक्तनिमित्तद्वयस्य किञ्चिन्मात्रभेदाद् भिद्यमानं पुनरनन्तमपि भवतीति प्रतिपत्तव्यम् , सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात् , तेषां च क्षयोपशमादिभेदेन मतभिन्नत्वादिति भावः ।। इति गाथार्थः ।। ३११ ॥ अत्राह कश्चित्- नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टार्थनिर्भासाद्यभावात् , संशयादिवत् , इति कथममी मतिज्ञानभेदाः?, इत्याशङ्कचैतेषां ज्ञानत्वसाधनायाह इह संसयादणंतभावाडे वग्गहादयो नाणं । अणुमाणमिवाह न संसयाइसब्भावउ तेसुं ॥ ३१२ ॥ अवग्रहादयो ज्ञानमिति प्रतिज्ञा, संशयादिवनन्तर्भावादिति हेतुः, आदिशब्दाद् विपर्यया-ऽनध्यवसायपरिग्रहः, अनुमानवदिति दृष्टान्तः । इह संशयाद्यनन्तर्भूतैर्वर्ण-गन्धादिभिः पुद्गलद्रव्यैर्व्यभिचारसंभवात् , सूत्रस्य च सूचकत्वात् 'आत्मधर्मत्वे सति संशयाद्यनन्तर्भावात्' इति सविशेषणो हेतुर्द्रष्टव्यः । अत्राह पर:- ननु सविशेषणे हेतावनैकान्तिकता मा भूत , असिद्धता त्वनिवार्यवेति । एतदेवाह- 'न संसयाईत्यादि' मूरे ! न तद् भवदीयं वचः। कुतः, इत्याह-संशयादिसद्भावतस्तेष्ववग्रहादिषु, तेषां संशयादिरूपत्वात् संशयाधनन्तर्भावात् , इत्यसिद्धो हेतुरिति भावः ॥ इति गाथार्थः ॥ ३१२ ॥ कथं पुनस्तेषु संशयादिसद्भावः ?, इत्याह ननु संदिद्धे संसय-विवजया संसओ ह चेहा वि । वच्चासो वा निस्सियमवग्गहोऽणज्झवसियं तु ॥ ३१३ ॥ ननु 'र्खिप्पमचिरेण 'इत्यादिगाथायां तु यदुक्तम्- 'निच्छियमसंसयं जं ति' तत्पतिपक्षे यदुच्यते- 'कोऽपि संदिग्धं मुणति' इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद् व्यक्त एव , यत्र च संशयस्तत्र संदिहानस्य कदाचिद् विपर्ययोऽपि स्यात्ः इत्येवं संदिग्धे संशय-विपर्ययौ तावदनिवारितावेव । अथवा, किमननोत्तरभेदरूपे संदिग्धे दूषणप्रदानेन ?, हन्त ! येयं मूलभेदरूपेहा साऽपि संशय एव, निश्चयत्वे तस्या अपायत्वप्रसङ्गादिति । अथवा 'परधम्मेहि विमिस्सं निस्सियं' इत्यत्र यद् निश्रितमुक्तं, तदपि गवादिकमश्वादिरूपेण गृहद् विपर्यास एव । न हि नृत्यन् विपर्यासो भवति, किन्त्वन्यस्यान्यरूपेण ग्रहणमेवेति भावः । नैश्चयिकार्थावग्रहरूपोऽवग्रहः पुनरनध्यवसितमनध्यवसाय एव, अनिर्देश्यसामान्यमात्रग्राहित्वात् , न ह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीति कृत्वा । १ इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् । अनुमानमिवाऽऽह-न, संशयादिसद्भावतस्तेषु ॥ ३१२ ॥ २ क. ग, घ, छ, 'लधर्मेळ' । ३ ननु संदिग्धे संशय विपर्ययौ संशय इह नेहाऽपि । व्यत्यासो वा निश्रितमवग्रहोऽनध्यवसित तु ॥ ३१३॥ ४ गाथा ३०९। ५ घ. ज. 'कस्यचि' । ६ गाथा ३१० । ॥१८४॥ Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy