________________
S SAGE
विशे०
कसानकाALAAMARAGAGARIGAMAGE
आह- नन्वावश्यकानुयोगस्तावदावश्यकव्याख्यानम् , चरण-गुणसंग्रहस्तु ज्ञान-दर्शन-चारित्रसंगृहीतिरूपः, ततोऽत्यन्तं भिन्नाधिकरणत्वात् कथमनयोः सामानाधिकरण्यम् ? । सत्यम् , किन्तु “सामाइअं च तिविहं सम्मत्तं सुअंतहा चरित्तं च " इत्यादिवक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत् संपूर्णचरण-गुणसंग्राहकः, किं पुनः सकलावश्यकानुयोगः । ततश्चं संपूर्णचरण-गुणसंग्रहयुक्तत्वादावश्यकानुयोगोऽपि संपूर्णचरण--गुणसंग्रहत्वेनोक्तः, यथा दण्डयोगाद् दण्डः पुरुषः; इत्यदोषः । अथवा चरण-गुणानां संग्रहो यत्रावश्यकानुयोगेऽसौ चरण-गुणसंग्रह इति बहुव्रीहिपक्षे प्रेर्यमेव नास्ति, केवलमस्मिन् पक्षे सकलमिति विशेषणमावश्यकानुयोगस्य चरण-गुणसंग्रहसंपूर्णत्वापेक्षयैव द्रष्टव्यमिति, एतच्च कष्टगम्यमित्युपेक्ष्यते ॥
आह-ननु यदि “सामाइअं च तिविहं " इत्यादिवक्ष्यमाणवचनात् सामायिकस्य संपूर्णचरण-गुणसंग्राहकत्वम् , तर्हि तदनुयोगस्य तद्रूपत्वे किमायातम् । नैतदेवम् , सामायिकं हि व्याख्येयम् , अनुयोगस्तु व्याख्यानम् , व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादिहाऽभेदेन विवक्षितत्वाददोषः, इत्यलमतिचर्चयेति ॥
अनेन च संपूर्णचरण-गुणसंग्रहलक्षणेन स्वरूपविशेषणेनाऽऽवश्यकानुयोगस्य महार्थतां दर्शयति भाष्यकारः ।।
आह- ननु यदि त्वयाऽऽवश्यकानुयोगः स्वमनीषिकया वक्ष्यते, तदाऽनादेय एवायं प्रेक्षावताम् , छमस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वात् , रथ्यापुरुषवाक्यवत् । इति परवचनमाशङ्कय तदुपन्यस्तहेतोरसिद्धतामुपदर्शयन्नाह- 'गुरूवएसाणुसारेणं ति' गृणन्ति तत्त्वमिति गुरवस्तीर्थकर-गणधरादयः, तेषामुपदेशो भणनम् , तदनुसारेण तत्पारतन्त्र्येणाऽऽवश्यकानुयोगमहं वक्ष्ये, न तु स्वमनीषिकया; अतः स्वतन्त्रतयाऽभिधीयमानत्वादित्यसिद्धो हेतुरिति भावः । यो हि च्छद्मस्थः सन् परमगुरूपदेशानपेक्षं खतन्त्रमेव वक्ति रथ्यापुरुषस्येव, तस्य वचोऽनादेयमिति वयमपि मन्यामहे, केवलं तदिह नास्ति, परमगुरूपदेशानुसारेणैवाऽऽवश्यकानुयोगस्य मयाभिधीयमानत्वादिति । तदेवं कृतप्रवचनप्रणामो गुरूपदेशनिश्रया सकलचरण-गुणसंग्रहरूपमावश्यकानुयोगमहं वक्ष्य इति पिण्डार्थः।।
___ आह-ननु श्रीमद्भद्रबाहुप्रणीता सामायिकनियुक्तिरिह भाष्ये व्याख्यास्यते, तत्कथमिदमावश्यकानुयोगोऽभिधीयते ? । नैतदेवम् , अभिप्रायाऽपरिज्ञानात् , तथाहि-सामायिकस्य पद्विधावश्यकैकदेशत्वादावश्यकरूपता तावद् न विरुध्यते, तनियुक्तिस्तु तद्व्याख्यानरूपैव, व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादेकत्वमित्यनन्तरमेवोक्तम् । तस्मात् सामायिकस्य तनियुक्तेश्च सर्वस्योऽप्याव
1 सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । २ “अत्राऽनुखारलोपः, भाषत्वात्" इत्यावश्यकनियुजिटीकायागया एवं गायाया विवरणे श्रीमन्मलयगिरिसूरिः । ३ घ. 'स्याप्यस्या' ।
Jan Education interna
For Personal and Private Use Only