SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ | यिकाध्ययननियुक्ति विशेषत एवातिबहुविचारदुर्विज्ञेयार्थामतिशयोपकारिणी चावगम्य केवलामृतरसस्यन्दिवाग्विलासैःश्रीमज्जिनभद्रविशे० गणिक्षमाश्रमणपूज्यस्तदर्थव्याख्याऽऽत्मकमेव 'कयपवयणप्पणामो' इत्यादिगाथासमूहस्वरूपं भाष्यमकारि । तस्य च यद्यपि श्रीजिनभद्रगणि॥२ ॥ क्षमाश्रमणपूज्यैः, श्रीकोट्याचार्यश्च वृत्तिर्विहिता वर्तते, तथाऽप्यतिगम्भीरवाक्यात्मकत्वात् , किश्चित्संक्षेपरूपत्वाच दुःपमानुभावतः प्रज्ञादिभिरपचीयमानानां किमापविस्तराभिधानरुचीनां शिष्याणां नाऽसौ तथाविधोपकारं सांप्रतमाधातुं क्षमाः इति विचिन्त्य मुत्कलतरवाक्यप्रवन्धरूपा किमपिविस्तरवती च मन्दमतिनापि मया मन्दतममतिशिष्यावबोधार्थ, श्रुताभ्याससंपादनार्थं च वृत्तिरियमारभ्यते। तत्र चादौ तावद् विघ्नविनायकोपशमहेतोर्मङ्गलार्थ, शिष्यप्रवृत्तिनिमित्तमभिधेयाद्यभिधानार्थं चाह भाष्यकार:केयपवयणप्पणामो वोच्छं चरण-गुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥१॥ व्याख्या- 'वोच्छं' इति क्रिया, वक्ष्येऽभिधास्य इत्यर्थः । कम् ? इत्याह- 'आवस्सयाणुओगं ति ' अवश्यं कर्तव्यमावश्यक सामायिकादिरूपम् , कचित् 'आवासयाणुओर्ग' इति पाठः, तत्रापि आ समन्ताज्ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं करोतीत्यावासकं सामायिकादिरूपमेव, तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधि-प्रतिषेधाभ्यामर्थप्ररूपणमित्यर्थः, तम् । किविशिष्टः सन् ? इत्याह- ‘कयपवयणप्पणामो त्ति' प्रोच्यन्तेऽनेन, अस्मात् , अस्मिन् वा जीवादयः पदार्था इति प्रवचनम् । अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात् प्रगतं जीवादिपदार्थव्यापकं, प्रधान, प्रशस्तम् , आदौ वा वचनं प्रवचनं द्वादशाङ्गं गणिपिटकम् ; आदित्वं चाऽस्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् , “नमस्तीर्थाय" इति वचनात् तीर्थकरेणापि तन्नमस्करणादिति । अथवा जीवादितत्त्वं प्रवक्तीति प्रबचनमिति व्युत्पत्तेदशाङ्गम् , गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते । कृतो विहितो यथोक्तप्रवचनस्य प्रणामो नमस्कारो येन मया सोऽहं कृतप्रवचनप्रणामः। किंस्वरूपमावश्यकानुयोगम् ? इत्याह- 'चरण गुणसंगहं ति ' चर्यते मुमुक्षुभिFoil रासेव्यत इति चरणम् , अथवा चर्यते गम्यते प्राप्यते भवोदधेः परकूलमनेनेति चरणं व्रत-श्रमणधर्मादयो मूलगुणाः, गुण्यन्ते संख्यायन्त इति गुणाः पिण्डविशुद्धवाद्युत्तरगुणरूपाः, चरणं च गुणाश्च चरणगुणाः; अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवक्षितम् , गुणशब्देन तु दर्शनंज्ञाने, ततश्च चरणं च गुणौ च चरणगुणाः, तेषां संगृहीतिः संग्रहश्चरणगुणसंग्रहः, तम् । स च देशतोऽपि भवतीत्याह- सकलं परिपूर्णम् ॥ १ ख. 'भव्यानां'। २ कृतप्रवचनप्रगामो वक्ष्ये चरणगुणसंग्रहं सकलम् । आवश्यकानुयोग गुरूपदेशानुसारेण ॥1॥ ३ घ. 'समन्ततो ज्ञा' । For Personal and ve Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy