SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ बृह । ऽप्यपाय एव लक्ष्यतेऽनुभूयते निर्विवादमशेपैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः कचित् पूर्वोपलब्ध सुनिश्चिते विशेषा० For दृढवासने विषयेऽवग्रहे-हा-पायानतिलय स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते- उत्क्रमा ऽतिक्रमाभ्याम् , एकादिवैकल्ये च न वस्तुसद्भावाधिगमः ?-इदं च कथमभिधीयते-'ईहिज्जइ नागहिय' इत्यादि ॥१७६॥ इति प्रेरकाऽभिप्रायः ॥ इति गाथार्थः ॥ २९८ ॥ भ्रान्तोऽयमनुभव इति दर्शयन्नाह उप्पलदलसयवेहे व्व दुविभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुबली ॥ २९९॥ 'कचित् प्रथममेवाऽपायः, चित्तु धारणैव' इति यत् त्वया प्रेर्यते, तत् 'प्रतिभाति' इत्यनन्तरगाथोक्तेन संबन्धः । केनैतत प्रतिभाति', इत्याह- दुःखेन विभाव्यते दुर्विभावो दुर्लक्षस्तद्भावस्तचं तेन दुविर्भावत्वेन- दुर्लक्षत्वेन 'अवग्रहादिकालस्य' इति गम्यते । कस्मिन्निव ?, इत्याह- उत्पलं पद्यं तस्य दलानि पत्राणि तेषां शतं तस्य मूच्यादिना वेधनं वेधस्तस्मिन्निव । इदमुक्तं भवति- यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य मूच्यादिना वेधं कुर्वाण एवं मन्यते- मयैतानि युगपद् विद्धानि, अथ च प्रतिपत्रं तानि कालभेदनव भियन्ते, न चाऽसौ तं कालमतिसौम्याद् भेदेनाऽवबुध्यते, एवमत्राऽप्यवग्रहादिकालस्याऽतिमूक्ष्मतया दुर्विभावनीयत्वेनाप्रतिभासः, न पुनरसत्त्वेन, ईहादयो ह्यन्यत्र कचित् तावत् स्फुटमेवाऽनुभूयन्ते, यत्रापि वसंवदेनेन नाऽनुभूयन्ते, तत्रापि "ईहिज्जइ नागहियं नज्जइ नाणीहियं' इत्यादि प्रागसकृदभिहितयुक्तिकलापादवसेयाः । तस्मादुत्पलदलशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एवाऽपायादिप्रतिभासः। अथोदाहरणान्तरेणाऽप्यस्य भ्रान्ततामुपदर्शयति- 'समयं वेत्यादि' 'वा' इत्यथवा, यथा शुष्कशष्कुलीदशने समयं युगपदेव सर्वेन्द्रियविषयाणां शब्द-रूप-रस-गन्ध-स्पर्शानामुपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः। एतदुक्तं भवति- यथा कस्यचिच्छुष्कां दीर्घा शष्कुलिका भक्षयतः, तच्छब्दोत्थानाच्छब्दविज्ञानमुपजायते, अत एव शुष्कत्वविशेषणम् , मृयामेतस्यां शब्दानुत्थानादिति । शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्ट्या तद्रूपदर्शनं चाऽयमनुभवति, अत एव च दीर्घत्वविशेषणम् , अतिइस्वत्वे मुखप्रविष्टायास्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति । रूपदर्शनसमकालं च तद्गन्धज्ञानमनुभवति, अत एव शष्कुलीग्रहणं, गन्धोत्कटत्वात् तस्याः, इक्षुखण्डादिषु तु दीर्घष्वपि तथाविधगन्धाभावादिति । गन्धादिज्ञानसमकालं च तद्रस-स्पर्शज्ञाने अनुभवति । तदेवं पञ्चानामपीन्द्रियविषयाणामुपलब्धियुगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञा १ गाथा २९६ । २ उत्पलदलशतवेध इन दुर्विभावत्वेन प्रतिभाति । समयं वा शुष्कशषकुलीदशने विषाणामुपलब्धिः ॥ २९९ ।। ॥१७६॥ For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy