SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ बाहर विशेषा ॥१७७॥ नानां युगपदुत्पादायोगात् , तथाहि- मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य॑ रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते, तस्यैकोपयोगरूपत्वात् , एकत्र ज्ञातरि एककालेऽनेकै संयुज्यमानत्वाऽयोगात् । तस्माद् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वाद् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्त्वस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तै!पलक्ष्यते, तथाऽधग्रहादिकालेऽपीति प्रकृतम् । दीर्घत्वविशेषणं च शकुलिकाया गाथायामनुक्तमप्युपलक्षणत्वाद् विहितमिति परिभावनीयम् । तदेवमवग्रहादीनां नैकादिवैकल्यम् , नाऽप्युत्क्रमातिक्रमौ, इति स्थितम् ।। इति गाथार्थः ।। २९९ ॥ ___'उग्गहो ईहअवाओ य' इत्यादिगाथायाम् 'आभिनिवोधिकज्ञानस्य चत्वारि भेदवस्तूनि समासतः' इत्युक्तम् , तत् किं व्यासतो बहुभेदमप्याभिनिबोधिकज्ञानं भवति ?, इत्याशक्य तद्भेदबहुविधत्वदर्शनात् 'समासेन' इति विशेषणस्य सफलत्वमाह सोइंदियाइभेएण छबिहा वग्गहादओऽभिहिआ। ते होंति चउब्बीसं चउव्विहं वंजणोग्गहणं ॥ ३०॥ अट्ठावीसइभेयं एयं सुयनिस्सियं समासेणं । केइ तु वंजणोग्गहवजे च्छोदणमेयम्मि ॥ ३०१॥ अस्सुयनिस्सियमेवं अट्ठावीसइविहं ति भासंति । जमवग्गहो दुभेओऽवग्गहसामण्णओ गहिओ ॥३०२॥ श्रोत्रेन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेदस्तेनाऽवग्रहादयः प्रत्येकं षड्विधाश्चत्वारोऽप्यभिहिताः । ततस्तैः षद्भिश्चत्वारो गुणिताश्चतुर्विंशतिर्भवन्ति । अन्यच्च स्पर्शन-रसन-प्राण-श्रोत्रेन्द्रियचतुष्टयभेदाद् व्यञ्जनावग्रहणं व्यञ्जनावग्रहचतुर्विधो भवति । एवमेतच्छूतनिश्रितमाभिनिवोधिकज्ञानं सर्वमप्यष्टाविंशतिविधं संपद्यते । एतदपि भेदाभिधानं वक्ष्यमाणबहुतरभेदकलापापेक्षयाऽद्यापि समासेन संक्षेपेण द्रष्टव्यम् ।। १ ग. ज. 'स्य खरू' । २ ज. 'कैः सह यु' । ३ गाधा १७८। ४ श्रोनेन्द्रियादिभेदेन पद्विधा अवमहादयोऽभिहिताः । ते भवन्ति चतुर्विंशतिश्चतुर्विध प्यञ्जनावग्रहणम् ॥३०॥ अष्टाविंशतिभेदमेतत् श्रुतनिश्रितं समासेन । केचित्तु व्यञ्जनावग्रहवजें क्षिप्त्वैतस्मिन् ॥ ३०॥ अश्रुतनिश्रितमेवमष्टाविंशतिविधमिति भाषन्ते । यदवग्रहो विभेदोऽवग्रहसामान्यतो गृहीतः ॥ ३०२॥ ५ प.छ.ज. 'श्रवणेन्द्रि' । ॥१७७॥ in una For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy