________________
SBSee
समयप्रविष्टाः पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति- अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन विशेषा. | ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्तेन — व्यञ्जनावग्रहप्ररूपणा ' इति बृहद्वत्तिः ।
वाक्यशेषः ॥ अथ केयं मल्लकदृष्टान्तेन प्ररूपणा !। तद्यथा नाम कश्चित् पुरुष आपाकशिरसो मल्लकं शरावं गृहीत्वा, रूक्षमिदं भवतीत्यस्य ग्रहणम् । ४ ॥१४९॥ तत्र मल्लके एकमुदकबिन्दं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । शेष सुबोधं यावद 'जेणं तं मल्लगं'। 'रावेहिति' आर्द्रतां
नेष्यति । शेष सुबांधम् । नवरं 'पवाहहिति ' प्लावयिष्यतीति । एवामेवेत्यादि । अतिबहुत्वात् प्रतिसमयमनन्तैः शब्दपुद्गलैर्यदा तद् व्यञ्जनं पूरितं स भवति, तदा 'हु' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किंविशिष्टं !, नाम-जात्यादिकल्पनारहितम् । अत एवाऽऽह- 'नो चेव णं जाणइ के वेस सद्दाइ त्ति' न पुनरेवं जानाति क एष शब्दादिः ! इत्यर्थः । एवं च सति सामयिकत्वादविग्रहस्य, अर्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रहः " ॥ । तदेवमस्य व्यञ्जनावग्रहस्वरूपपातपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकारः “जाहे तं वंजणं पूरियं होइ" ।। E- इत्येतद् व्याचिख्यासुराह
तोएण मल्लगं पिव वंजणमापूरियं ति जं भणियं । तं दव्वमिंदियं वा तस्संजोगो व न विरुद्धं ॥ २५०॥
'जं भणिय' यदुक्तं नन्दिसूत्रकारेण । किं तत् ?, इत्याह- व्यञ्जनमापूरितमिति । केन किंवत् ?, इत्याह- तोयेन जलेन मल्लकं । शरावं तद्वदिति । तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं वा, तयोवी द्रव्ये-न्द्रिययोः संयोगः संबन्धः, इति सर्वथाऽप्यवि| रोधः । इदमुक्तं भवति-व्यञ्जनशब्देन शब्दादिविषयपरिणतपुद्गलसमूहरूपं द्रव्यं, श्रोत्रादीन्द्रियं वा, द्रव्ये-न्द्रिययोः संबन्धो वा गृह्यते, न कश्चिद् विरोधः, व्यज्यते प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेः सर्वत्र घटनात् ।। इति गाथार्थः ।। २५० ॥ केवलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्यकमापूरितत्वे विशेषो द्रष्टव्यः । कः पुनरसौ ?, इत्याह
देव्वं माणं पूरियमिदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ २५१ ॥ 'दव्वं ति' यदा द्रव्यं व्यञ्जनमधिक्रियते तदा "जाहे तं वंजणं पूरियं होई" इति कोऽर्थः? इत्याह-'माणं पूरियं ति' मानं तस्य शब्दादिद्रव्यस्य प्रमाण प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षमुपनीतं खग्राहकज्ञानजनने समर्थीकृतमिति यावत् । यदा
5॥१४९॥ , यदा तयजनं पूरितं भवति । र तोयेन मल्लकमिव व्यञ्जनमापूरितमिति यद् भणितम् । तद् व्यमिन्द्रियं वा तत्संयोगो वा न विरुवम् ॥२५०॥ ३ ज. 'कदाचिद्'। ४ दण्यं मानं पूरितमिन्द्रियमापूरितं तथा द्वयोः । परस्परसंसर्गो यदा तदा गृहाति तमर्थम् ॥ २५ ॥
For Dod
ony
M
arw.jaineltrary.org