Page #1
--------------------------------------------------------------------------
________________
.
ਨੂੰ * 4ਜੀ*
.
੧.
ਮ
.
1141
॥
31]ji
*
**
Page #2
--------------------------------------------------------------------------
________________
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी के संस्करण से पुनर्मुद्रित एवं प्रकाशित
चौखम्बा संस्कृत सीरीज
२
****
श्रीमद्भट्टोजी दीक्षितप्रणीतः
शब्द कौस्तुभः
तृतीयो भागः
१२५०
023047
17-12
विन्ध्येश्वरीप्रसाद द्विवेदी, गणपतिशास्त्री मोकाटे च
सम्पादक
(If any defect is found in this book, please return the copy by V. P. P. for postage to the publisher for exchange free of cost.)
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
१९९१
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी मुद्रक : चौखम्बा प्रेस, वाराणसी
संस्करण: द्वितीय, वि० सं० २०४८
मूल्य : रू० ९७-०० ( रुपये सत्तानबे ) ( १ - ३ भाग )
The Publication has been brought out with the Financial assistance from the Govt. of India, Ministry of Human Resource Development.
• चौखम्बा संस्कृत सीरीज आफिस के० ३७ / ९९, गोपाल मन्दिर लेन पो० बा० १००८, वाराणसी - २२१००१ ( भारत ) फोन : ३३३४५८
अपरं च प्राप्तिस्थानम् कृष्णदास अकादमी
पो० बा० नं० १११८ चौक, (चित्रा सिनेमा बिल्डिङ्ग), वाराणसी - २२१००१ ( भारत ) फोन : ५२३५८
Page #4
--------------------------------------------------------------------------
________________
REPRINTED AND PUBLISHED FROM THE EARLIER EDITION OF CHOWKHAMBA SANSKRIT SERIES OFFICE, VARANASI.
CHOWKHAMBA SANSKRIT SERIES
2
***
SABDA KAUSTUBHA
OF
ŚRI BHATTOJI DĪKSHITA
VOL. III
Edited by
VINDHYESWARĪ PRASĀD DVIVEDĪ
and
GANAPATI SASTRI MOKĀTE
(If any defect is found in this book, please return the
copy by V. P. P. for postage to the publisher for exchange free of cost.)
CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI-221001 1991
Page #5
--------------------------------------------------------------------------
________________
Publisher : Chowkhamba Sanskrit Series Office, Varanasi. Printer : Chowkhamba Press, Varanasi. Edition : Second, 1991. Price : Rs. 97-00 (Rs. Ninety-Seven)
The Publication has been brought out with the Financial
assistance from the Govt. of India, Ministry
of Human Resource Development.
© CHOWKHAMBA SANSKRIT SERIES OFFICE
K. 37/99, Gopal Mandir Lane Post Box No. 1008, Varanasi-221001 ( India )
Phone : 333458
Also can be had from
KRISHNADAS ACADEMY
Oriental Publishers & Distributors
Post Box No. 1118 Chowk, (Chitra Cinema Building ), Varanasi-221001 (India)
Phone : 52358
Page #6
--------------------------------------------------------------------------
________________
श्रीगणेशाय नमः ।
शब्दकौस्तुभे चतुर्थाध्याये प्रथमे पादे प्रथममाह्निकम् ।
.- stram
ज्याप्प्रातिपदिकात् ॥ १ ॥ आ पश्चमाध्यायसमातेरधिकारोऽयम् । यद्यपि परचेस्युतः पूर्वमाक्षिप्यमाणं प्रत्ययार्थान्वययोग्यार्थाभिधाय्येव योग्यतया लभ्यते तथाप्यसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः । ततो विशिष्टस्य प्रातिपदिकतायां सकलसुब्लोपे स्पष्टमेवानिष्टम् । वार्तिककारस्तु अधिकारफलानि बहूनि पेतुः ॥ याप्पातिपदिकग्रहणमङ्गभपदसंज्ञार्थं यच्छयोश्च लुगर्थे वृद्धावृद्धावर्णस्वरब्यज्लक्षणे च प्रत्ययविधौ तत्सम्पत्यथार्थमिति । एतच्च सर्व प्रकारान्तरेणापि मुसाधम् । तथा हि । स्वादिविधेः संख्याकर्मादिवाक्यैरेकवाक्यतया कर्माण यत्तते तस्मादित्यादिक्रमेण प्रकृत्याक्षेपादङ्गभपदसंज्ञाः सिद्धाः। कंसीयपरशव्ययोरपि अवयवस्य भवन् लुक् यच्छयोरेव भविष्यति न तूपत्ययसप्रत्यययोः । उगवादिभ्यो यत् प्राक् क्रीताच्छ इतिवत् कमेः सः आङ्परयोः खनिशृभ्यां डिच्चेति विधिवाक्यसत्त्वे ऽपि उणादयोऽव्युत्पमानीत्याश्रयणात् । उणायन्ताः कचिद् व्युत्पत्तिकार्य न लभन्ते इति तदर्थः । एतचातः कुकमीति सूत्रे कमिग्रहणेन सिद्ध ऽपि कंसग्रहणाज़
Page #7
--------------------------------------------------------------------------
________________
२
शब्दकौस्तुभे
शापितम् । वृद्धेत्यादि पुनरवशिष्यते । तस्यायम्भावः । वृद्धाच्छ इत्यादौ वृद्धं यन्डया प्रातिपदिकं तत्प्रकृतिकात् सुबन्तादित्यर्थलाभायाधिकारः । समासतद्धितप्रकरणे सर्वत्र तत्प्रकृतिके लक्षणेति येन विधिरित्यत्र व्युत्पादितत्वात् । असति त्वधिकारे वृद्धावृद्धादित्यादीनि सुबन्तस्यैव विशेषणानि स्युरिति ।
अत्रेदं वक्तव्यम् । वृद्धावृद्धात् अनुदात्तादेरिति त्रयं तावद् भवतु सुत्रन्तस्य विशेषणम् । तथापि न क्षतिः । न चैवं उदीचां वृद्धादिति फिञ् ज्ञानां ब्राह्मणानामपत्ये स्यात् । योर्ब्राह्मणयोरपत्ये न स्यात् । तथा प्राचामवृद्धादिति फिञ् इयोर्ब्राह्मण्योरपत्ये स्यात् । ज्ञानां ब्राह्मणानामपत्ये न स्यात् । तथा अनुदा सादेरञ् सर्वस्य विकार इत्यत्र न स्यात् । प्रातिपदिकस्य गणपाठेऽन्तोदात्ते निपातनेऽपि सर्वस्य सुपीति सुदन्तस्यायुदात्तत्वात् । पञ्चानां विकार इत्यत्र तु अञ् स्यात् । षटूत्रिचतुर्भ्यो हलादिरिति विभक्तेरुदात्तत्वादिति वाच्यम् । अन्तरङ्गानपीति न्यायेन तद्धितोत्पत्तेः सुब्लुकव मागन्तरङ्गाणामपि सुष्कार्याणामप्रवृत्तेश्व | अन्यथा गोमत्प्रिय हत्यत्र नुस्दीर्घौ स्याताम् । तत्तत्तामसेत्यादौ च सविभक्तिकस्य स्थाने द्विर्वचने विभक्तिसम्ममोहे च ते ते तामसेति स्यात् । न च सौत्थितिर्वेक्षमाणिरित्यादिसिद्धये वक्ष्यमाणरीत्या स मर्थानां प्रथमादिति सूत्रस्थं समर्थग्रहणं कृतवर्णीनुपूर्वीकस्य प्रकृतिवां गमयतीति वाच्यम् । तस्य सुप्रकृति भागमात्रपरत्वात् । अन्यथा दण्डिमानित्यादौ इनो दीर्घापत्तेरिति दिक् । अत एवात इञ् दक्षस्यापत्यमित्यत्रैव स्यात् । दक्षयोर्दक्षाणां वा अपत्यमित्यत्र न स्यादित्यपास्तम् । सुष्कार्याणां दुर्लभ
1
Page #8
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ? आह्निकम् ।
३
त्वात् षष्ठया अवर्णान्तत्वासम्भवे स्थिते अवर्णान्तप्रकृतिकतालक्षणायाः सम्भवात् । सिद्धान्ते ऽपि तदावश्यकत्वाच्च । एवं नौद्यचष्ठान्नित्यादावपि यच्चकृतिके लक्षणा बोध्या । नौग्रहणावापकात् । तेन वाचा तरतीत्यादौ ठन्नादयो नेति दिक।
नन्वस्तु उक्तरीत्या वाक्यात् कप्रत्ययादिनिवृत्तये प्रातिप. दिकग्रहणम् । ड्याग्रहणं तु मास्तु । कथं तर्हि ड्यावन्ता. दिभ्यो विधिरिति चेत् लिङ्गविशिष्टपरिभाषयेत्यवेहि सा हि यथाकथञ्चित् प्रातिपदिकग्रहणे प्रवर्त्तते इति भाष्यमतम् । अत एव यामिनयन्त्यहानीत्यादौ किम् । वृत्तौ तु यद्यपीह सूत्रे विशिष्टरूपोपादानविषयत्वं परिभाषाया उक्तं तथापि रो रीति सूत्रे सामान्यविषयतैवाश्रिता । समर्थिता च हरदत्तेन । इयं च परिभाषा युवा खलतीति सूत्र कुमारः श्रमणादिभिरित्यत्र वा ज्ञाप्यत इत्युक्तम् । तदीयप्रयोजनानि तु बहूनि । तथाहि । सर्वनाम्नस्तृतीया च यथेह भवति भवतो हेतोरिति तथा भवत्येत्यत्रापि । कुसुलकूपकुम्भशालं विले । कुसूलविलमि. त्यत्रेव कुमूलीविलमित्यत्रापि पूर्वपदान्तोदात्तत्वं भवति । मात्सदृशी इह पूर्वसदृशेति समासः सदृशप्रतिरूपयोरिति स्वरश्च भवति । अयस्कुम्भी । अतः कृकमीति सत्वम् । कुमारीमाचष्टे कुमारयति । णाविष्ठविदिति टिलोपः । एवं यामिनीयाचरन्ति यामिनयन्त्यहानीत्यत्र किबपि फलम् । शक्तिला.
लाङ्कुशेत्यत्र घटघटीग्रहणादनित्येयम् । तेन मद्राणां राज्ञी मद्रराज्ञी । राजाहः सखिभ्य इति टन नेति दिक् । यत्तु युवोरनाकाविति सूत्रे विभक्तौ लिङ्गविशिष्टाग्रहणमिति भाष्ये उक्तं तदप्येतेन गतार्थ सखी सख्यावित्यादावनङ्गित्वाद्यभावस्योक्तरीत्यैव सिद्धरित्यवधेयम् । एवं स्थिते प्रकृतसूत्रे ह्या
Page #9
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे
ग्रहणं व्यर्थमिति चेदुच्यते । लोहिनिकार्यकयोः सिद्ध्यै तत् । तथा हि । स्वार्थिकत्वेनान्तरङ्गः परश्च लोहितान्मणाविति कन् जीषं बाधेत । ततश्च लोहितिकेत्येव स्यात् । इष्यते तूभयम् । ङीब्ग्रहणसामर्थ्यात्तु ड्यन्तात् कनि रूपद्वयं सिद्धम् । वर्णादनुदात्तादिति नत्वस्य वैकल्पिकत्वात् । तथा च लोहिताल्लिङ्गबाधनं वेति नारम्भणीयम् । आर्यशब्दात्तु न सामिवचन इत्यत्र ज्ञापयिष्यमाणो ऽन्यन्तस्वार्थिको ऽपि कन् आष्ग्रहणसामर्थ्यात् पूर्व न प्रवर्तते । तेनोदीचामातः स्थाने यकपूर्वाया इतीत्वविकल्पः सिद्ध्यति ।
स्यादेतत् । एवं सति बहुगामत्का न स्यात् । ब. हुगोमच्छब्दात् कपः प्रागुगिल्लक्षणडीप्पसङ्गात् । मैवम् । अकृत एव समासे अलौकिकप्रक्रियावाक्य एव उत्तरपदस्यावयवीभूय समासान्तः प्रवर्त्तत इति वक्ष्यमा. णत्वात् । स च विभक्तेः पुरस्तादित्येके । परस्तादिति पक्षे तु तद्धितान्तत्वात् सुब्लुकि पुनः सुपि चाकृते समास इति सिद्धान्तः । तस्मादन्तरङ्गतद्धितवाधनार्थ ड्याग्रहणमिति स्थितम् । युवतितरेत्यत्र तु तिप्रत्यय एवान्तरङ्गः । कृते तु तस्मिन् तरप् । पुंवद्भावस्तु तसिलादिष्विति प्राप्तो ऽपि पर्जन्यवल्लक्षणप्रवृत्त्या हस्तेन बाध्यते । आह च । श्रृंबद्भाबाद्धस्वत्वं खिद्यादिकेष्विति केचित् तन्न । युवतिशब्दस्याज्यन्तत्वन हस्वाप्राप्तेः। तस्माद् भाष्यप्रयोगादेघेह न पुंवदिति तत्वम् । जातेश्चेति पुंवद्भावप्रतिषेध इति तु न युक्तम् । यौवनस्यानित्यतया अजातित्वात् । अन्यथा युवजानिरिति न सिद्धयेत् ॥ १॥ स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यसङ.
Page #10
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे । आह्निकम् ।। सोसामयोःसुप् ॥ २ ॥
उयन्तादावन्तात् प्रातिपदिकाच परे स्वादयः प्रत्ययाःस्युः। गौरी। राज्ञी। शारवी खट्वा। सीमा । कारीषगन्ध्या। रामः। प्रथमैकवचने उकार एतत्तदोः सुलोप इत्यत्रोच्चारणार्थः। केवल. व्यअनस्य तत्रोच्चारणं तु क्लिष्टं स्यात् । अर्वणस्त्रसावित्यत्र विशेषणार्थो वा । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । तथा च वाजमर्वत्सु पयउस्रियास्विति न सिद्धयेत् । अनङ् सावित्यादौ विशेषणार्थस्तु न । सीत्युक्तेऽपि सर्वनामस्थानग्रहणा. नुवृत्त्याऽभिमतसिद्धेः ॥ २ ॥
स्त्रियाम् ॥ ३ ॥ अधिकारोऽयम् । स्त्रीत्वं च टाबादीनां घोत्यं वाच्यं वेति पक्षद्वयमपि भाष्ये स्थितम् । यदत्र वक्तव्यं तत् सरूपसूत्रे एवोक्तम् ॥ ३॥
अजायतष्टाप् ॥ ४ ॥ अजादीनामकारान्तस्य च यत् स्त्रीत्वं तत्र टाप् स्यात् । तदीयार्थसमवेतत्वं षष्ठ्यर्थः । सविधानात् प्रकृतिताऽपि तस्यैव बोध्या । यद्वा । शब्दस्याप्यविशेषणतया भानादश्वाशब्दापे. क्षया तुरगीशब्दस्यार्थभेदादतिप्रसङ्गशद्देव नास्ति । अजादिग्रहणं ङीषो डीपश्च बाधनाय । टापः पकारः स्वरार्थः । या. डाप इत्यादी सामान्यग्रहणार्थश्च । तदविघातार्यष्टकारः । बामदेवाड्ड्यड्ड्यावित्यत्र हि तदनुबन्धकग्रहणे नातदनुबन्धकस्येति परिभाषा ज्ञापयिष्यते । अमा। अतः । खट्टा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पश्चाजी । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजहत्स्वार्थायां समाहारो ऽप्य
Page #11
--------------------------------------------------------------------------
________________
६
शब्द कौस्तुभे
I
जाद्यर्थ एवेति चेन्न । तथापि तस्य पदान्तर समभिव्याहारसापेक्षतया बहिरङ्गत्वात् । दाविधेस्तु अन्तरङ्गे चरितार्थत्वात् । परमाजेति तर्हि कथमिति चेत् । प्रागुत्पन्नस्यैव तत्र श्र वणादित्यवेहि । अत्यमा निरजेति तु अदन्तप्रयुक्तष्टापू । न च पञ्चाजीत्यादावपि तथाऽस्त्विति वाच्यम् । द्विगोरिति ङीपा वाधितत्वात् । अजा | एडका । अश्वा । चटका | मूषिका । एषु जातिलक्षणो ङीप् प्राप्तः । वृश्चिकृषोः किकिन्नित्यधिकारे सुपेद्दति किकिनि इकारमध्यो मूषिकः । यस्तु मृष स्तेये इति दीर्घोपधात् संज्ञायां क्वनि मूषकशब्दो माधवेनोक्तस्ततो ऽप्ययं टापू | प्रत्ययस्थादितीत्वमिति तु विशेषः । व्याघ्रीतिवत् संज्ञात्वेऽपि जातित्वानपायान् ङीष्प्राप्तिरवधेया । बाला । वत्सा | होडा | मन्दा । विलाता । एषु वयसि प्रथम इति ङीष्प्राप्तः । पूर्वापहाणा । अपरापहाणा । अण्णन्तः । निपातनाण्णत्वम् ।
1
46
( सम्भवाजिनशण पिण्डेभ्यः फलात् ) " । संफला । भस्त्रफला । ङयापोः संज्ञाछन्दसोर्बहुलमिति ह्रस्वः । एतच्च फल निष्पत्ताविति धातौ माधवग्रन्थे स्थितं भाष्ये तु दीर्घ एव प्रायशः पठ्यते । सत्प्राक्क्काण्डप्रान्तशतैकेभ्यः पुष्पात् | पाककर्णेत्यादिसूत्रस्थभाष्यवार्त्तिकपर्यालोचनयेह प्राक्शब्दान्तर्गत: प्रशब्दो न पाठ्यः । सदच्काण्डेति तत्र पाठात् । प्राकूपुष्पा । प्रत्यकूपुष्पा इत्युदाहरणाच्च । इह "शूद्रा चामहत्पूर्वा जातिरिति पव्यते । अस्यार्थः । शूद्रशब्दष्टापमुत्पादयति जातित् महत्पूर्वस्तु न जातिवेदित्यनुषङ्गः । शूद्रा । जातिः । पुंयोगे तु शूद्री । कथं तर्हि वैश्यशूद्योश्च राजन्यान्माहिष्योग्रौ सुतौ स्मृताविति उच्यते । अस्तीहापि जन्यजनकभावः पुंयोगः । न
Page #12
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे १ आह्निकम् ।
हि तत्र दम्पतिभाव एव गृह्यते इति तत्रैव स्फुटीकरिष्यते । अत्रेदमवधेयम् । अजादिगणे शूद्रेत्येव पाठ्यम् । इतरत् सर्व व्यर्थम् । तथाहि । मुख्ये कार्य संप्रत्ययाज्जातिलक्षणो ङीवेव बाधिष्यते । पुंयोगे हि गौणी वृत्तिः । महाशूद्रशब्दस्तु विशिष्ट एव जात्यन्तरपरः । आभीरी तु महाशूद्री जातिपुंयोगयोः समेत्यमरकोशात् । तत्र गौरखरादिवत् कथं चिदसताऽप्यव - यवार्थेन व्युत्पादनमस्तु । शुद्रशब्दार्थसमवेत स्त्रीत्वाभावात्तु टापः प्रसङ्ग एव नास्ति । या तु महती शूद्रा तत्र महाशूद्रेतीष्यत एव । अत एवायं निषेधस्तदन्तविधिज्ञापक इत्यपि शिथिलमूलम् । इष्यमाणस्तु तदन्तविधिर्विशेषणविशेष्यभाववैपरीत्येन सुलभः । अनुपसर्जनादिति ज्ञापकाद्वेति दिकू | कुञ्चा । उष्णिहा | देवविशा । हलन्ता एते इत्येके । ज्येष्ठा कनिष्ठा मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ " (मूलान्नञः ) " ॥ अमूला ॥ ४ ॥
।
ऋन्नेभ्यो ङीप् ॥ ५ ॥
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । कर्त्री । दण्डिनी ॥ ५ ॥
उगितश्च ॥ ६ ॥
उगिदन्तात् प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । धातोरुगितो न । अञ्चतेस्त्विष्टः । उखास्रत् । पर्णध्वत् । प्राची । प्रतीची । एतच्च उगिदचामिति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्य तर्ह्यश्चतेरेवेति नियमनाल्लभ्यते । अधातोरिति तु वाक्यभेदेनाधातुभूतपूर्वाद्विधानार्थम् । तेन गोमत्यः किपू मोमानिति सिद्धम् । करिष्यमाणा ब्राह्मणीत्यत्र तु न भवति । श्रय
Page #13
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे
मनुबन्धकार्य नेति सामान्यापेक्षज्ञापकात् । तदनुबन्धकपरिभा या वा । शत्रादौ तु सामर्थ्यात् सा न प्रवर्त्तते ऌटि तु न सामर्थ्यम् । लुलुटोरित्यादौ चरितार्थत्वात् ॥ ६ ॥ वनो र च ॥ ७ ॥
1
वनन्तात् प्रातिपदिकात् स्त्रियां ङीप्स्याद्रश्चान्तादेशः । इह वमिति ङ्गनिपूकनिब्बनियां सामान्यग्रहणम् । प्रत्ययग्रहणे तदन्तग्रहणम् । तेन प्रातिपदिके विशेषणात्तदन्तान्तं लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । व्यपदशिवद्भावाद्वन्नन्तादपि भवति । न चाप्रातिपदिकेनेति निषेधः शक्यः । तस्यास्माभिर्येन विधिरिति सूत्र एव प्रत्याख्यातत्वात् । स्त्रं रूपमित्यस्यानुवृत्तेश्च । तस्य चेति वार्त्तिकं सर्वशेष इति भाष्ये एव स्थापितत्वाच्चेति दिकू ! ऋनेभ्य इति कीपमनूद्य तत्सन्नियोगेन रेफमात्रं विधीयते ।
स्यादेतत् । बहवो धीवानो यस्यामिति विग्रहे बहुधीवरीति पाक्षिकामिष्यते । तन्न सिद्ध्यति । अत उपबालोपिन इति ङीपि लब्धे ऽपि तस्य प्रकरणान्तरस्थतया तत्सन्नियोगेन रेफस्य दुर्लभत्वात् । स हि ऋनेभ्य इत्यनेन ङीपा सन्नियोगशिष्टः । उच्यते । बहुधीवरीस्यत्रापि ऋनेभ्य इत्यनेन ङीप् । अत एव रेफः सिद्ध्यति । न चानो बहुव्रीहेरिति तन्निषेधः शक्यः । डावुभाभ्यामित्येव निबेघडापोः पर्याये लब्धे तत्रत्यस्यान्यतरस्याङ्ग्रहणस्य निषेधडाब्भ्यां मुक्ते प्रकृतङीबपि प्रवर्त्ततामित्येतदर्थत्वात् । न चैवं मन्नन्ते ऽपि स्नेप्प्रसङ्गः । व्यवस्थितविभाषाश्रयणात् योगविभागाद्वा । तथा हि । डावुभाभ्याम् । मन्नन्तादभन्तबहुब्रीहेश्व डाप्स्यात् । सामर्थ्यात् पर्यायः । इतरथा हि मनोडापू अनोबहुवीहेरि
Page #14
--------------------------------------------------------------------------
________________
४ अध्याये १ पाद १ आहिकम् स्येव सूत्रयेत् । ततः अन्यतरस्याम् । मन इतीह निवृत्तम् । अनो बहुव्रीहेर्वा डाप् स्यात् । पूर्वेण सिद्धे डीपा सह विकल्पं लन्धुमिदमिति । न चैवमन उपधेत्यादेर्वैयर्थ्यम् । अनो योऽसौ विकल्पः स उपधालोपिन एवेति नियमार्थ तदारम्भात् । वथा च तस्य निषेधार्थतया सुपर्वेत्यादिरनुपधालोपी उदाहरणम् । एषा तावत् सूत्रमते बहुधीवर्या गतिः । भाष्ये तु सूत्रभङ्गेनापि समाहितम् । अनो बहुत्रीहेरित्यस्मादनन्तरमुपधालोपिनो वेत्येवास्तु । प्रदेशान्तरस्थं तु अन उपधेत्यादिसूत्रं मा. स्त्विति । तस्मादधीवानौ बहुधीवे बहुधीवर्याविति रूपत्रयं स्थितम् । वनो न हश इति वक्तव्यम् । विहितविशेषणं चेदम् । इशन्तादातोर्वहितो यो वन्. तदन्तात्तदन्तान्ताच, प्रातिपदिकान्डीब् नेत्यर्थः । तेन शर्वरीत्यत्र प्रतिषेधाभावः । ओण अपनयने । वनिप् । विड्वनोरित्यात्वम् । हशन्ताद्विहितत्वान्न डीबी । अवावा ब्रामणीति हरदत्तः । प्रायिको ऽयं निषेधस्तेनावावरीति न्यासकारः । बहुलं छन्दसीति ङीब्रौ वक्तव्यौ । अधिना यज्वरी रिसः। वनो न हश इत्युदाहृतनिषेधश्च ङीषोऽपि बोध्यः । तेन राजयुध्वा स्त्रीत्यत्र ऋन्नेभ्य इति न ङीप् ॥ ६ ॥
पादोऽन्यतरस्याम् ॥ ७ ॥ पाच्छब्दः कृतसमासान्तः । तदन्तात् प्रातिपदिकादा डीप् स्यात् । द्विपदी । द्विपात् ॥ ७ ॥
टाबृचि ॥ ८ ॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । डीपो ऽपवादः । द्विपदा ऋक् । एकपदा । ननु पदशब्दः पादसमानार्थको ऽस्ति । तस्याः सप्ताक्षरमेकं पदं एक पाद इति ज्याप्सूत्रे
Page #15
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे
भाष्यात् । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्विति कोशाच्च । तेनैव सिद्धमेकपदेति रूपम् । सत्यम् । ङीपू निवृत्तये हलन्तप्रयोगनिवृत्तये च सूत्रारम्भः ॥ ८ ॥
न षट्स्वस्रादिभ्यः ॥ ९॥
ܕ
1
स्त्रियां यद्विहितं तदेभ्यो न स्यात् । पञ्च स्त्रियः । इह नलोपे कृते प्राप्तष्टाप् ततः पूर्व प्राप्तो ङीपू चेत्युभयं निषिध्यते । न च नलोपस्यासिद्धत्वादेव न टाबिति वाच्यम् । नलोपः सुप्स्वरादिष्वेवासिद्ध इति नियमात् । न च चापः पकारेण सुप्र त्याहारमाश्रित्य टाब्विधेरपि सुब्बिधित्वं सुवचम् | बहुचर्मिकादौ प्रत्ययस्थादितीत्वस्याप्राप्तिप्रसङ्गात् । इत्वं ह्यापि विधीयमानं सुपि विधिः । तस्मिन् कर्त्तव्ये राजभ्यामित्यादौ सुपि चेति दीर्घ इव नलोपस्यासिद्धत्वं स्यात् । आह च ।
षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् । प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्वे तस्मान्नोभाविति ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्वादय उदाहृताः ॥
भागवृत्तिकारस्तु नप्तृशब्दमपि स्वस्त्रादिषु पठित्वा नप्ता कुमारीत्युदाजहार । अमरस्तु नष्त्री पौत्री सुतात्मजेति ङीपमुदाहरतन मेने । तिसृचतस्रो रिह पाठः सन्निपातपरिभाषाया अनित्यत्वं ज्ञापयति । तेन यादि सिद्धम् ॥ ९ ॥
मनः ॥ १० ॥
मन्नन्तान ङीप् । सीमा । अतिमहिमा ॥ १० ॥ अनो बहुव्रीहेः ॥ ११ ॥ अनन्तार बहुवीहेर्न • ङीप् । सुपर्वा । सुशर्मा ॥ ११ ॥
Page #16
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
डाबुभाभ्यामन्यतरस्याम ॥ १२ ॥ सूत्रद्वयोपात्ताभ्यां प्रकृतिभ्यां डाब् वा स्यात् । इह योगविभागादिकं वनो रचेत्यत्रैव व्युत्पादितम् । सीमा । सीमे । सीमाः। सुपर्वे । सुपर्वाः । इहानन्तस्य बहुव्रीहेः प्राप्तो डीबुपधालोपिन एवति नियमान्नेत्युक्तम् । भाष्यकारस्त्वाह । अनो बहुव्रीहेरित्यस्मादनन्तरं उपधालोपिनो वेति कर्त्तव्यम् । एवश्वान इति न कर्त्तव्यम् । डाप्सूत्रे चान्यतरस्यां ग्रहणं त्याज्यमिति । बहुराजे बहुराइयौ बहुराजानावित्यत्रोभयथापि रूपत्रयं निर्विवादम् ॥ १२ ॥
अनुपसर्जनात् ॥ १३ ॥ अधिकारोऽयम् । यदिह वक्तव्यं तत् सर्वादिसूत्र एवोक्तम्॥१३॥ इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे
पादे प्रथममाह्निकम् । टिड्ढाणञ्चयसज्र्धनञ्मात्रच्तयप्ठक्
, ठकवरपः ॥ १४ ॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां डीप स्यात् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । इहानेकं वाक्यम् । तत्राण यो ऽकार इति व्याख्यानानेह आपिशलमधीते आपिशला ब्राह्मणीति प्रोक्तार्थे अण् उपसर्जनम् । अध्येत्रण तु लुप्त इति टाबेष भवति । तदनुबन्धकग्रहणे नातदनुबन्धकस्य । तेनेह न पचमाना। ल्युडन्तासुटित्वसामर्थ्याद्भवत्येव । गोदनी । लटस्तु टित्वं टेरेत्वे चरितार्थम् । यदि तु तदनुबन्धकेसि परिभाषा विशिष्टरूपो
Page #17
--------------------------------------------------------------------------
________________
१२
शब्दकौस्तुभे
श्वारणविषयैव तर्हि शानचः शित्वमनुबन्धकार्येष्वपि कचिदनविधाविति निषेधज्ञापनार्थमिति पचमानेति सिद्धम् ।
केचित्तु यासुटो ङित्वं सामान्यतो ज्ञापयति लाश्रयमनुबन्धकार्यमादेशानां नेति । तेन पचमाना करिष्यमाणा ब्राह्मणीत्यत्र टिल्लक्षण उगिल्लक्षणश्च ङीमेत्याहुः । पठिता विद्येत्यत्र तु न ङीप् । इटष्टित्वस्यादेशविधौ चरितार्थतया प्रत्यया विशेषकत्वेन टिदन्तस्य टितो वा प्रातिपदिकस्याभावात्
यदुक्तं वृत्तिकृता ट्युट्युलोष्टित्करणं ज्ञापकं आगमटित्वं न ङीपं प्रवर्त्तयतीति । अन्यथा हि तुटष्टित्वेन सिद्धे किं तेनेति । तच्चिन्त्यम् । पुराणमोक्तेष्विति लिङ्गात्तुडभावपक्षे ङीपा तस्य चरितार्थत्वात् । न च बहादित्वात्तत्र ङीषेव, पुनः पुनर्जायमाना पुराणीत्यादावन्तोदात्तत्वदर्शनादिति वाच्यम् । बह्नादिभ्यश्चेत्यत्र वेत्यनुवृत्त्या पक्षे ङीपो दुर्वारत्वादिति हरदत्तः । अत्रेदं वक्तव्यम् । पुराणशब्दो घृतादित्वादन्तोदात्तः । अयं पन्था अनुवित्तः पुराणः पुराणमोकः सरव्यमित्यादावन्तोदात्तताया निर्विवा दत्वात् । ततश्च ङीषा मुक्ते टावेव न तु ङीप् । अन्यथा गौरादिष्वेव पठेत् । अन्तोदात्तान्ङीपूङीषोरविशेषात् । तस्माद् वृत्तिकारोक्तं ज्ञापकं सम्भवत्येव । किन्त्वस्मदुक्तरीत्या निष्फलं तदिति दिकू ।
टष्टित्वात् स्तनन्धयी । पेटष्टित्वं चेरैव ङीपं प्रवर्त्तयति । न तूक्तं रावुलाद्यन्त इति नासिकास्तनयोरिति हरदत्तादयः । अत्र च सम्प्रदाय एव शरणम् । द । सौपर्णेवी । यद्यपि ढक्ढञोः सानुबन्धकत्वं तथापि निरनुबन्धकस्यासम्भवात्तयोरेवेह ग्रहणम् । शिलाया ढ इति हि डे शिलेय
Page #18
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
१३
1
मिति क्लीबमेव । स्वभावात् । यो ऽपि तत्र साधुरिति अधिकारे सभाया यः दश्छन्दसीति विहितस्तदन्तमपि । स्त्रीलिङ्गं सभेयी पण्डितमण्डलीत्यादि वेदे नास्त्येव । एतच्च निरनुबन्धकासम्भवप्रतिपादनपराद्भाष्यादेव निर्णीयते । अणू । उपगोरियं औपगवी । कुम्भकारी । कथं तर्हि चौरी तापसीति । चुरातपःशब्दाभ्यां शीलमित्यर्थे छत्रादिभ्यो णः । तत्र टाप्पामोति । तदस्यां प्रहरणमिति णप्रत्यये कृते दाण्डा मौष्टेत्यत्र यथा । अत्राहुः । छत्रादिभ्य इति णे ऽप्यकृतं भवति ज्ञापकात् । तथा हि । कार्मस्ताच्छील्ये इति टिलोपो निपातितः अन्निति प्रकृतिभावं बाधितुम् । स च प्रकृतिभावो ऽणि विधीयमानश्छत्रादिणान्तस्य कर्मशब्दस्य प्राप्त एव न यदि छत्रादिणे Sण कृतं न स्यादिति । अञ् । उत्से भवा औत्सी । उदपाने भवा औदपानी | उत्सादिभ्यो ऽञ् । साधारणी । धारेर्ण्यन्ताण्यासश्रन्थ इति युचि समाना धारणा यस्या इति बहुव्रीहौ पृषोदरादित्वात् समानस्य सादेशो दीर्घः । आनीधसाधारणादञिति पाञ्चमिकवार्त्तिकेन पाक्षिकः स्वार्थे ऽञ् । तदभावे तु टापू साधारणा । न चेह शार्ङ्गरवाद्यञ् इति ङीना सिद्धम् । अजन्तस्याद्युदात्ततया ङीपि ङीनि च स्वरे विशेषाभावादिति वाच्यम् । अजातित्वात् । शार्ङ्गरवादीत्यत्र हि जातेरित्यनुवर्त्तते । अन्यथा पुंयोगे ङीषमपि ङीन् बाधेत वैदस्य स्त्री वैदीति । न चैवं विदस्यापत्यं वैदीत्यत्रापि टिड्ढाणञित्यनेनैव सिद्धे शार्ङ्गरवादिसूत्रस्थमञ्ग्रहणं व्यर्थमिति वाच्यम् । औत्सीत्यादौ चरितार्थस्य ङीपो जातिलक्षणेन परेण ङीषा बाधापत्तेः । अव्ग्रहणं स्पष्टार्थमिति तु प्रसादकारस्य प्रमाद एव । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । प्रमाणे द्वयसच्घ्नञ्मात्रचः । तयपू । पञ्चत1
Page #19
--------------------------------------------------------------------------
________________
१४
शब्दकौस्तुभे यी । मात्रजिति प्रत्याहारग्रहणे तु द्वयसच्दनन्तयपां ग्रहणं शक्यमकर्तुमित्युक्तं सर्वादिसूत्रे । ठकठबोर्भेदेनोपादानं ठनिवृत्त्यर्थम् । आक्षिकी । लावणिकी । उनि तु दण्डो ऽस्त्यस्या द. ण्डिका । अत एव मिठो ऽपि न ङीप् । काशिषु भवा का. शिका । काश्यादिभ्यष्ठभिठौ । कञ् । तादृशी । अत्रेदमव. धेयम् ।
याहगादौ सूत्ररीत्या कर्मकर्तरि कृत् स्मृतः । भाष्यकारैस्त्विवार्थे ऽत्र दृग्दृशौ तद्धितौ स्मृतौ ।।
अयं हि भाष्याशयः । दृग्दृशवतुष्विति सूत्रे दृक्षे चेति वार्तिकेन क्सः कल्पत इति यथा प्रसिद्धरीत्या स्वीकृतं तथा हग्दृशक्षा एव वतुसाहचर्यादुत्तरपदाधिकारं बाधित्वा तद्धिताः कल्प्याः । ते च लोकसिद्धमिवार्थमुपजीवितुं इवे प्रतिकृतावित्यधिकारे कल्प्यन्ते । पदान्तविषये कुत्वमपि दृग्दृशेति निपातनात् सिद्धम् । न चैवं दृग्दृष्टिरिति न सिद्धयेदिति वाच्यम् । दृग्दृशेति निर्देशस्य सामान्यापेक्षज्ञापकत्वादिति । अस्मिन् पक्षे कग्रहणमपनीय तस्य स्याने दृशः पाठ्यः । करए । इत्वरी । इरानशजीत्यादिना करप । करपोऽन्यतरानुबन्धोपादानं स्प. टार्थम् । एकेनैव वरचो व्यावृत्तेः । स्थेशभासेति वरन् । विन्यस्तमङ्गलमहौषधिरीश्वराया इति भारविः । ईश्वरीति तु त्रेधा । तथा हि । पुंयोगलक्षणे ङीषि अन्तोदात्तम् । इच्चोपधाया इत्यनुवृत्तौ अश्नोतेराशुकर्मणि वरडित्यौणादिके वरटि टिवान्डीपि मध्योदात्तम् । ईशेः कनिपि वनिपि वा डीब्रयोराद्युदात्तमिति । अत्र वार्तिकम् । ख्युन उपसंख्यानमिति । सौनागास्तु ननजीकक्ख्य॒स्तरुणतलुनानामुपसंख्यानं पेतुः । आन्यसुभगेत्यादिसूत्रे भाष्य एवेदं स्पष्टम् । स्त्रैणी । पौंस्नी ।
Page #20
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
१५
शाक्तीकी । बाहीकी । आढ्यङ्करणी । तरुणी । तलुनी । तरुणतलुनयोगरादिषु पाठान् ङीष्ङीपोः पर्यायो बोध्यः । स्वरे विशेषः । तरुणतलुनयोरुनन्प्रत्ययान्तत्वेनाद्युदात्तता । सैवङीपि । ङीषि त्वन्तोदात्ततेति । वृत्तिकारस्तु ख्युनं सूत्रे प्रक्षिप्तवान् ॥ १४ ॥
यञश्च ॥ १५ ॥
1
यञन्तात् स्त्रियां ङीप् स्यात् । गार्गी । वात्सी । ननु द्वीपे भवा द्वैप्या | द्वीपादनुसमुद्रं यञ् । इहापि ङीप् प्राप्नोति । सत्यम् । अत एवेह आपत्यग्रहणं कर्त्तव्यमिति वार्त्तिककाराः । भाष्ये तु कञ्करपो ऽञश्चेत्यकारः प्रश्लिष्यते । गर्गादिभ्यो यत्रिति सूत्रे ऽप्येवम् । न चैवं यञिवोश्चेति सूत्रे अनुवन्धकत्वादयञ् न गृह्येतेति वाच्यम् । गोत्रग्रहणानुवृत्तिसामथ्र्यैन परिभाषाबाघात । यस्कादिभ्यो गोत्रे यञिञोश्चेति तत्राप्यकारप्रश्लेषाद्वेति सिद्धान्तः । देवाद्यञञाविति प्राग्दीव्यतीये यजि तु देवस्यापत्यं दैव्येति टाबेव । यद्यपि वार्त्तिकरीत्या ङीमातस्तथापि भाष्ये ऽयञ् इति व्याख्यातत्वात् । यथोत्तरं मुनीनां प्रामाण्यात् । यद्वा आपत्येति वार्त्तिकमपत्याधिकारविहितपरं व्याख्येयम् । तथाभूतश्च गर्गादियमेव न तु देवाद्यञ् । तस्यापत्याधिकारात् प्रागेव पाठात् । तथा च भाष्यवार्तिकयोरविरोधः ॥ १५ ॥
प्राचां ष्फ तद्धितः ॥ १६॥
·
यञन्तात् ष्फो वा स्यात् स्त्रियां स च तद्धितः । षित्वसामर्थ्यात् ष्फेणोक्ते ऽपि स्त्रीत्वे ङीष् । गार्ग्यायणी । आवट्यायनी | स्यादेतत् । आवट्याच्चेति चाहि भाव्यम् । चां च यद्य
Page #21
--------------------------------------------------------------------------
________________
१६
शब्दकौस्तुभे
प्युदीचां मते सावकाशस्तथापि परत्वादावव्यात् ष्कं प्राचां मते बाधेत । अत्राहुः । उत्तरसूत्रात् सर्वत्रग्रहणमिहापकृष्यते तेन बाधकविषयेऽपि प्राचां ष्फ एव भवति । एवं पाद्यमश्वाविषयेऽपि प्राचां ष्फ एव । शार्कराक्ष्यायणीति यथा ॥ १६ ॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १७ ॥
लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यः ष्फः स्यात् सर्वस्मिन् मते । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेन्न । पूर्वसूत्रे बाधकबाधनेनोपयुक्तस्य तस्येहापि स्पष्टत्वार्थमनुवृत्तेरभ्युपगमात् । लौहित्यायनी । इह गर्गादौ कपि कत कुरुतेति पठ्यते । तत्र कपिशब्दात् परः कतशब्द एवावधिः तस्य स्वतन्त्रप्रातिपदिकतया अर्थवत्वात् । कुरुकतेति तु कतशब्दः प्रातिपदिकैकदेशः ।
कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी फाणौ तत्र प्रयोजनम् ॥ गणशुद्ध्यर्थमिदं वार्त्तिकम् । गणे हि कपिकत कुरुकत । अनडुहः । कण्व शकलेति पठ्यते । तत्रानडुहकुरुकतशब्दावस्मात् स्थानादपकृष्यान्यत्र पाठ्यौ शकलशब्दस्तु कतकरावयोर्मध्ये पाठ्यः । न चैवं शकलो गर्गादियमात्रं लभेत न तु ष्फाणौ । लोहितादिकण्वाद्युभयबहिर्भूतत्वादिति वाच्यम् । कतन्तेभ्यः कण्वादिभ्य इत्युभयत्रापि षष्ठीतत्पुरुषबहुव्रीह्योरेकशेषाश्रयणात् । कतस्य ह्यन्तः समीपः शकलः तथा कण्वस्यादिरपि स एव । स्वराभिन्नानामिति वचनाद्बहुव्रीहेः शेषः । तेन शाकल्यायनी शाकल्यस्य छात्राः शाकलाः । लोहितादित्वात् ष्फः । कण्वादिभ्यो गोत्रे इत्यण् च सिद्ध्यति ।
Page #22
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम्
कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥ आभ्यांष्फः स्यात् । कुर्वादिभ्योण्य इति ण्ये कृते ढक्च मण्डू. कादित्याणि च कृते यथाक्रमं टापडीपोरपवादः । कौरव्यायणी ! माण्डूकायनी । कौरव्यसाहचर्यादपत्यप्रत्ययान्तस्यैव माण्डूक. स्येह ग्रहणम् । अत एव यद्यसौ कूपमाण्डूकि तवैतावतिकस्मय इति भट्टिप्रयोगे मण्डूकस्येयं भार्येति तस्यदामित्यणिति जयगगला । आसुरेरुपसंख्यानम् । आसुरायणी । छश्चेति वक्तव्य. म् । आसुरिप्रसङ्गादिदमुक्तम् । शैषिकेष्वर्थेषु इनश्चेत्याणि प्राप्त छ उपसंख्येय इत्यर्थः। असुरस्यापत्यमासुरिः तेन प्रोक्त आसुरीयः कल्पः । अत्र छ एवावश्योपसंख्येयः। फस्तु प्राचामिति सूत्रे तद्धितग्रहणात् सिद्धः । अन्यतोऽपि विधाने हि सति यस्येति लोपप्रवृत्त्या तत् सार्थकम् । अकारान्तेषु सवर्णदीर्घेणापि रूपसिद्धेः । न च प्रातिपदिकसंज्ञैव तत्फलम् । तां विनाऽपि षित्वसामर्थ्यान्डीसिद्धेः ।
वयसि प्रथमे ॥ २० ॥ प्रथमवयोवाचिनोऽदन्तात् स्त्रियां डीए स्यात् । कुमारी । प्रथमवयोवाची एषः । न तु अनूहत्वप्रयुक्तः पुंस्यपि प्रयोगात् । वृद्धकुमारीति तु गौणः प्रयोगः ॥ वयस्यचरम इति वक्तव्यम् । वधूटी । चिरिण्टी । वधूटचिरिण्टशब्दो यौवनवचनी । यौवनं च न प्रथमं किन्तु द्वितीयमिति वार्तिकारम्भः। यद्यप्युपचयापचयलक्षणे द्वे एव वयसी इति पक्षे यौवनस्यापि प्राथम्यात् सूत्रे गैव सिद्धं तथापि मतान्तरेण वार्तिकारम्भः । चत्वारीति हि केचित् । यथाहुः ।
आये वयसि नाधीतं द्वितीये नार्जितं धनम् । शब्द. तृतीय. 2
Page #23
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे
तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसीति । त्रीणीन्यन्ये यथाहुः। पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्त्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमईतीति ॥
अतः किम् । शिशुः । इह तु न भवति । उत्तानशया । लोहितपादेति । प्रकरणादिना वयसः प्रतीतावपि तस्य शब्दादप्रतीतेः। याऽपि हि व्याध्यादिवशादुत्ताना शेते अलक्तकेन च रक्तचरणा साऽपि शब्दात् प्रतीयत एव । कथं पुनर्द्विवर्षेति । उच्यते। इहापि न वयो वाच्यम् । शालादावपि प्रयोगात् । कन्यायाः कनीन चेति ज्ञापकात् कन्याशब्दान डीप् ।
द्विगोः ॥ २१ ॥ द्विगुसमासाददन्तात् प्रातिपदिकान्डीए स्यात् । त्रिलोकी । अजादित्वात्रिफला । अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्वितलुकि ॥२२॥
एतदन्ताद्विगोर्डीन स्यात् तद्धितलुकि सति । अपरिमाणान्तात् । पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितार्थे द्विगुः । आहीयष्ठक् । अध्यर्द्धपूर्वेति- ठको लुक् । परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तत्परिमाणम् । आह च उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वत इति । तेन कालसंख्ययोन डीए । दे वर्षे भूतेति ठमो वर्षाल्लुक् चित्तवति निमिति लुक् । द्विवर्षा । द्वयोरहोर्भवा ह्यहा । कालाइ । द्विगोलुंगनंपत्ये इति ठो लुक् । ननु द्विगोरिति डीपि निषिद्धेऽपि ठअन्तत्वात् स्यादिति चेन । ठबोऽकार इति व्याख्यानात् । अन्यथा द्विवर्षा न स्यात् । न चैवमपि राजाहरिति टचमाश्रित्य स्यादिति वाच्य
Page #24
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । १९ म् । टियोऽनुपसर्जनमित्युक्तेः । इह च तद्धितार्थ प्रत्युपसर्जनत्वात् । भाष्यकारैरचा टचो बाधोपगमाच्च । यत्त्वत्र रात्राहाहा इति पुंस्त्वेन भाव्यमिति । तन्न । तस्य परवल्लिङ्गमात्रबाधकत्वेपि तद्धितान्तत्वप्रयुक्तद्विवर्षादिसाधारणविशेष्यनिघ्नत्वाबाधकत्वात् । द्विशता । द्वाभ्यां शताभ्यां क्रीतेति पणपादमाषशताद्यदिति नित्ये यति प्राप्ते शाणाद्वैत्यत्र शताचेति वक्तव्यमिति वचनात् पक्षे संख्याया अतिशदन्तायाः कन्निति कन् । तस्याध्यःति लुक । कालसंख्ययोरिव प्रमाणवाचिनोऽप्यपरिमाणत्वं तुल्यम् । तेन द्वौ शमी प्रमाणमस्या इति मात्रचः प्रमाणे लो द्विगोनित्यमिति इलोकवार्निकेन लुकि द्विशमा त्रिशमेति भव. ति । शमो हस्तः। पाणिः शमः शयो हस्त इत्यपरमाला । पञ्चशारवः शयः पाणिरित्यमरकोशेऽपि शम इति पाठान्तरमिति क्षीरस्वामी । उन्माने तु विवदन्ते । तथाहि । द्वाभ्यां निष्काभ्यां क्रीता । प्राग्दीव्यतीयस्य ठत्रो द्वित्रिपूर्वानिष्कादिति लुक् । द्विनिष्का त्रिनिष्कत्येके । अन्ये तून्मानमपीह परिमाणग्रहणेन गृह्यते विस्तकम्बल्यग्रहणाज्ज्ञापकात् । उन्मानवचनौ हि तौ । सुवर्णबिस्तौ हेम्नोऽक्षे इत्यमरः । बिस्तस्य विद्यापरिसंख्यया मे इति कालिदासः । कम्बलाच संज्ञायामिति यत् । कम्बल्यमूर्णापलशतम् । न्यासकारस्तु द्वौ बिस्तौ पचतीति वि. गृह्णन् बिस्तं परिमाणविशेषं मन्यते इति हरदत्तः । द्विबिस्ता। परिमाणत्वे ठमो लुक् । उन्मानत्वे ठकः । द्वावाचितौ पचति घाचिता। आचितो दशभाराः स्युः। आढकाचितपात्रात् खो. ऽन्यतरस्याम् । द्विगोष्ठंश्चेति पक्षे ष्ठनखौ । ताभ्यां मुक्ते प्राग्दीव्यतीयष्ठञ् । तस्य पूर्ववल्लुक् । द्विकम्बल्या । क्रीतार्थे ठओ लुक् । अपरिमाणेति किम् । बाढकी याचितावत् । तद्धि
Page #25
--------------------------------------------------------------------------
________________
शब्द कौस्तुभे
तलुकि किम् । समाहारे पञ्चाश्वी । स्थादेतत् । तद्धितलुकि परिमाणादिति सूत्रमस्तु | नियमोऽयम् । तद्धितलुकि परिमाणादेवेति । ततः विस्तादिभ्यो नेति । मैत्रम् | परिमाणाल्लुक्येवेति विपरीतनियमापत्तेः । तथाच समाहारे व्याढकीति न स्यात् । स्याच्च द्विवर्षेत्यत्र ङीप् । अथ व्याख्यानादिष्टतोऽवधारणं ब्रूयाः । एवमपि विपरीतं गौरवम् । तथाहि । अपरिमाणेत्येतदपेक्षया परिमाणादित्यत्रार्द्धमात्राधिक्यं त्रिदोषपरिसंख्यापत्तिश्च । तस्माद्यथान्यासमेवास्तु |
काण्डान्तात् क्षेत्रे ॥ २३ ॥
२०
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणनस्याद्विकाण्डा क्षेत्रभक्तिः । प्रमाणे साजति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । प्रक्रियायां तु द्वयसजो लुगिति प्रमादः । प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ ममेति पञ्चमे वक्ष्यमाणत्वात् । ननु मानदण्डः काण्ड स च प्रमाणविशेषो न परिमाणम् । ततश्च पूर्वेणैव सिद्धो निषेधः । सत्यम् । क्षेत्रे नियमार्थं वचनम् । तेन द्विकाण्डी रज्जुरित्यत्र ङीप्स्यादेव | क्षेत्र इति च काण्डान्तस्य विशेषणं न तु काण्डस्य । बहुव्रीह्यर्थं प्रति गुणभूतत्वात् । तेन द्वाभ्यां काण्डाभ्यां काण्डप्रनिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेत्यत्र न निषेधः । द्विकाण्डा क्षेत्रभक्तिरित्यत्र च निषेधः सिध्यति । अन्यथोभयत्रापि वैपरीत्यं स्यात् । अत एवान्तग्रहणं सार्थकम् | अन्यथा पुरुषात् प्रमाण इत्यत्रेव विशेषणेन तदन्तविधिलाभेऽपि पुरुषस्येव काण्डस्यैव श्रूयमाणत्वाद्विशेषणतंत्रन्यापतेः ॥
Page #26
--------------------------------------------------------------------------
________________
४ अध्याये ? पादे २ आह्निकम् ।
पुरुषात् प्रमाणेऽन्यतरस्याम् ॥ २४ ॥
प्रमाणे यः पुरुषस्तदन्तात् प्रातिपदिकाद्विगोर्डीब्वा स्यात्तद्वितलुकि । द्वौ पुरुष प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिश्वा । अत्र न्यासकारः । प्रमाणे लो द्विगोर्नित्यमिति द्वयसचो लुगित्याह । तन्न । पुरुषशब्दस्य शमादिवत् प्रमाणत्वेनाप्रसिद्धता प्रमाणे द्वय सजित्यत्रत्यस्य प्रमाणे ल इति श्लोकवार्त्तिकस्येहाप्रवृत्तेः । द्वयसज्दन्नचौ तु प्रवर्त्तेते । उर्द्धमाने मतौ ममेति वचनात् । पुरुषात् प्रमाण इति प्रकृतसूत्रमपि सामर्थ्यात् प्रवर्त्तते इत्यन्यदेतत् । अत एव पुरुषद्वय समित्यादौ प्रमाणेल इति लुङ् न भवति । अन्यथा हि पुरुषहस्तिभ्यामराचेत्यणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव । एतच्च पुरुषहस्तीतिसूत्रे हरदत्तग्रन्थे स्पष्टम् । यत्तु तस्मिन् सूत्रे द्विगोर्नित्यं लुंगिति वृत्तिग्रन्थमुपादाय हरदत्तेनोक्तम् । तस्मादप्राप्त एवात्र लुग्विधीयते । स च द्वयसजादीनां नाणः द्विगोस्तत्प्रापकाभावात् ग्रहणवतेति तदन्तविधिप्रतिषेधादिति । तदपि न । भाष्ये पृथग्वचनाभावात् । तस्मात् पुरुषात् प्रमाण इत्यत्र द्विगोस्तद्धितलुकीत्यनुवृत्तेरत एव ज्ञापकाल्लुगिति तत्वम् । अपरिमाणान्तत्वात् प्रतिषेधे प्राप्ते वचनम् । प्रमाणे किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । तद्धितलुकीति किम् । समाहारे द्विपुरुषी । प्रमाणार्थवृच्योरेव समाहारान्न यङ्गविकलता |
२१
बहुव्रीहेरूधसो ङीष् ॥ २५ ॥
ऊधोन्ताद्बहुव्रीहेः स्त्रियां ङीष् स्यात् । अलौकिके मक्रियावाक्ये समासार्थस्योत्तरपदस्योधसो ऽनङित्यनङादेशः ।
Page #27
--------------------------------------------------------------------------
________________
२२
शब्दकौस्तुभे
ततो डाङीनिषेधेषु प्राप्तेषु ङीष् विधीयते । न च मध्येऽपवादन्यायेन डाप्पतिषेधावेव बाध्यौ न त्वन उपधालोपिन इति डीविति वाच्यम् । तस्य नियामकतायाः प्रागेवोक्तत्वात् । कुण्डोध्नी । स्त्रियां किम् । कुण्डोधो धैनुकम् । इहानङपि न । तद्विधी वियामित्युपसंख्यानात् । स्यादेतत् । इहैव तर्हि लाघवार्थ ऊधसो ङीष् नश्चेति मून्यताम् । उधसो नङिति च त्यत्का धनुषो ऽनङित्येव पठ्यताम् । मैवम् । कवभावे सावकाशस्यास्य पक्षे कपा बाधापत्तेः । सिद्धान्ते तु अनङः समासान्ततया शेषत्वमेवेह नास्ति ।
संख्याव्ययादेर्डीप् ॥ २६ ॥ ङीषोऽयमपवादः । ट्यूध्नी । न्यूनी । अत्युध्नी । निरूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्युधाः । संरव्याव्ययाभ्यामिति तु नोक्तम् । प्रत्युत मात्राधिक्यापत्तेः । द्विविधोध्नीत्यत्र संख्योधसोः पदान्तरेण व्यवाये ङीवभावापत्तेश्चेति दिक् ।
दामहायनान्ताच्च ॥२७॥ संख्यादेवहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप्स्यात् । दा. मान्ते डाप्पतिषेधयोर्बाधनार्थं वचनं हायनान्ते तु टापि प्राप्ते । द्विदाम्नी । समासानदेशेऽप्येकदेशस्यैव स्वरितत्वं प्रतिज्ञाय तेन संख्याग्रहणमेवेहानुवर्तते न त्वव्ययग्रहणम् । अत उद्दामा वड. वेत्यत्र डाम्निषेधावपि पक्षे स्तः । दृष्टा चैकदेशानुवृत्तिबहुशः। यथा तस्य पाकमूले इत्यतो मूलग्रहणमात्र पक्षात्तिरित्यत्रानुवर्त्तते । यथा वा झोऽन्त इत्यत्र प्रत्ययग्रहणमात्रमनुवर्त्तते न त्वादिशब्दः । द्विहायनी बाला । चतुर्हायणी । त्रिचतुर्यो
Page #28
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । हायनस्येत्यौपसंख्यानिकं णत्वम् । अथ कथं चतुर्हायना शालेत्यत्र न डीम्णत्वे । उच्यते । हायनो वयसि स्मृत इति भाष्यात् वयोवाचकस्यैवोभयत्रापि ग्रहणमिति तस्यार्थः । सूत्रे अन्तग्रहणं स्पष्टार्थम् । बहुत्रीह्यधिकारादेव विशेषणेन तदन्तविधिलाभात् ।
__ अन उपधालोपिनोऽन्यतरस्याम् ॥ २८ ॥
अनन्ताद् बहुव्रीहेर्योऽसौ वैकल्पिको ङीप्राप्तः स उपधालोपिन एव स्यात् । अन उपधालोपिनो नेति फलितोऽर्थः । सुपर्वा । उपधालोपिनस्तु स्यादेव । सुराज्ञी । सुतक्ष्णी। पक्षे डाम्निषेधौ ॥
नित्यं संज्ञाछन्दसोः ॥ २९ ॥ अन्नन्ताद् बहुव्रीहेरुपधालोपिनो नित्यं डीप्स्यात् संज्ञाछ. न्दसोः । सुराज्ञी नाम ग्रामः । शतमूर्नी । यद्यपि अनिदंप्रथमासु संज्ञासु नियतैवानुपूर्वी । एवं छन्दस्यपि । तत्र च डीपः प्राग्वदेव सिद्धौ विपरीतस्य चापादकाभावे व्यर्थमिदं सूत्रं तथाऽप्युत्तरार्थ बोध्यम् । योगविभागस्तु स्पष्टार्थः । केवलमामकभागधयापापरसमानार्यकृतसु
___ मङ्गलभेषजांच्च ॥ ३० ॥ एभ्यो नित्यं ङीप्स्यात् संज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । अध्यस्यां मामकी तनू । मित्रावरुणयोर्भागधेयी । अनिषव्यास्तन्धः सन्तु पापीः । उतापरीभ्यो मघवा विजि. ग्ये । समानीव आकूतिः । आर्यकृती । सुमङ्गली । शिवा रुद्रस्य भेवजी । कथं तर्हि सुमङ्गलीर्बिभ्रती देववीतिम् । सुमङ्गली
Page #29
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे
रिवं. बंधुरिति । मत्वर्षे ईप्रत्यय इति गृहाण । एतच्च छन्दसीवनिपौ च वक्तन्यानित्यच भाष्ये स्पष्टम् । भाषायामसंज्ञायां तु केवलेत्यादि । मामकग्रहणं नियमार्थम् । अणन्तत्वादेव सिद्धेः । मामिका । मामकनरकयोपरुसंख्यानमितीत्वम् । भागशब्दात पुल्लिङ्गात् स्वार्थे धेयप्रत्ययः । स्वार्थिकाः कचिल्लिअवचनान्यतिवर्तन्ते इति गचः स्त्रियाममिति स्त्रियां ग्रहणेन ज्ञापितत्वात् स्त्रीत्वम् । भागधेया। अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः । पापा । अपरा । अत्र द्वितीयो वर्णो दन्तोष्ट्यो न पवर्य इति हरदत्तः । इदं तु सकलवैदिकसंप्रदायविरुद्धम् । बचानां द्वितीयाध्यायान्त्यवर्गे पवर्गपाठस्य सर्वसंमतत्वात् । ननं पूर्वेण सम्बध्य तदुत्तरं च किं त्वित्यध्याहृत्य कथश्चिद्धरदत्तभक्ताख्येयम् । आर्येण कृतेति प्राक् सुबुत्पत्तेः समासेऽकारान्तत्वम् । लोके टाप् । आ. यकृता । भिषज इयमित्याण आदिद्धरपवादोऽस्मादेव नि. पातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ।
रात्रेश्चाजसौ ॥ ३१ ॥ रात्रिशब्दात् डीप्स्यात् संज्ञाछन्दसोर्न तु जसि विषयीभूते । रात्री व्यख्यदायती । लोके त्वरात्री । रात्रिः । वहादिषु कृदिकारादक्तिन इति पाठाद्वा ङीष् । स्वरे विशेषः । राशदिभ्यां त्रिप इति त्रिबन्तत्वादायुदात्तो हि रात्रिशब्दः । ङीषि त्वन्तोदात्तः । अजसौ किम् । यास्ता रात्रयः । अनसादिविति वक्तव्यम् । रात्रिं रात्रि सहोषित्वा ।
अन्तर्वत्पतिवतोर्नुक ॥ ३२ ॥ एतयोर्नु स्यात् स्त्रियाम् । अमेति ङीप् । अन्तर्वत्नी
Page #30
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ भाह्निकम् ।
२५
गर्भिणी | पतिबजी जीषद्धर्तृका । इह प्रकृतिभागौ निपात्येते अर्थविशेषलाभार्थम् । अलाक्षणिकयोर्मतुब्वत्वयोः सिद्ध्यर्थश्व निपातनम् । उक्तं च ।
अन्तर्वत्पतिवतोर्नुक् मतुम्वत्वे निपातनात् । गर्भिण्यां जीववत्याश्च वा च छन्दसि तुग्विधिः ॥ अयमर्थः । अन्तरस्त्यस्यां गर्भ इत्यत्रान्तः शब्दस्याधिकरणप्रधानतया अस्तिसामानाधिकरण्याभावादप्राप्तो मतुब्गार्भिoयां वाच्यायां निपात्यते । वैत्वं तु मादुपधाया इत्येव सिद्धम् । अत एव प्रत्युदाहरणे वाक्यमेव भवति । अन्तरस्यां शालायां घट इति । पतिवत्नीत्यत्र तु मतुप्सिद्धः । वत्वमात्रं निपात्यते । जीवतीति जीवः पतिर्यस्यास्तस्याम् । प्रत्युदाहरणं तु पतिमती पृथिवीति । नुक्तूभयत्र विधीयते । स च छन्दसि वा वक्तव्यः । सान्तर्ववी देवानुपैत् । अन्तर्वतीति शारवान्तरम् । तथा पतिबनी तरुणवत्सा | पतिवती तरुणवत्सा ।
पत्युर्नो यज्ञसंयोगे ॥ ३३॥
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन संयोगे । यज्ञफलमतियोगिकमाधिपत्यं चेत् पतिशब्दो ब्रवीतीत्यर्थः । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोकीत्यर्थः । दम्पत्योः सहाधिकारस्य शास्त्रसिद्धत्वात् । कथं तर्हि वृषलपत्नीति । वृषलः पतिर्यस्या इति विग्रहे विभाषा सपूर्वस्येति सिद्धम् । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । उपचाराद्भविष्यति पत्नीव पत्नीति । आचारकिवन्तात् कर्त्तरि किव्वा । अस्मिथ पक्षे पत्रियो पत्त्रिय इति इयङ् भवतीति विशेषः ।
विभाषा सपूर्वस्य ॥ ३४ ॥ पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्य प्रातिपदिकस्य नो
Page #31
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे। वा स्यात् । गृहस्य पतिः । गृहपतिः । गृहपनी । अनुपसर्जनस्येति न पत्युर्विशेषणं किंतु तदन्तस्येत्युक्तं तेन हदः पतिर्यस्याः सा दृढपत्रीति सिद्धम् । सपूर्वस्य किम् । गवां पतिः स्त्री । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम् । तथा च तैत्तिरीये कीवेऽपि प्रयुज्यते । अन्ने साम्राज्यानामधिपति तन्मावत्विति ।
नित्यं सपत्न्यादिषु ॥ ३५ ॥ पूर्वेण विकल्पे प्राप्ते आरम्भसामर्थ्यान्नित्यमिति लभ्यत एव । स्पष्टार्थ तु नित्यग्रहणम् । समानादिग्विति वक्तव्ये सपल्यादिष्विति वचनं सभावार्थम् । यत्तु कश्चिदाह । समुदायोचारणसामर्थ्यात् सपत्नीभार्य इत्यत्र पुंवद्भावो नेति । तन्न । सभावार्थतया सामर्थ्याभावात् । हे सपत्नि इत्यादौ संबुदिइस्वादिवाधापत्तेश्च । समान । एक । वीर । पिण्ड । पुत्र । भ्रात् । इह दासश्छन्दसीति पठ्यते । दासपत्नीरहिगोपाः । लोके तु रूपद्वयम् । एवञ्च नित्यं छन्दसीत्यादीनामिवास्यापि फलं चिन्त्यम् ॥
पूतक्रतोरै च ॥ ३६॥ अस्यैकारादेशः स्यान्डीप् च । न च ऐकारः प्रत्यय इति भ्रमितव्यम् । उत्तरसूत्रे उदात्त इति विशेषणस्य वैयर्थ्यापत्तेः । इयं त्रिसूत्री डीविशिष्टा पुंयोगादित्यत्रानुवर्णं व्याख्येया । इह पाठो हि डीबर्थः । अन्यथा ङीष् स्यात् । पूतक्रतोः स्त्री पूतऋतायी। यया तु क्रतवः पूताः पूतक्रतुरेव सा।
वृषाकप्यमिकुसितकुसिदानामुदात्तः ॥ ३७ ॥ एषामुदात्त ऐ आदेशः स्यान्डीप् च । वृषाकपिशब्दो ल
Page #32
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । २७ घावन्ते द्वयोश्च बहषो गुरुरिति मध्योदात्त उदात्तत्वं प्रयोजयति । अग्न्यादिषु त्रिषु तु स्थानिवद्भावात् सिद्धमिति प्राश्वः । एतेन कुसिदशब्दं मध्यदीर्घ पठन्तः परास्ताः । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अनायी । कुसितायी । कुसिदायी । पुंयोग इत्येव । वृषाकपिः स्त्री।
____ मनोरौ वा ॥ ३८ ॥ मनु शब्दस्यौकारादेशः स्यादुदात्तैकारादेशश्च वा ताभ्यां सनियोगशिष्टो डीप्च । औकारैकारयोरभावे तु डीबपि न सन्नियोगशिष्टानामिति न्यायात् । औकारश्चान्तरतम्यादनुदात्तः । मनुशन्दो वायुदात्तः । शृस्तृनिहीत्यादौ मनेरुप्रत्ययविधायके सूत्रे धान्ये निदित्यधिकारात् । तथा च त्रैरूप्यम् । मनोः स्त्री मनायी । मनावी । मनुरिति ।
वर्णादनुदात्तात्तोपधात्तो नः ॥ ३९ ॥ वर्णवाचिनोऽनुदात्तान्तात्तोपधाद्वा डीप्स्यात्तकारस्य नकारादेशश्च । एता। एनी । हरिता। हरिणी। श्येता श्येनी । रोहिता। रोहिणी । एते । आधुदात्ताः । वर्णानां तणतिनितान्तानामिति फिदसूत्रात् । तस्य तूदाहरणानि । एतः । शोणः । शितिः । पृ. शिनः । पृषत् । इति क्रमेण बोध्यानि । वर्णात् किम् । प्रकृता । प्रहता । गतिरनन्तर इत्याधुदात्तता । अनुदात्तात् किम् । श्वे. ता । अन्तोदात्तोऽयम् । घृतादीनां चेति फिदसूत्रात् । श्येतो वाजी जायते अग्रे हामिति प्रयोगाच्च। तोपधात् किम् । अन्यतो डीषु वक्ष्यति । अत इत्येव । शितिः स्त्री।पिशङ्गादुपसंख्यानम् । पिशङ्गी । पिशङ्का । लघावन्त इति मध्योदात्तत्वादिहोत्तरसूत्रेण
Page #33
--------------------------------------------------------------------------
________________
२८
शब्दकौस्तुभे।
डीए प्राप्तः । असितपलितयोः प्रतिषेधो वक्तव्यः । असिता। पलिता । छन्दसि कमेके । असितपलितयोस्तकारस्य नकार बाधित्वा को भवति डीए चेत्यर्थः । असिक्यस्योषधे । पलि. कीरिद्युबतयो भवन्ति । छन्दसीति भाष्योक्तेलोंके गतो गणस्तूर्णमसिक्रिकानामित्यादिप्रयोगाः प्रामादिका इति प्राश्वः । वस्तुतस्तु छन्दस्यके इत्यन्वयाद्भाषायामपीति भाष्याभिप्रतम् । अन्यथा एकग्रहणवैयथ्यात् । न हि छन्दसि पलिक्नीरिघुवतय इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। एतेन वृद्धा पलिक्की। असिक्री स्यादवृद्धा या प्रेष्यान्तःपुरचारिणीत्यमरो व्याख्यातः । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । दैप् शोषने इति स्मरणात् । त्रीणि यस्यावदातानि विद्या योनिश्च कर्म चेति प्रयोगाच । तेनावदातेत्यत्र डोमेति पुंयोगादित्यत्र भाष्ये स्थितम् । कोशे तु अवदातः सितो गौर इति विशुद्धत्वसाध. यादुपनिबद्धम् ।
अन्यतो ङीष् ॥ ४० ॥ वेति निवृत्तम् । तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात् प्रातिपदिकात् स्त्रियां डीस्यात् । कल्माषी । सारङ्गी । कल्मापसारङ्गशब्दौ लघावन्त इति मध्योदात्तौ । शबली । अयमपि मध्योदाचः । शपेर्वश्चेति कलप्रत्यये व्युत्पादनात् । वर्णादित्येव । खदा । अनुदात्तादित्येव । कृष्णा । कपिला । कृषेश्चे ति नप्रत्यये कपेश्चेति सौत्राद्धातोरौणादिक इलचिः च कृ. ष्णकपिलावन्तोदात्तौ ॥
षिद्गौरादिभ्यश्च ॥ ४१ ॥ पिदभ्यो गौरादिभ्यश्च प्रातिपदिकेभ्यःस्त्रियां डीस्यात् ।
Page #34
--------------------------------------------------------------------------
________________
४ अध्याये १ पादै २ आह्निकम् । २९ शिल्पिनि वुन् । नर्तकी । पुनः पित्वमवयवेऽचरितार्थत्वात् प्रातिपदिकस्य विशेषकम् । पेत्यादौ तु न डी । धातोः षित्वस्याङिधौ चरितार्थत्वात् । न चैवमपि मृजेत्यत्र ङीष् स्यात् । भिदादिपाठादसिद्ध्या तत्र षित्वस्याचरितार्यत्वादिति वाच्यम् । मृजूधातोः पित्वस्यानाकरत्वात् । स्पष्टं चेदं धातुत्तिषु । गौरशब्दस्य वर्णवाचित्वेऽप्यन्तोदात्तत्वात् पाठः । मत्स्यादीनां योपधानां अयोपधादिति निषेधे प्राप्ते । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन् तक्षन् एतयोमपि प्राप्ते । यदा तु श्वेवाचरतीत्याचारकिवन्तात् कर्तरि किप् तदोपसर्जनत्वान्डीपभावे निःशुनीतिवनान्तत्वान्डीबेवेत्यायुदात्तं शुनीति पदम् । उदात्तनिवृत्तिस्वरस्तु डीपो न शक्यः । अन्तरक्रेण संप्रसारणाचेति पूर्वरूपेणाल्लोपस्य बाधात् । अत एवाल्लोपस्थानिवद्भावप्रयुक्तो यरानेति दिन् । अनडुही । अनड्राही । अनकारान्तत्वादप्राप्ते डीपि । सप्रत्यययोः पाठस्तु डीषि परे आम्बिकल्पार्थः । एषणः करणे इति पठ्यते । करणल्युडन्तादस्मान्डीष् । अधिकरणल्युटि तु डीबेवेत्यर्थः । गौतमस्य शार्ङ्गरवादित्वान्डीनि प्राप्ते । वचनात् सोऽपि पक्षे भरति । आयस्थूणशब्दः शिवायणन्तः । भौरिक्यादय इबन्ताः । तेषामणिनोरनार्षयोरिति प्याड प्राप्ते । आपिच्छिका नाम राजानः । जनपदशब्दात् क्षत्रियाद । तस्यातश्चेति लुक् प्रत्यय. लक्षणेन डीपि प्राप्ते । अग्रे हायनमस्या इति विग्रहे अस्मादेव निपातनाराणत्वम् । प्रज्ञादित्वात् स्वार्थेऽण् । यद्यप्यणन्तस्य डीपीपोरविशेषस्तथापि गत्वनिपातनार्थ एव पाठः। प्रज्ञादौ पागत् पूर्वपदाव संशायामिति वा तत् सिद्धमिति चेत् सत्यम् । अत एव केचिदाग्रहायणीतीकारान्तं पठित्वा
Page #35
--------------------------------------------------------------------------
________________
सन्दकौस्तुभे।
आग्रहायणीभार्य इत्यादौ पुंवद्भावाभावः पाठफलमित्याहुः। एतदपि वृद्धिनिमित्तस्य चेति सिद्धमिति चेत् पुंवत्कमंधारयेति प्रतिप्रसवस्थलेऽपि पुंवद्भावाभावः पाठफलमित्याशयो बोध्यः । सुमङ्गलात् संज्ञायामिति पठ्यते । जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दो लघावन्त इति मध्योदत्तो द्रष्टव्य इति हरदत्तः । गौर । मरय । मनुष्य । शृङ्ग । गवय । हय ! ऋष्य । पुट । द्रुण। द्रोण । अरीहण । वरेट । अणक। आमलक । कुवल । बदर । बिल्व । तार । शर्कार । शष्कण्ड । शवल । संवलद । गडुज । पाण्डर । पिप्पल्यादयश्च । आकृतिगणोऽयम् । पृथिवीशब्दो ऽत्र पठ्यते । तत्र प्रथेः षिवन्संप्रसारणं चेति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्तये इत्येके। स्त्रीविषयत्वात् वद्भावप्राप्तिश्चिन्त्येति हरदत्तः।मातामहीति पठ्यते तत्र मातरि षिचेति वार्तिकाषित्वेन सिद्धे अनित्यः पिता कीषिति ज्ञापनार्थः पाठः। तेन दंष्ट्रेति सिद्धम् । अजादिषु पाठाटाबित्यन्ये ।
जानपदकुराडगाणस्थलभाजनागकालनीलकुशका. मुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४२ ॥
एभ्यः एकादशभ्यः प्रातिपदिकेभ्यः क्रमादेकादशष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । वर्ततेऽनयेति वृतिर्जीविका । अन्या तु जानपदी । उत्सादित्वा. दनन्तत्वेन टिड्ढेति डीप्यायुदात्तता । कुण्डी अमत्रं चेत् । अस्त्री कमण्डलुः कुण्डीत्यमरः । जातिवाचित्वेऽपि स्त्रीविषयत्वादप्राप्तो डीविधीयते । अग्न्यादिपर्यायस्तु कुण्डशब्दो नपुंस. के नियतः । कुण्डमग्न्यालये मानभेदे देवजलाशये इति मेदि
Page #36
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । ३१ नीकोशात् । यस्तु पत्यौ जीवति कुण्डः स्यादिति मनुष्य - जातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । कुण्डीयं न गोलकीति । न ह्ययं नियमः अपूर्वविधिसम्भवस्यो तत्वात् । गोणी आवपनं चेत् । गोणाऽन्या । यादृच्छिकं नाम न तु धान्यावपनी । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । यथा स्थलयोदकं परिगृहन्तीति पुरुषव्यापारनिष्पादितया सररायेत्यर्थः। भाजी । श्राणा चेत् । पकेत्यर्थः । भाजाऽन्या। नागी स्थौल्यं प्रकारश्चेत् । नागाऽन्या। गजवाची ना. गशब्दः । तत्सहचरितं स्थौल्यमुपादाय स्यन्तरे प्रयुक्त उदा. हरणम् । स दृष्टत्वात्तद्गतं दैर्ध्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणम् । जातौ तु जातिलक्षणो ङीषेव नागी हस्तिनी सीणीवा। काली वर्णश्चेत् । कालाऽन्या। यादृच्छिकी संज्ञेयम् । नीली अनाच्छादनं चेत् । नीलाऽन्या। नील्या रक्ता शाटीत्यर्थः । नील्या अन् वक्तव्य इत्यन् । अनाच्छादनेऽपि न सर्वतः किं तु नीलादौषधौ । नीली औषधिः । प्राणिनि च । नीली गौः । नीली वडवा । संज्ञायां वा । नीली । नीली वा । कुशी । अ. योविकारः फाल इति यस्याभिधानम् । कुशाऽन्या । छन्दोगाः स्तोत्रीयागणनार्थानोदुम्बरान् शकून् कुशा इति व्यवहरन्ति । अत एव हानौतूपायनेत्युत्तरमीमांसासूत्रे तत्रत्यभाष्यादौ च निर्दोषतायां सत्यामपि कुशाशब्दः स्त्रीलिङ्गो नास्त्येवेत्यभिप्रायको वाचस्पतिग्रन्थः पौढिमात्रपर इत्युक्तं द्वितीये । कामुकी । मैथुनेच्छा प्रवृत्तिनिमित्तं चेत् । मैथुनादन्यत् कामयितुं यस्याः शीलं सा तु कामुका । लषपतेत्युकञ् । कबरी । केशानां सनिवेश. विशेषश्चेत् । कवराऽन्या । चित्रेत्यर्थः । तथा च । प्रमज्यते । व्याकीर्णमाल्यकबरा करी तरुराया इति ।
Page #37
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
शोणात् प्राचाम् ॥ १३ ॥ शोणात् प्राचामेव डीए नान्येषाम् । शोणशब्दस्य वर्णानां तणेत्यायुदात्ततयाज्यतो डीषिति प्राप्त नियमोऽयम् । शोणी। शोणा । शोणः कोकनदच्छविरित्यमरः ।
वोतो गुणवचनात् ॥ ४४ ॥ उकारान्ताद्गुणवचनात् मातिपदिकात् स्त्रियां वा डीझ्या. त् । मृद्वी । मृदुः । इदं सूत्रमपनीय मनोरौ वेत्यस्मादनन्तरं गुणवचनादुत इति पाठ्यम् । उत्तरसूत्रं तु स्वस्थान एवं वा शब्दसहितं पाठ्यम् । वहादिभ्यो वेति । तेनायुदानेषु गुणवचनेषु डीपि स्वरः सिध्यति । तथा च वार्तिकम् । गुणवचनान्डीबायुदात्तार्थमिति । वस्वी ते अग्ने सन्दृष्टिः । पदवी । धान्ये निदित्यधिकारे शृस्कृस्निहीत्यादिना वसेरुप्रत्यये नित्वादा. धुदातो वसुशन्दः । नैर्मल्यवाची । प्रशंसावाचीत्यन्ये । तथाचातिशयेन वसुर्वसिष्ठ इति व्युत्पादयन्ति । पटुशब्दोऽपि निदित्यधिकारे फलिपाटीत्यादिना व्युत्पादितः । मृदुशब्दस्त्वन्तोदा. तः। कुर्भश्चेत्यधिकारे प्रथिम्रदिभ्रस्जां सम्प्रसारण सलोपश्चेतिकुप्रत्ययः । तत्रोदात्तयणो हलपूर्वादिति डीप उदात्तत्वानास्ति डीएडीपोर्विशेषः । खरुसंयोगोपधपतिषेधः । खरुः पतिंवरा कन्या। पाण्डुरियम् । स्यादेतत् । गुणो नाम नेहादेपः । उत इति विशेषणात् । वचनग्रहणाचा नापि विशेषणमात्रं कुः करेषुव्यमित्यादावतिप्रसङ्गात् । मृद्री पश्येत्यादौ विशेष्यासंविधानेऽव्याश्च । न च प्रवृत्तिनिमित्तं तत्रापि विशेषणम् । अत एव 4स्य हि गुणस्य भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावि. त्येतन्मृदुत्वमित्यादौ प्रवर्तत इति वाच्यम् । पर्यविशेषण
Page #38
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ भाह्निकम् ।
३३
तापत्तेः । आखुरित्यादिकं हि व्यावर्त्यतया संमतम् । तत्रापि प्रवृत्तिनिमित्तप्रतीतेः कथं व्यावृत्तिः । उच्यते । संज्ञाजातिक्रियाशब्दान् हित्वा ऽन्ये गुणवाचिनः।चतुष्टयीति भाष्यस्य निष्क
देष निर्णयः । अत एव प्राशस्त्यनैमल्यवाची वसुशन्दः मा. गुदाहृतः । नास्य नैय्यायिकाधीभमतगुणवाचित्वमस्ति अत एव निरीक्ष्य मेने शरदः कृतार्थतेत्यादयः प्रयोगाः संगच्छन्ते । त्वतलोर्गुणवचनस्येत्यत्रापि प्रागुक्तस्यैव गुणशद्वार्थत्वात् । कथं तर्हि प्रायेण निष्क्रामति चक्रपाणी नेष्टं पुरो द्वारवतीत्वमासीदिति माघः । उच्यते । संज्ञात्वान्नायं गुणः । द्वारवतीति संज्ञापि नेष्टा किमुत दीपोर्थ इत्याशयात् । कथं तर्हि । कथं सखीत्वं सरिव रक्षणीयमिति । न कोपधाया इत्यत्र नेति योगविभागादिति दुर्घटवृत्तिकारादयः । भाष्यादिस्वरसेन त्वतलोरित्यत्र शुल्कादिरेव गुणो ग्राह्यः । तथाहि । एकतद्धिते चेति सूत्रे एकता एकमित्युदाहृत्य पुंवद्भावेन सिद्धमित्याशना भगवतोक्तम् । उक्तमेतत्त्वतलोर्गुणवचनस्येति । अत्र कैयटः । एकशब्दस्य संरव्यावाचितायां गुणवचनत्वेऽपि असहायवाचिनोऽतथात्वादिति भाव इति । अत एव प्रगृह्यसंज्ञाप्रकरणे वि. भक्तरेवात्र संझिनीत्वादिति कैयटः । कथं तर्हि शरदः कृतार्थतेत्यादीति चेत् । सामान्ये नपुंसकमयोगादिति गृहाण । एषैव भर्तुर्विप्रकृताऽपि रोषणतया मास्म प्रतीपं गम इत्यादौ तवापि गतिः । क्रियाशब्दतया त्वत्पक्षेऽप्यस्य गुणत्वाभावात् । तथाच परः सनिकर्षः संहिततिसूत्रे एकवर्णवर्तित्वाद्वाच इति भाष्यं कैयटो व्याख्यत् । सामान्योपक्रमात् स्त्रीप्रत्ययात् सी. प्रत्ययाभाव इति । प्रसिद्धा च दृढभक्तिरित्यादौ एषैव गतिः । अत एव स्त्रियामितिसूत्रे व्यापिनीत्वात्मवृत्चेरिति कैयटः पुंयो.
शब्द. तृतीय. 3.
Page #39
--------------------------------------------------------------------------
________________
शन्दकौस्तुभे।
गादितिसूत्रे स्त्रियाः संविधात्रीत्वादिति कैयटश्च संगच्छते । अत एव पत्यु! यासंयोग इतिसूत्रे पल्याः फलपतिग्रहीतृत्वादिति चर्तिग्रन्थमुपादाय हरदत्त आह । कर्तृत्वमात्रं विवक्षितं न तु स्त्रीत्वमिति डीए न कृत इति । एवं च नेष्टं पुरो द्वारवतीत्व. मित्यपि साध्वेव । यत्तु संज्ञाजातिव्यतिरिक्तं धर्ममात्रं गुणः तेन क्रियाशब्दानामपि पुंवद्भाव इति कश्चित् । तनिर्मूलम् । उदाहृतसकलमहाग्रन्थविरुद्धं चेत्यलं बहुना ।
यत्तु प्रकृतसूत्रे भाष्यम् । "सत्वे निविशतेऽपैति पृथग जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥” इति ।
एतदपि स्वरूपकथनमात्रं प्रायोवादपरं च । उक्तोदाहरणे. वव्याप्तेः । कैयटहरदत्तादिस्वरसस्तु लक्षणमेवेदमिति । अयं हि तदाशयस्तदीयग्रन्थे स्पष्ट एव । तथापि तदोषग्रस्त उक्तिसंभवशुन्यश्चेति नानूयते ।
बह्वादिभ्यश्च ॥ ४५ ॥ एभ्यो ङीष्वा स्यात् । बव्ही । बहुः । इह गणसूत्राणि । शक्तिः शस्त्रे । शक्ती । शक्तिः । शस्त्रे किम् । शक्तिः सामर्थ्यम् । शक्ति शस्त्रीति पाठे तु शब्दद्वयम् । शस्त्री । शस्त्रिः । अथ ययोत्तरमधिकसंग्रहार्थ त्रीणि वाक्यानि । इतः प्राण्यङ्गाद । धमनी। धमनिः । कृदिकारादक्तिनः । रात्री । रात्रिः । सर्वतो क्तिमादित्येके । शकटी । शकटिः । अक्तिबर्थात् किम् । आक्रोशे नश्यनिः । अजननिः । व्यवस्थितविभाषात्वादादेशे डतौ च न । सुगन्धिः । प्रियकतिर्वेश्या । तथाच परिशिष्टम् । इतोक्यनादेशादा कतेरिति । इह पद्धतीति पव्यते । क्तिमन्तत्वादप्राप्तेः । हिमकाषिहतिषु चेति पद्भावः ।
Page #40
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । १५ अहनिति पठ्यते । सामर्थ्यात्तदन्तो बहुव्रीहिरुदाहार्यः । अनुपसर्जनाधिकारबाधश्च । दीर्घाही पाहद् । पक्षे डापडीपनिषे. धाः । चन्द्रभागा नद्याम् । कल्याण । पुराण । चण्ड । कृपाण । विकट । विशाल । बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धे उत्तरार्थ पाठ इत्याहुः ।
नित्यं छन्दसि ॥ ४६॥ बहादिभ्यो नित्यं ङीष् स्याच्छन्दसि । बहीनां पिता। बहीः समाः । आरम्भसामर्थ्यात् सिद्धे नित्यग्रहणमुत्तरार्थमिति - त्तिः । वस्तुतस्तु एतत्सूत्रं प्राक्सूत्रस्थबहुशब्दश्च व्यर्थमेवेति स्पष्टमेव ।
भुवश्च ॥ ४७ ॥ अस्मान्ङीष् स्याच्छन्दास । विराट् सम्राट् विभ्वीः प्रभवी। विप्रसभ्य इति दुपत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । तेन किबन्तान ङीष् । स्वयम्भूः । कयं तर्हि भेको वर्षाभ्वीत्यमरः । अत्र केचित् । मितद्वादेराकृतिगणत्वावर्षाभुशब्दं डुप्रत्ययान्तं नित्यस्त्रीलिङ्गमाहुः । प्रमाद ए. वायमिति बहवः । स्त्रियामिति वर्षाभूरिति तु रूपं निर्विवादम् । तथा च यादवप्रकाशः । भेक्यां पुनर्नवायां खी वर्षाभूर्ददुरे पु. मानिति ।
पुंयोगादारव्यायाम् ॥ पञ्चम्यर्थे सप्तमीयम् । या पुमाख्या पुंयोगात्खियां वर्तते ततः स्त्रियां डीस्यात् । गोपस्य स्त्री गोपी । यदा तु गोपशब्दो न लाक्षणिकः किन्तु मुख्यस्तदा तस्येदमित्याणि गौपीत्ये. व । योगचेह दम्पतिभाव एवेत्येके । वस्तुतस्तु सङ्कोचे
Page #41
--------------------------------------------------------------------------
________________
३६
शब्दकौस्तुभे ।
मानाभावाजन्यजनकभावोऽपि गृह्यते । तथाच भट्टिः प्रायुक्त । कौशल्यया सावि मुखेन रामः प्राक् केकयीतो भरतस्ततोऽभूत् । केकयदुहिता केकयीत्युपचर्यते । जनपदशब्दादित्यपत्यप्रत्यये तु कैकेयीति स्यात् । न च तस्यातश्चेति लुक् । न प्राच्यभर्गादीति प्रतिषेधात् । तथाच कालिदासः। कैकोय कामाः फलितास्तवेति । एतेन देवकी व्याख्याता। आद्यपक्षे तु गौरादित्वं शाखादित्वं वा केकयशब्दस्य कल्पयन्ति । देवकशब्दात्तु अपत्यप्रत्यये कृतेऽपि संज्ञापूर्वकत्वेनानित्यत्वान वृद्धिरित्याहुः । पुंयोगात्किम् । देवदत्ता । आख्यायां किम् । प्रखता । अस्तीह पुंयोगो न तु पुंस आ. ख्यैषा । गोपालिकादीनां प्रतिषेधो वक्तव्यः । सिद्धये इति शेषः । आदिशब्दः प्रकारे । तेन पालकान्तान्नेत्यर्थः । तथा च परिशिष्टे मूत्रितम् । पुंयोगादज्येष्ठादिपालकान्तादिति । गोपालकस्य स्त्री गोपालिका। अश्वपालिका । सूर्याद्देवतायां चाब्वक्तव्यः । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती । मानुषीयम् । सूर्यतिस्येति यलोपः । इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमा
तुलाचार्याणामानुक् ॥ ४९॥ एषामानुगागमः स्यान् ङीष् च । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र पूर्वेण सिद्ध आगममात्रं विधीयते । हिमादीनां तूभयम् । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । हिमारण्ययोर्महत्वे । महदिमं हिमानी। महदरण्यमरण्यानी । यवादोषे । दुष्टो यवो । यवानी । जात्यन्तरमेवेदम् । यवत्वजातिविरहेऽपि
Page #42
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । ३७ तदाकारानुकरणमिह दोषशब्दार्थः । यवनाल्लिप्याम् । यव. नानां लिपिर्यवनानी । तस्येदमित्यणो बाधको ङीष् । उपाध्यायमातुलाभ्यां वा । आभ्यां पुंयोगे ङीष् प्राप्तस्तत्सन्नियोगेनानयाा आनुगागमो वक्तव्य इत्यर्थः । उपाध्यायशब्दस्याप्राप्त मातुलशब्दस्य तु सूत्रेण नित्यं प्राप्ने विभाषेयम् । उपेत्याधीयतेऽस्मात् स उपाध्यायः। एरचापवाद इङश्चेति च घप्रत्ययः। उपाध्यायस्य स्त्री उपाध्यायानी । उपाध्यायी। या तु स्वयमे. वाध्यापिका सा उपाध्यायी उपाध्याया च। अपादाने स्त्रियामित्यु. पसंख्यानम् । तदन्ताच वा डीषिति तृतीये वार्तिकात् । मातुलानी । मातुली । मुद्गलाछन्दास लिच्च । रथीरभून्मुगलानी ॥ डीपो लित्वादानुगाकारस्य लित्स्वरः । लोके तु मुद्गली । तथा च क्षुद्रत्वाद्रकि मौद्गलेर इत्यप्रकरणे भाष्यम् । यसु न्यासकृतोक्तं मुगलानी शब्दे द्वितीय उदाच इति तत्तु वेदबाह्यत्वमयुक्तमेव । आचार्यादणत्वं च । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या । स्वयं मन्त्रव्याख्याकदित्यर्थः। अयक्षत्रियाभ्यां वा स्वार्थेऽयं विधिः । अर्याणी । अर्या । अर्यः स्वामिवैश्ययोरिति स्मरणात् । स्वामिनी वैश्या वेत्यर्थः । क्षत्रिया क्षत्रियाणी । पुंयोगे तु डीषेव । अर्थी । क्षत्रियी । अबामरस्य संग्रहः ॥
अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ आचार्याणी तु पुंयोगे स्यादी क्षत्रियी तथा ।
उपाध्यायान्युपाध्यायीति. इह अनुक् ह्रस्वादिरेव लाघवादसव्य इति हरदत्तः । तन्न । अतो गुण इति पररूपप्रसङ्गात् । नन्वकारोच्चारणसामर्थ्यादी? भविष्यति । अन्यथा हि नकमे.
Page #43
--------------------------------------------------------------------------
________________
३८
शब्दकौस्तुभे।
व कुर्यादिति चेन्न । अल्लोपोन इत्यस्य बाधने चरितार्थत्वात् । पत्युन इतिवदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेवाल्लोपो न भविष्यतीति चेत्र । शर्वशब्दे ककारस्य चारितार्थ्यात् नहि तत्र लोपोऽस्ति । न संयोगादिति निषेधात् । तस्मात्ककाराकारयोः सामर्थ्य विरहे पररूपबाधनार्थ दीर्घोच्चारणमावश्यकमिति स्थितम् । कथं तर्हि ब्रह्माणाति ब्रह्माणमानयति जीवयतीति कर्मण्यण बोध्यः ॥
क्रीतात् करणपूर्वात् ॥ ५० ॥ क्रीतान्तात्करणपूर्वकात् प्रातिपदिकाददन्तान्ङीष्स्यात् । वस्त्रक्रीती । वस्त्र भिम् क्रीत इत्यस्यामवस्थायां प्राक् सुबुत्पत्तेः समासे अदन्तत्वान्ङीष् । कर्तृकरणे कृतेति सूत्रे बहुलग्रहणात् सुबुत्पत्तौ सत्यां समास इति पक्षे तु सुपः प्रागेवान्तरङ्गत्वादाए । तेन सा हि तस्य धनक्रीतेति सिद्धम् ।
क्तादल्याख्यायाम ॥५१॥ करणादेः क्तान्ताददन्तात्मातिपदिकान् डीप्स्यात्समुदा. येनाल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । सूपलिप्ती पात्री।
बहुव्रीहेश्वान्तोदात्तात् ॥ ५२ ॥ बहुव्रीहेः क्तान्ताददन्तोदात्तात्त्रियां ङीष् स्यात् । जातिपूर्वादिति वक्तव्यम् । तेन बहुनसुकालमुखादिपूर्वान्न भवति । वहोर्नवदुत्तरपदभूनि । नमुभ्याम् । जातिकालसुखादिभ्योऽनाच्छादनाकोकृतमितमतिपमाः। इति अन्तोदात्तताविधायकानि । तथाचान्तोदाचादबहुनसुकालमुखादिपूर्वादितिन्यासापेक्षया अन्तोदाचाजातिपूर्वादिति न्यासे लाघवं स्पष्टमेव । उत्तरंस्त्रेणास्वापूर्वपदादिकल्पो वक्ष्यत इति स्वाइपूर्वपद ए
Page #44
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
३९
वात्रोदाहरणम् । उरुभिन्नी । नेह । बहुकृता । अकृता । सुकृता । मासजाता । सुखजाता । जातान्तान्न । दन्तजाता । अन्तग्रहणात्सिद्धम् । वर्णादनुदात्तादितिवद्बहुव्रीहेरनुदात्तादित्येव सिद्धे अन्तग्रहणं नित्यप्रतिपत्यर्थम् । वा जाते इति तु वैकल्पिक उदात्तो न तु नित्यः । पाणिगृहीती भार्यायाम् । पाणिगृहीताSन्या । बहुलं ताण । संज्ञाछन्दसोरित्यर्थः । प्रबद्धविलूनी । प्रबद्धबिलूना । बहुव्रीहिरयम् । कर्मधारय इत्यन्ये ।
अस्वाङ्गपूर्वपदाद्वा ॥ ५३ ॥
पूर्वेण नित्ये प्राप्ते विकल्प आरभ्यते । सुरापीती । सुरापीता । अन्तोदात्तादित्येव । नेह वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ।
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ॥ ५४ ॥
असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्तात्प्रातिपदिकाददन्ताद्वा ङीष् स्यात् । केशानतिक्रान्ता अतिकेशी । अतिकेशा | चन्द्रमुखी । चन्द्रमुखा । संयोगोपधातु सुगुल्फा । उपसर्जनात्किम् । शिखा । स्वाङ्गन्तु त्रेधा परिभाषितम् । अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । सुस्वेदा । द्रवत्वात् । सुझाना | अमूर्तत्वात् । सुमुखा शाला । अप्राणिस्थत्वात् । कथं तर्हि फलमुखी कारणमुखी वानवस्थेति । प्रमाद एवायम् । टावन्तन्तु पाठ्यम् । सुशोफा । विकारजत्वात् । अतत्स्थं तत्र दृष्टं चेति लक्षणान्तरम् । सुकेशी सुकेशी वा रथ्या । तेन चेत्तत्तथायुतम् । सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत् प्राणिसदृशे स्थितत्वात् ॥
Page #45
--------------------------------------------------------------------------
________________
शन्दकौस्तुभे।
नासिकोदरौष्ठजवादन्तकर्णशङ्गाच ॥ ५५ ॥ एभ्यो वा ङीष्स्यात् । पुरस्तादपवादन्यायाधेननाप्राप्तिन्यायाच बहज्लक्षणो निषेधो नासिकोदरयोर्बाध्यते । ओष्ठादीनां पञ्चानान्तु असंयोगोपधादिति बाध्यते । मध्येऽपवादन्यायायेननामामिन्यायाच्च । सहनलक्षणस्तु प्रतिषेधः परत्वादस्य विधेबाधक एव । तुङ्गनासिकी। तुङ्गनासिकेत्यादि । नेह । सहनासिका । अत्र कश्चित् । चकारोऽनुक्तसमुच्चयार्थः । तेन स्वङ्गी स्वक्रेत्यादि सिध्यति । अत एव वृत्तिकृता अङ्गगात्रकण्ठेभ्य इति वक्तव्यमिति पूर्वसूत्रे पठितमित्याह । भाष्यादनुक्तत्वादप्रमाणमिति प्रामाणि. काः । काश्मीरकबधर्मानाभ्यान्तुस्थूलांत्री स्थलांत्रेनत्यप्यधिक संगृहीतम् । अत्र वार्तिकानि । पुछाच्च । सुपुच्छी । सुपुच्छा । कबरमणिविषशरेभ्यो नित्यम् । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छीत्यादि । उपमानात्पक्षाच्च पुच्छाच्च । नित्यमित्येव । उलूकपक्षी । उलूकपुच्छी सेना।
न कोडार्दिबह्वचः ॥५६॥ क्रोडादेहचश्च स्वाहान ङीष् । कल्याणक्रोडा। अश्वानामुरः क्रोडा । स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीही पूर्वपदस्य पुंवद्भावः उ. तरपदस्योपसर्जनहस्वत्वम् । क्रोडा बालखुरोरवाः शफो गुदं भगगलौ चेति पठ्यते । महोदधौ तु । क्रोडवालगलानालभगोखाः रखुरसंयुताः । शफो भुजो गुदं घोणाकरौ क्रोडादिनामनीति पठ्यते । न ना कोडं भुजान्तरमित्यर्थः । क्रोडः पुंसीति रनमतिः । उखाशब्दस्य कल्याणोखेत्युदाहरणं बोध्यम् । उखा स्फिगिति वर्धमानः। कल्याणनखेति तु वृत्तौ प्रमादः पाठः । नरवमुखात् संज्ञायामिति प्रतिषेधात् । असंज्ञायां डीपन्तत्वात् ।
Page #46
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे १ भादिकम् ।
पहषः । सुजयना । तुलसाठा ।
सहनविद्यमानपूर्वाच ॥ ५५ ॥ सहेत्यादित्रिकपूर्वा की न स्यात् । सकेशा । अकेशा । विद्यमानकेशा । सनासिका । अनासिका । विद्यमाननासिका ।
नखमुखात संज्ञायाम् ॥ ५८ ॥ न डीम् । शुर्पणखा । गौरमुखा। संज्ञायां किम् । ताम्रमुखी कन्यां।
दीघीजह्वी च छन्दसि ॥ ५९ ॥ - संयोगोपपस्वादमासो कीविधीयते संज्ञायाम् । भासुरी ने दीजिही देवानां याबाद ।।
दिकपूर्वपदान्डीप् ॥ १० ॥ दिवपूर्वपदान स्वादान्तात् प्रातिपदिकात् परस्य डीपो कीपादेशः स्यात् । प्राङ्मुखी । आधुदात्तं पदम् । स्वतन्त्रो डीप्तु न कृतः । प्राग्गुल्फादावतिप्रसङ्गात् । पूर्वोक्तनिषेधानामप्यनु. तृत्वावतिगौरवात् । तस्मादिपूर्वपदादिति पञ्चम्पा कीषिति प्रथमायाः षष्ठीकल्पनमेव ज्यायः ।
वाहः ॥६॥ बाहन्तात् प्रातिपदिकान्डीष् स्यात् । डीपेव स्वर्यते न तु कीपू । दित्यवाद् च मे दित्यौही च मे । प्रष्ठीही ॥
सल्यशिश्वीति भाषायाम् ॥ ६२॥ इविक्षन्दः प्रकारे । स च भाषायामित्यस्वानन्तरं द्रष्टन्यः । तेन छन्दस्वापि कत्रित् पाषायां तु नित्यम् । सखी। अविश्वी । शिशुना बित्यमरः । वेदे तुभवम् । सखा सम्प.
Page #47
--------------------------------------------------------------------------
________________
शब्दकोस्तुभे।
दी भव । अशिशुमिवमामयं शरारुरभिमन्यते । आधेनवो धुन. पन्तामशिश्वीरित्यादि।
जातेरस्त्रीविषयादयोपधात् ॥ ६३ ॥ जातिवाचि यन च स्त्रियां नियतमयोपधं ततः स्त्रियां कीस्यात् ।
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह ॥
ग्रहणमिति करणे ल्युट् सामान्ये नपुंसकम् । आकृतिर्ग्रहणं यस्या इति बहुव्रीहिः । अनुगतसंस्थानन्यझ्या जातिरित्यथः। मृगी । हंसी । एवमपि वृषलीत्यादि न सिद्ध्यति । वृषले ब्राह्मणादिव्यावृत्तसंस्थानाभावात् । अतो लक्षणान्तरमुक्तम् । लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेपि गमकत्वाद् भजोरिवः समासश्च किमोदनः शालीनामित्यादिवत् लिङ्गानामिति कर्मणि षष्ठी । तेन वृषलीत्यादि सिद्धम् । ब्राह्मणीशब्दे तु प्राप्तो जातिलक्षणो ङीष् शाबरवादिपाठान् ङीना बाध्यते । न च मृगीत्यादरप्यनेन सिद्धेः प्रथमलक्षणवैयर्थ्य शङ्माम् । तटः। तटी । तटमित्याधर्य तस्या. प्यावश्यकत्वात् । देवदत्ता देवदत्त इत्यसर्वलिङ्गम् । तेन तत्र द्वितीयलक्षणस्यातिव्याप्तिं वारयितुमाह । सकृदिति । एकस्यां व्यक्तौ कथिता सती व्यत्यन्तरे कथनं विनापि सुग्रहत्यर्थः । न ह्येवं देवदत्तत्वम् । परिमाणभेदेन द्रव्यभेदस्यानभ्युपंगमात् । अभ्युपगमे वा समानकालतया व्यत्यन्तरस्य विशेषणात् । ब्राह्मणत्वादिस्तु भवत्येवम् । तदीयपितृभ्रात्रादिषु मुग्रहत्वात् । आपलक्षणेऽपीदं योज्यम् । तत्रायं विशेष: एकत्वं नित्यत्वं
Page #48
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ श्राद्विकम् । ४३ वा विवक्ष्यते इति एकत्वे सत्येव ह्येतत्सम्भवति नित्यत्वे च तेन वयसो नातित्वाभावादृद्धा स्थविरेत्यादौ न डीए । युवजानिरित्यादौ च जातश्चेति न पुंवद्भावनिषेधः युवतितरेत्यत्र तु भाष्यकारप्रयोगात् पुंबदित्युक्तं ग्यास्त्रे । एवं च कुमारमार्य इत्येव भवति ।
यत्तु भाष्ये एतल्लक्षणपर्यालोचनया कुमारीभार्य इति भवितव्यमित्युक्तम् । तत्तु प्रथमलक्षणे सकृदित्यादेरन्ययो नास्तीत्यभिप्रेत्य । मतभेदपरं चेति बोध्यम् । अत एव कुमारीशब्दस्य पुंवद्भावोऽपि तत्रैव मतान्तरे उपन्यस्तः । गोत्रत्यादेरयमर्थः । अपत्यप्रत्ययान्तः शाख्याध्येत्वाची च शब्दो जातिकार्य लभते । दाक्षी। औपगवी। कठी। बचीत्यादि । नाडायनन्वदृचमिदनपुंसकमिति दर्शनात् सर्वलिङ्गौ गोत्रचरणौ । अतः पृथगुपात्तौ । जातेः किम् । मुण्डा । अस्त्रीविषयात् किम् । मक्षिका । वरटा । द्रोणीत्यादयस्तु गौरादिषु बोध्याः । पा. त्रीत्यत्र तु औणादिके ष्ट्रनि पित्वान्डीषिति माधवः । अयोप. धात्किम् । क्षत्रिया । क्षत्राद्ध इत्यपत्ये घपत्ययविधानागोत्रलक्षणा ऽसर्वलिङ्गा वा जातिरियम् । अत्र । वार्तिकम् । योपधपति. षेधे गवयहयमुकयमनुष्यमत्स्यांनामप्रतिषेध इति । गवयी । इयी। मुकयी। मनुषी । हलस्तद्धितस्येति यलोप इति माधवः । मत्सी।सूर्यतिष्येतिसूत्रे मत्स्यस्य ड्यामिति वक्ष्यते।गौरा. दिषु हयादय इदानीन्तनैः प्रक्षिप्ता इति वार्त्तिकारम्भाद्विज्ञायते। 'पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ६४ ॥
स्वीविषयत्वात् पूर्वेणाप्राप्ते इदं सूत्रमारभ्यते । एतदेव च पूर्वर समानायामाकृतावनीविषयत्वविवक्षायां ..ममाणम् । यौ
Page #49
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
गिका एषामपि लिशान्तरसम्भवात् । अत एव द्रोणीत्या. दौ गौरादित्वं बोध्यमित्युक्तम् । द्रोणशब्दस्य परिमाणविशेषे पुंस्त्वेऽपि गवादन्या स्त्रीत्वात् । कुटशब्दस्य घटे पुंस्त्वेऽपि गेहे स्त्रीत्वात् । घटा करीरः कलशः फुटः कुम्भो नियः स्मृत इति हलायुधः । गेहं कुटं मन्दिरमिति स एव । एवञ्च मेहेऽपि अ. तियतलिङ्गतया जातेरिति डीपपि सुवचः । यत्तु भाष्ये आकृ. तिभेदेनापि अत्रीविषयतामाश्रित्य समाहितं पालेत्यादौ ना. तित्वं कल्पितं सोऽयं प्रौढिवादः । प्रकृतमनुसरामः । ओदनपा. की। बड्डकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमू. लो । गोवाली। भोषधिविशेषे बढा एते । पुष्पफलमूलोतरपदानां येषां नेष्यते तेषां निषेधायेह चस्वारि वार्चिकानि । सदकाण्डपान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सम्भस्राजिनाण: पिण्डेभ्यः फलात् । त्रेश्च । मूलानन इति । एवेऽप्पजादौ प्रक्षिप्ताः ॥
___ इतो मनुष्यजातेः ॥ ६५॥ डीस्यात् । पुनर्जातिग्रहणं योपधादपि स्यादित्येतदर्थम् । उदकमयमस्य उदमेयः । उदकस्योदः संज्ञायामित्युदादे. शः । तस्यापत्यमत इञ् । औदमयी । अतः किम् । विद । दरत् । विशन्दाजनपदशब्दात् क्षत्रियादन् । दरच्छन्दब्यज्मः मधेत्यण तयोरतश्चेति लुक् । मनुष्येति किम् । तित्तिरिः । इव उपसंख्यानम् । अजात्यर्थे । सौतमी । मौनिचित्ती । सुता ममुनिचित्तशब्दाभ्यां तेन निवृत्तमित्यर्थे बुणादिना चातुरर्थिक इन्।
उकुतः ॥१६॥ अकारान्तादयोपधात् प्रातिपदिकान्मनुप्पणाविवाविनः
Page #50
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ थातिकम् । ४५ खियामूङ् स्यात् । कुरुनादिभ्यो रायः । तस्य स्त्रियामवन्तीत्यादिना लुक् । ब्रह्मबन्धः । धीवबन्धुः । वृत्तस्वाध्यायहीनायां ब्राह्मणजातावेतो बहुव्रीही वर्तेते । ऊङो डकार ऊया. त्वोरिति विशेषणार्थः । दीर्घोच्चारणन्तु श्वश्रूशब्दार्थम् । अन्यत्र सवर्णदीर्घेणापि सिद्धः । इह सवर्णदीर्घेणोकारान्तरमश्लेषेण पुनर्विधानं व्याख्येयम् । तेन ब्रह्मबन्धरित्यत्र पा. क्षिकः षिकः कन्न । व्यवस्थितविभाषाविज्ञानाद्वा । अयोप. पधात्किम् । अध्ययुर्ब्राह्मणी । अध्वर्युशाखाध्यायिवंशे भवेत्यथः । चरणलक्षणेयं जातिः । अध्वरं यातीति विग्रहे मृगवाद. यवेत्युणादिषु दर्शनात् कुभत्ययः । अध्वरशन्दस्यान्तलोपश्च । अमाणिजातेश्वारज्वादीनामुपसंख्यानम् । अलाबूः । कर्कन्धः । यद्यप्येतो दीर्घान्तावेवोणादिषु व्युत्पादितौ तथापि अलावा कर्कन्ध्वेत्यादौ नोधात्वोरिति विभक्त्युदात्तत्वप्रतिषेधार्थमविधानम् । उत इति चेह नापेक्ष्यते । रज्वादिपर्युदासादुवर्णान्तेभ्य एव । पाणिजातेस्तु कुकवाकुः । रज्वादेस्तु रज्जुः । हनुः।
बाहन्तात् संज्ञायाम् ॥ १७॥ भद्रबाहूः।
पोश्च ॥ १८॥ पगुः ॥ श्वशरस्योकाराकारलोपश्च । श्वशुरस्य स्त्री स्वभूः। योगलक्षणस्य डीपो ऽपवादः । मातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि प्रहणात् स्वादयः।
उरूत्तरपदादौपम्ये ॥१९॥ उपमीयतेऽनया इत्युपमानं तदेव औपम्यम् । उपमानवाचि पूर्वपदं यत् प्रातिपदिकं तस्माद स्यात् ॥ कदलीस्तम्भोरुः । पमानाभावायेहा वृत्तोका कयं वर्हि । पीचरोज पिवती बहिण
Page #51
--------------------------------------------------------------------------
________________
४६
शब्दकोस्तुभे । इति कुमारः । संज्ञापूर्वकस्य विधेरनित्यत्वात् संबुद्धिमयुक्तगुणाभावो बोध्यः । एतेन विहर मया सह भीरु कामिनीति व्या. ख्यातम् । श्रीकण्ठपुरुषोत्तमादयस्तु स्त्रीजातिविशेषवाची भीरुशब्दस्तस्मादुङत इत्यूङमाहुः । कथं तर्हि । विशेषस्त्वङ्गना भीरुरित्यमरः । सपदि वारिधरारवभीरव इति माघश्च । मनुष्यत्वा. विवक्षायां नोङ् । मनुष्यजातरित्यनुवृत्तेः भियः क्रुल्कुकनाविति को क्रियाशब्दो वा । अत एव वारिधरारवस्य भीत्रार्थानामित्यपादानकारकतेति दिक् । ऊर्वन्तादिति उरोरिति वा वक्तव्ये उत्तरपदग्रहणं हस्तशुनोरुरित्यादौ पदान्तरव्यवधाने मा भूदित्येतदर्थम् । अत एव धात्री कराभ्यां करभोपमोरूरिति रघुकाव्ये दीर्घपाठः काचिकः प्रामादिकः । विचकरेचकरेणु. करोरुभिरिति माघे तु प्रमाद एव । करेण वरोरुभिरिति वा पठनीयमिति हरदत्तः ।
संहितशफलक्षणवामादेश्च ॥ ७० ॥ अनौपम्याथ सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्द अर्शआद्यजन्तः। लक्षणोरू: । वामौ सुन्दरौ ऊरू यस्याः सा वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् । सहितोरूः । समो वा हितततयोरिति व्युत्पादितस्य सहितशब्दस्य नेह ग्रहणम् । एकदेशविकृततया संहितग्रहणादेव सिद्धेः। किन्तु सह हितेन वर्तते इति व्युत्पादि. तस्य ग्रहणम् । सहोरूः । सहेते इति सही तादृशावुरू यस्याः सा। यद्वा । विद्यमानवचनस्य सहशब्दस्य उर्वतिशयमतिपाद. नाय प्रयोगः।
कद्रुकमण्डल्वोश्छन्दसि ॥ ७१ ॥
भाभ्यामूङ् स्यात् । कद्रूश्च वै मुपर्णी च । कमण्डलू: ॥ गुः
Page #52
--------------------------------------------------------------------------
________________
४ अध्याये १ पादें २ भाविकम् । ४७ गुल्मधुजतुपतयालूनामुपसंख्यानम् । तत्राद्यानां त्रयाणां छ. न्दास व्यत्ययेन स्त्रीत्वम् । पतयालुस्तु स्पृहिगृहीत्यालुजन्तो विशेष्यलिङ्गः । गुग्गुलुः । मधूः । जतूः । पतयालूः ।
संज्ञायाम् ॥ ७२ ॥ श्रच्छन्दोऽर्थ सूत्रम् । कदूः । कमण्डलुः ।
शाखाद्यो ङीन् ॥ ७३ ॥ शाखादेरो योऽकारस्तदन्ताच्च जातिवाचिनो हीन्स्यात्।। शारिची । बैदी। जातेरित्यनुवृत्तेः पुंयोगे डीषेव । जातिलक्षण एवं परं डीना बाध्यते ॥ अत्राकारविशेषणानेह । शूरसेनी ॥ जनपदशब्दादित्यनोऽतश्चेति लुकि जातिलक्षणो ङीष् । अत एव यौधेय्यां डीसिध्यर्थं न प्राच्यभगादियाँधेयादिभ्य इति सू. त्रेणातश्चेति प्राप्तो लुङ् निषिध्यते । ततः पश्र्वादियौधेयादिभ्यो ऽणत्राविति पाश्चमिकस्य स्वार्थकस्यानो लुगभावादनेन छीन् सिध्यतीति कैयटादिग्रन्थे चरणसमाप्तौ स्पष्टम् । शारिव । कापटव । ब्राह्मण। गौग्गुलव । शृङ्गरु कपटु ब्रह्मन् गुग्गुलु एभ्यः प्राग्दीव्यतोऽण् । गौतम ऋष्यणन्तः । अयं च गौरादिष्वपि पठितः । कामण्डलेय । कमण्डलुशब्दाचतुष्पाद्भ्यो ढञ् । ब्राह्मणकृतेय । आतिथेय। आगरकेय । एते शुभ्रादिढगन्ताः । वात्सायन । वत्सशब्दाद् गर्गादियम् । ततो यूनि यनिमोश्चेति फक् । यद्यपि स्त्रियां युवसंज्ञा नास्ति तथापि वात्सायनशब्दस्यह गणे पाठसामर्थ्यात् स्त्रियामपि युवसंज्ञा । गोत्रे एव वा प्रत्ययद्वयम् । मौञ्जायन । मुञ्जशब्दो नडादिः । कैकसेय । कीकसाशब्दः शुभ्रादिः । काप्य । शैब्य । कपिशिविभ्यां वृद्धकोसलाजादान । यश्चाबत्र प्राप्नोति । ऐहि । पर्येहि । ईई चेष्टायाम् ।
Page #53
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
·
1
आपूर्वात् पर्यापूर्वाश्च सर्वधातुभ्य इति इन् । इह कृदिकारादिति ङीष् प्राप्तः । आश्मरथ्य | अश्मरथो गर्गादिः । औदपान । उदपानशब्दः शुण्डिकादिः उत्सादिश्च । तत्र शुण्डिकायणन्तः प्रयोजयति । अनन्ते तु डीडीनोर्नास्ति विशेषः । अराल चण्डाल | वतण्ड । आद्ययोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डस्य तु गोत्रत्वात् । वतण्डस्यापत्यं स्त्री वतण्डांश्चेति यञ् । लुक् स्त्रियामिति तस्य लुक् । भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं इस्वार्थम् । ननु भोगशब्दो घञन्तः । गौरिशब्दो अत इञन्तः । सौ ञित्स्वरेणायुदात्तौ ताभ्यां मतुप् पित्वादनुदाचः ततश्र डीडीनोः को विशेष इत्याशङ्क्योक्तं वृत्तिकारैः । घादिषु निस्यमिति । तेषामयमाशयः । कर्मणि चेत्यत्रेव नद्याः शेषस्यान्यतरस्यामुगितश्चेति चकार इतिशब्दार्थः । तेन उगितः परोऽपि ङीन् नास्य विषयः । उगित्संशब्देनाविहितत्वात् । तथा च घरूपेति नित्यस्वः सिध्यति । भाष्ये तु उगितः परा या नदीत्येव स्थितं युवोरनाकाविति सूत्रे । अत्र गणसूत्रं नृनरयोर्हद्धिश्वेति । नृशब्दानेभ्य इति ङीपि नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । यदिह वक्तव्यं तत्स्थानेन्तरतम इत्यत्रावोचाम । अत्र पुत्रशब्दः पठ्यते तेन शैलपुत्री । मा भैषीः पुत्रि सीवे । पुत्रीब हर्ष हृदये करोतीत्यादिसिद्धम् । पुत्रशब्दश्च कन्यायामप्यस्ति । अत एव पुमांसं पुत्रमाधेहि । पुंसः पुत्रां उत विश्वायुषमित्यादौ पुंस्त्वेन विशेषणं संगच्छते । अमरोऽप्याह । आत्मजस्तनयः सूनुः मृतः पुत्रत्रियां त्वमी आहुर्दुहितरं सर्वे इति । यभ्वत्र हरदतेनोकं केवलः पुत्रशब्दः स्त्रियां न वर्तते इति तत्प्रत्ययस्थादितीत्वप्रकरणस्थवासूतकापुत्रकावृन्दारकाणामिति वार्तिकमाब्यादिविरुद्धम् । ननु षष्ठे कारे सत्यामदस्येति सूत्रे सूतोग्रराज
४८
Page #54
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
४९
भोजकुलमेरुभ्यो दुहितुः पुत्रद्वेति वार्तिकं तत्स्वरार्थमित्येके । टित्वान्ङीपि कृते उदात्तनिवृत्तिस्वरेणोदात्तः । ङीनन्तेनं तत्पुरुषेऽपि समासस्वरेणान्तोदात्त एवेति दुरुपपादोऽत्र स्वरभेदः । अतो नारभ्यमेव वार्तिकमित्यन्ये । वार्तिकश्रद्धयात्र गणे पुत्रशब्दः प्रक्षिप्तो न तु सांप्रदायिक इत्यन्ये तेषामुक्त प्रयोगाः प्रामादिकाः । यद्वा पुत्रेत्याख्यातात्तद्वन्तं करोतीति वा रायन्तादच इः । कृदिकारान्ङीषिति कथंचिन्निर्ब्राह्यम् । अस्मिन पक्षे वा सूतकापुत्रकेति वार्तिके कैटहरदत्तादिकृतोऽकारमश्लेषक्लेशां नास्तीति दिकू |
यङश्चाप् ॥ ७४ ॥
त्र्ययङोः सामान्यग्रहणं यङ इति । तदन्ताच्चाप्स्यात् । पकारः सामान्यग्रहणार्थः । चकारस्य तदविघातेन चरितार्थ त्वेऽपि परत्वाच्चित्स्वरं वाघते । आम्बष्ठ्या । वृद्धेत्कोसलेति ज्यङ् । कारीषगन्ध्या । व्यङः स्त्रीप्रत्ययत्वेऽपि ङित्करणसामर्थ्यातदन्तादप्ययं चाप् । अत्र वार्तिकम् । पाश्च्च यङश्वाविति । शार्कराक्ष्या | पौतिमाष्या । गौकक्ष्या । शर्कराक्षपूतिमापगोकक्षशब्दा गर्गादयः । एवं च गौकक्ष्यशब्दस्य क्रौडचादिषु पाठो न कर्तव्यः । नन्वेवं गौकक्षीपुत्र इत्यत्र ष्यङः संप्रसारणं पुत्रपत्योरिति संप्रसारणं न स्यात् । ष्यङन्तताविरहादिति चेन्न । इष्टापत्तेः । तथाच सौनागाः पठन्ति । व्यङः संप्रसारणे गौंकक्ष्यायाः प्रतिषेध इति ।
आवट्याच्च ॥ ७५ ॥
अस्माच्चाप्स्यात् । आवट्या । अवटशद्बो गर्गादिः । तस्माघञ् । यवश्वेति ङीष्प्राप्तः । प्राचां तु मते ष्फ एव सर्वत्र ग्रहणा।
शब्द. तृतीय. 4
Page #55
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
पकर्षणादित्युक्तम् । आवट्यायनी ।
तद्धिताः ॥ ७६ ॥ आ पञ्चमाध्यायसमाप्तेराधिकृतं बोध्यम् । बहुवचनमनुक्तानामुपसंख्येयानां संग्रहार्थम् । अन्यथा प्रत्यय इतिवत्तद्धित इ. त्येव ब्रूयात् । ननु स्त्रीप्रत्ययानामुपक्रम एव तद्धिता इत्यधिक्रियताम् । तथाच फविधौ तद्धितग्रहणं यस्येतिलोपे ईद्रहणं च मास्त्विति लाघवम् । सत्यम् । एवं सति ङीवादीनां डकारस्येत्संज्ञा न स्यात् । अतद्धित इति पर्युदासात । डकारस्थाने टकारोऽस्त्विति चेन्न । एवमपि पद्वीत्यादावोगुणप्रसङ्गात् ।
यूनस्तिः ॥ ७७ ॥ युवन्शब्दात्तिप्रत्ययः स्यात्स च तद्धितः ॥ स्त्रियां तद्धितान्तत्वात् प्रातिपदिकत्वे स्वादयः । युवतिः । लिङ्गविशिष्टपरिभाषया सिद्धेऽप्युत्तरार्थस्तद्धिताधिकारः । अथ कथं प्रौढभावा युवत्य इति । युवतीकरनिर्मथितं मथितमिति च । न चेतो मनु. व्यजातेरिति डीषि वाच्यम् । यौवनं न जातिरित्युक्तत्वात् । अन्यथा इस्वपयोगासनतेश्च । उच्यते । सर्वतो क्तिनादिति पहाधन्तर्गणसूत्राद्वैकल्पिको डीए । उक्तेऽपि भवन्त्येत इति भाव्यात् । अन्ये त्वाहुः यौतेरौणादिके कतिप्रत्यये कृदिकारादिति जीषिति । यौतेः शत्रन्तान्डीबिति वा । अत एव युवतीनां समूहो यौवतमित्यपि सङ्गच्छते। त्यन्तात्तु अणि पुंवद्भावाद्यौवनमित्येव । भिक्षादिपाठसामर्थ्यान पुंवदिति वृत्तिस्तु भाष्यविरुदा। भाष्ये भिक्षादिषु युवतिशब्दपाठस्य प्रत्याख्यानात् ।। अणिञोरनार्षयोर्गुरूपोत्तमयोः व्यङ् गोत्रे ॥ ७८ ॥ ज्यादीनामन्त्यमुत्तमम् । तत्रैव रूढेः । तस्य समीपमुपो
Page #56
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् । ५१ त्तमम् । गोत्रे विहितावनार्षों यावणिौ तदन्ताभ्यां गुरूपोत्त. माभ्यां व्यसत्ययः स्यास्रियाम् । षष्ठी तु पश्चम्यर्थे सौत्री गापोष्टक् व्रीहिशाल्योर्दगितिवत् । अत एवोत्तरसूत्रे पञ्चमी निर्दिया । क्रौड्यादिभ्यश्चेति । यद्वा । अणिजन्तस्य व्यङादेशः स्यादिति सूत्रार्थः। नचैवं तातङ्न्यायेन सर्वादेशता शङ्ख्या निदिश्यमानस्यादेशा भवन्तीत्युक्तेः । करीपगन्धेरपत्यं स्त्री कारीषगन्ध्या । तस्यापत्यमित्यणः प्यङ् । वाराह्या । वालाक्या । इत्रः ष्यङ् । अणिजोरिति किम् । आतभागस्यापत्यं विदादित्वादन् । आतभागी । अनार्षयोः किम् । वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः किम् । औपगवी । गोत्रे किम् । तत्र जाता आहिच्छत्री। कान्यकुब्जी । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रमिति वुविधौ राजन्यमनुष्यग्रहणेन ज्ञापयिष्यते तथापि अनार्षयोरिति पर्युदासादेव सिद्ध गोत्र. ग्रहणसामर्थ्याच्छास्त्रीयस्यैव गोत्रस्येह ग्रहणमिति प्राश्चः । वस्तुतस्तु मा स्तु गोत्रग्रहणं अस्तु च लौकिकस्य पर्युदासालाभः । देवदत्या याज्ञदत्येत्यादीनामनन्तरापत्येऽपीष्यमाणत्वात् । एतदर्थमेव हि भाष्ये गोत्रादवयुतः पृथग्भूतः पर्युदासादनन्तरापत्यमिति व्याख्यानान्तरमुत्तरसूत्रस्य कृतम् । वृत्तौ च क्रौड्यादिषु दैवदत्यादयो द्रष्टव्या इत्युक्तम् । अतिप्रसङ्गस्त्वनभिधानानेति सर्वेषां तुल्यमेव । यद्यपि व्यङ् आदेश इति पक्षेऽपि लक्ष्यं सिद्ध्यत्येव तथापि प्रत्ययपक्षे षकार इह सूत्रे व्यङः सम्प्रसारणमिति सूत्रे च न कर्तव्य इति लाघवम् । पक्षान्तरे तु गौरवामिति स्थितं भाष्ये । तथाच वत्साहका हरदत्तश्लोकाः ।
पुंवद्भावाघजादौ यलुगणपि परस्मिन् व्यडि बौदमेघे
Page #57
--------------------------------------------------------------------------
________________
शब्दकोस्तुभे ।
म्बार्थे प्यङ् नयलुगडे क्रमत इह भवेदौडुलोम्या परस्मिन् । ___पडूशीर्षाधीनलाभस्तदभिविहितये न प्रभूास्ति शीर्यो पवादशोऽपि तातडिच न यङणिोः स्थानिनोरुक्तिहेतोः॥१॥ ___सयुक्तावप्पाप्परस्मिनिह सुलभ इति ण्डौ विधेयौ न वा ये ऽणादेशे डीनिवृत्त्यै त्वण इञ् इति चेकौ विशेष्यौ न दोषः ।
मित्वादादेरुदात्तः प्रसजति साकादेशने वृध्यभावः पाश्यापुत्रे निवृत्यै यण इक इह षेत्वेकके डीस्पडोस्तु ॥ २ ॥
लोलयापुत्र इत्ययवहित इतरत्रापि दीर्घो तवत्स्याद्धुत्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः ।
धात्वानन्तर्ययोश्चेन्मिथ इह निहिते पेक्षिता वापताविक् धोनाबाधिक्रियात्वे हुपदिशिरिति गो!तदेवं ममैकः ॥ ३ ॥
एषामयमर्थः । यडि परस्मिन् सति प्रत्ययत्वपक्षे इति यावत् यजादौ पुंवद्भावात् । भस्याढ इत्यनेन । यलुक् यलोपा अण च सिध्यति । औदमेध्यायाश्छात्र औदमेघानां सङ्घो वा औदमेघ इति हीष्यते तचोभयमादेशपक्षे स्थानिवद्भावेन इनन्ततया इनश्च सङ्घाङ्कलक्षणेष्वितिसूत्राभ्यामाणि आपत्यस्येति यलोपे च सिद्ध्यतीति स्पष्टमेव । प्रत्ययत्वपक्षे विनन्तत्वाभावाद्विरण विधेयः । अथ लिङ्गविशिष्टपरिभाषया इवन्ताद्विहि. तोऽण् ष्यङन्तात् स्यात् एवमपि अनपत्यत्वावलोपानुपपत्तिरिति दूषणं प्रसक्तम् । तत्रायमुद्धारः । भस्याढे तद्धिते पुंवद्भावः सिद्धश्च प्रत्ययविधाविति मागेव शैषिकोत्पत्तेः पुंवद्भावेन प्यनिवृत्ताविअन्तत्वादुभयत्राण इति । स्यादेतत् । प्रत्ययत्वपक्षे औदमेघेयो न सिध्यति । अनपत्यतया यलोपासम्भवात् । अढ इति पुंवद्भावपर्युदासाञ्चेत्यत आह । हीति । हि यस्मास्त्रियां विद्यमानात्प्रातिपदिकात्स्वार्थे टाबादय इति
Page #58
--------------------------------------------------------------------------
________________
४ अध्याये ? पादे २ आह्निकम् ।
1
व्याख्यानादौदमेधेः स्वार्थे ष्यङ् । इञन्तस्य स्वार्थश्चापत्यं तत्तस्मात् ढे लुप्यलोपः । आपत्यत्वादिति भावः । तदेवं प्रत्ययत्वपक्षो निर्दोष इति स्थितम् । नन्वादेशत्वपक्षे औडुलोम्या न सिध्येत् । ये चाभावकर्मणोरिति प्रकृतिभावात् । अत आह क्रमत इति । अपरस्मिन् पक्षान्तरे आदेशत्वपक्षे इति यावत् । अकृते टिलोपे गुरूपोत्तमत्वाभावात् ष्यदेव नास्ति । तथा चानुपूर्व्यात् सिद्धमिति भावः । स्यादेतत् । हस्तिाररिसापत्यम् । वाह्वादित्वादिञ् । ये च तद्धितइति सूत्रोपरि प्रक्षिप्य वृत्तिकृद्भिर्व्याख्यायमानेनाचिशीर्ष इति वार्तिकेन शीर्षादेशः । इञः ष्यङ् । ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्ये च तद्धित इति शीर्ष त्रादेशः स्यात् । ये चाभावेति प्रकृतिभावाच्च टिलोपो दुर्लभः । तत्राह । व्यङिति । तथा च सन्निपातपरिभाषया व्यङ् शीर्षादेशं न विहन्ति । तेन हास्तिशीर्ष्यासिद्धे चेत्यर्थः । न चैवमजादिप्रत्ययनिबन्धनः श्रीर्षादेशः प्य न प्रवर्तयेदिति वाच्यम् । परिभाषया अनित्यतया लक्ष्यांनुरोधेन व्यङ् प्रवर्त्तते न तु शीर्षन्नित्यभ्युपगमात् । ननु प्रत्ययग्रहणपरिभाषया अणिञन्तयोर्विधीयमानः ष्यङ् अनेकालत्वात्सर्वादेशः स्यात् । ङिच्चेत्यस्यानन्यार्थङित्वेष्वनङादिषु चरितार्थत्वात् । व्यङि तु ङित्वं यङश्वाविति विशेषणेन चरितार्थं तत्राह । सर्वेति । निर्दिश्यमानस्येति परिभाषयेति भावः । इत्थमादेशपक्षेऽपि दोषोद्धारात्पक्षयोः साम्यं स्थितम् । ननु प्रत्ययपक्षेऽनुबन्धौ न कार्यों । चाबू न विधेयः । टापा सिद्धेः । आदेशपक्षे तु अणन्तान्ङीप्स्यात् । इञन्तान् ङीष् । तयोर्बाधाय चाब्विधिराश्रयणीयः तथाचानुबन्धावपि कार्याविति गौरवमिति शङ्कते । स्त्र्युक्तावपीति । परस्मिन् प्रत्ययपक्षे षूङौ
Page #59
--------------------------------------------------------------------------
________________
शब्द कौस्तुभे ।
न विधेयौ चाबू च न विधेय इति पूर्वोत्तराभ्यां नञः सम्बन्धः । विधेयशब्दस्य च वचनविपरिमाणः । गार्ग्यामरायादाविव स्त्रीम त्ययद्वयं भविष्यतीति भावः । आदेशपक्षेऽपि तर्ह्यनुबन्धं मास्त्वित्याह । अपीति । इश्व अश्व यौ । अण्योऽकारः इञ इकार इति व्याख्यास्यते । अलविधित्वान्न स्थानिवत्वम् । टिड्ढाणञित्यत्र ह्यत इत्यनुवर्तते । इन उपसंख्यानमित्यत्रापि सौत्रमित इति सम्बध्यते । यद्यपि प्रपठ्येत्यादाविडभावायामाधान्येनाप्यलाश्रयणे स्थानिवत्वं नेति सिद्धान्तितम् । तथाचेकारान्तो य इमिति व्याख्यानेऽपि न दोषस्तथापि अण् योऽकार इत्यावश्यकम् । अन्यथा स्थानिवत्वेनाणत्वं स्वाश्रयमाकारान्तत्वं चाश्रित्य ङीप्स्यात् । यथा वृक्षायेत्यादौ स्वाश्रयं यवादित्वमाश्रित्य दीर्घ इति भावः । आदेशपक्षे दोषमाह । जित्वादिति । इञादेशस्येति शेषः । तथाचान्तोदात्तसिद्धये आदेश - वादिना चावेव वैष्टव्यः । तथा षङावप्यासञ्जनीयावित्यर्थः । स्यादेतत् । सानुबन्धकस्य स्थानिवत्वेन निर्देशे अनुबन्धकार्यतेति गालिटीति सूत्रे उक्तम् । तथाच । ञित्स्वरो न भविष्यतीत्याशङ्कयाह । सत्रकेति । तथाच । तस्मिन्नेव सूत्रे हल: श्नः शानजिति सूत्रे चोक्तपक्षो दूषित एव । तदभ्युपगमेऽपि न निर्वाहः । वृद्धेरप्यसिद्धिप्रसङ्गात् । ननु प्रत्ययत्वपक्षेऽपि सम्प्रसारणविधौ ष्यङ् इति विशेषणार्थमनुबन्धावावश्यकावित्याशयाह । पाश्येति । ष्यङः सम्प्रसारणमित्येव प्रत्ययपक्षेऽप्यस्तु । तावतापि पाश्यापुत्रे सम्प्रसारणनिवृत्तेरित्यर्थः । त्वया तु यङश्वावित्यत्र सामान्यग्रहणाविघाताय षकारोऽपि कार्य इति गौरवमिति भावः । ननु प्रत्ययपक्षे लोलूयापुत्रेऽपि सम्प्रसा रणं स्यादित्याशङ्कयाह । लोलूयेति । आदिति । अप्रत्यया
५४
Page #60
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
दित्यकारेऽतोलोपे टापा सह सवर्णदीर्घ च कृते अकारेण व्यवधानादित्यर्थः । शङ्कते । इतरत्रापीति । वाराहीपुत्र इत्यत्रापि टापा व्यवधानं तुल्यमित्यर्थः । समाधत्ते दीर्घ इति । न चैवमपि स्थानिवद्भावाद्यवधानमेवेति वाच्यम् । एकादेशस्य पूर्वान्ततयाहि याशब्दस्य विधिः । न चासावनादिष्टादचः पूर्वः येन स्थानिवत्वं स्यादिति भावः । आदेशवाद्याह धुत्वेति । धुत्वं धातुत्वम् । अधाविति छेदः । अयं भावः । आदेच इत्यात्वस्य गोशब्दादावतिप्रसङ्गं वारयितुं धातुग्रहणमनुवय॑म् । तस्य चेहापि सम्बन्धध्रौव्ये । योनन्तरो न धातुः स यो धातुः सोननन्तर इति भाष्योक्तरीत्याऽधातौ वाराहीपुत्र इत्यत्रेवानन्तरे लोलूयापुत्रेऽप्यतिप्रसङ्गो दुर्वारः । अथ यधात्वो. विशेषणविशेष्यभावानापन्नयोः कार्यान्वयस्तर्हि लोलूयापुत्रः सिध्यतु नाम । वाक्पतौ तु इक् स्यात् । तस्माद्धातुग्रहणं स्वतन्त्रमस्वतन्त्रं वा । उभयथापि प्रत्ययवादिनो दोष इति भावः । प्रत्ययवादी समाधत्ते धो नेति । गोनौं । गोशब्दस्यात्वं नेत्यर्थः । आत्वे हीति । प्रातिपदिकानान्तु अवयवशो व्युत्पादनरूप उद्देशो नतु साक्षात्पाठरूप उपदेश इति भावः । स्यादेतत् । नौद्यचष्ठन् । गोयचोसंख्येत्यादावस्त्येवोपदेशः । न च स्वरूपज्ञापनमात्रफलकः स नास्तीति वाच्यम् । धा. तूनामपि विकरणानुवन्धादिज्ञापनफलकत्वात् । न च औतौम्शसोरिति ज्ञापकम् । स्मृत अर्वा येन सः स्मृतौः । तं स्मृ. तामित्यत्र चारितार्थ्यात् । न च गोतो णिदिति ज्ञापकम् । तत्राप्योकारान्तोपलक्षणतया स्मृताः । स्मृतावावित्यत्र चरितार्थत्वात् । उच्यते । रायो हलीत्यत्र । राय इति योगविभागस्तावद्भाष्यारूढ एव तत्र राय एव प्रातिपदिकस्य नान्यस्येति
Page #61
--------------------------------------------------------------------------
________________
५६
शब्दकौस्तुभे ।
नियमो बोध्यः । अस्ति ऊडिदम्पदादीति सूत्रे राय उपदेशः मण्डूकप्लुत्या धातुग्रहणस्येह सम्बन्धो नेति वा बोध्यम् । उपसंहरति । तदेवमिति । मम प्रत्ययवादिनः । एकः । ङकारः । आदेशवादिनस्तु षकारोऽपीति गौरवमिति भावः । गोत्रात्रयत्रात् ॥ ७९ ॥
प्रवराध्याये यमधिकृत्य प्रवरा आम्नातास्तद्गोत्रम् । प्रवरान् व्याख्यास्यामस्तैर्गोत्राणीति सत्याषाढसूत्रात् । तस्मादवयुतं पृथग्भूतं पर्युदासात्कुलप्रतिष्ठाकरम् | पुणिकभुणिकमुखरादि । एतद्धि देश विशेषे प्रसिद्धं नामेत्याहुः । प्रसिद्धिप्रयोजकात परयोरणिञोः ष्यङ् स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या । मौखर्या ।
क्रौड्यादिभ्यश्च ॥ ८० ॥
1
अगुरुपोत्तमार्थमनाणिञर्थं च सूत्रम् । क्रौडिः । क्रौड्या । गौकक्ष्या । इहास्य पाठः प्रागेव प्रत्याख्यातः । इह सूत युवत्यामिति पठ्यते । सूतशब्दः ष्यङमुत्पादयति प्राप्तयौवनायामभिधेयायाम् । सूत्या | अन्यत्र क्रियाशब्दादाप् । सूतजातिवाचिनस्तु ङीष् । सूती । भोज क्षत्रिये । भोज्या । जातिलक्षणस्य ङीषोऽपवादः । क्रियाशब्दात्तु टावेव भोजा । क्रौड्यादिराकृतिगणः । व्याकरणान्तरे त्वयमेव रूढ्यादिरिति भाष्यम् ॥
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डे विद्धिभ्यो
ऽन्यतरस्याम् ॥ ८१ ॥
एभ्यः ष्यङ् वा स्यात् । इवन्तत्वात्पक्षे ङीष् । देवा यज्ञा यष्टव्या अस्य देवयज्ञः । शुचिरृक्षोऽस्य शुचिवृक्षः । सत्यमुद्र
Page #62
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे २ आह्निकम् ।
तनाद्विशेष्यस्य पूर्वनिपातः मुमागमश्च काण्डेन विद्धः । क. तैकरणे कृतेति समासः । निपातनात् काण्डशब्दस्यैकारः । पा. ठान्तरे तु कण्ठे विद्धमस्य कण्ठे वा विद्धः कण्ठेविद्धः । अमूमस्तकादित्यलुक् । सर्वेभ्योऽपत्ये ऽत इन् । दैवयज्या । दैवयजी । शौचिवृक्ष्या । शौचिक्षी । सात्यमुग्या। सात्यमुग्री । काण्ठेविध्या । काण्ठेविद्धी ।
इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।
समर्थाना प्रथमाहा ॥ ८२ ॥ इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् समर्थाधिकार इति वृत्तिकाराः । तदुत्तरेषां स्वार्थिकत्वेन सामायोगादि. ति तेषां भावः । अत एव कंबल उपगोरपत्यं देवदत्तस्येति समर्थग्रहणप्रत्युदाहरणं वृत्तौ दत्तम् । अत्रेदं वक्तव्यम् । समर्थः पदविधिरिति परिभाषया गतार्थत्वान्न प्रकृतसूत्रे एकार्थीभावरूप सामर्थ्यमर्थः घकालतनेषु कालनाम्न इत्यलुविधानाद्धि सुबन्तात्तद्धितोत्पत्तिः । तथा च पदविधित्वं स्प. टमेव । किमर्थं तह्ययं समर्थाधिकार इति चेत् । समर्थात्परिनिष्ठितात् कृतसन्धेस्तद्धितो यथा स्यात् । तेन सौस्थितिर्वीक्षमाणिरिति सिद्धम् । सु उत्थित वि ईक्षनाण इत्यस्यामवस्थायां सवर्णदीर्घात्मागेव तद्धिते सति हि साबुस्थिति वीक्षमाणिरिति स्यात् । नन्वन्तरगत्वात् सिद्धो दीर्घः । सत्यम् । अत एवानेन समर्थग्रहणेनाकृतव्यूहाः पाणिनीया इति ज्ञाप्यते कृतमपि निवर्तयन्तीति वा । तेन लुलुवुष इत्यादि सिद्धम् । संप्रसारणं भावीति ज्ञात्वा प्रागेव बलादिलक्षण.
Page #63
--------------------------------------------------------------------------
________________
५८
शब्दकौस्तुभे। स्य इटोऽकरणात् कृतस्य वा निवर्तनात् । अनित्यं चेदं परिभाषाद्वयमिति प्रतिपादितमचः परस्मिन्नितिसूत्रे तन वि. स्मर्चव्यम् । परिनिष्ठितत्वं च ब्यापातिपदिकांश एव न तु सुविशिष्ट इत्यप्यवधेयम् । तेन दण्डिमानित्यादि सिद्धम् । अत्र चाश्विमानणिति सौत्रप्रयागो ज्ञापकः । एवं च नको डिवस्य चोक्तपरिभाषाज्ञापकत्वसम्भवात् समर्थग्रहणं प्रत्याख्यातमचः परस्मिानित्यत्र । क्रियमाणेऽपि समर्थात्पथमादिति युक्तं वक्तुम् । प्रथमात्किम् । विधिवाक्ये प्रथमावगताद्यथा स्यात् । तस्यापत्यमित्यण अपत्यवाचकात्पथमान्तात्तस्येति षष्टयर्थान्मा भूत् । वाग्रहणात् पक्षे वाक्यमपि । उपगोरपत्यमिति । ननु वैकल्पिको ऽपि एकार्थीभावस्तस्मिन् सति नित्यं भवन् तद्धितः समासं बाधेत । मैवम् । पूर्वसूत्राद. न्यतरस्यांग्रहणानुकृत्या एकार्थीभावपक्षेऽपि विकल्पेन तद्धितः स्यादिति व्याख्यानात् । तेनोपग्वपत्यमित्यपि सिद्धम् ।
प्राग्दीव्यतोऽण् ॥ ८३॥ अधिकारोऽयम् । तेन दीव्यतीत्यत्रत्य एकदेशोऽनर्थकोऽप्य. वधित्वेनोपात्तः पारीश्वरादितिवत् । यद्वा दीव्यत इति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिः । प्रत्यय इतिवदाणत्येव वक्तव्ये पाग्दीव्यत इति स्पष्टार्थम् ।
अश्वपत्यादिभ्यश्च ॥ ८४ ॥ एभ्योऽण् स्यात् पाग्दीव्यतीयेष्वर्येषु । वक्ष्यमाणस्य रा. यस्यापवादः । आश्वपतम् । अश्वपति । शतपति । धनपति । ग णपति । राष्ट्रपति । कुलपति । गृहपति । पशुपति । धान्यपति । बन्धुपति । सभापति । प्राणपति । क्षेत्रपति । कयं तर्हि ।
Page #64
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ३ आह्निकम् । ५९ गाणपत्यो मन्त्रः । क्षेत्रपत्यमिति । अपशब्द एवायमिति हरद. चः । क्षेत्रपत्यश्चरं निर्वपेदिति तु छान्दसम् । क्षेत्रपत्यं प्राश्नमिति तु छन्दोवषयः कुर्वन्ति ।
दित्यदित्यादित्यपत्युत्तरपदाण्यः ॥ ८५ ॥ दित्यादिभ्यः पत्युत्तरपदाच रायः स्यादणोऽपवादः । दैत्यः । आदित्यः । प्राजापत्यः । यमाचेति वक्तव्यमिति वृत्तिः । हरदत्तमाधवादयोऽप्येवम् । भाष्ये तु नैतदृश्यते । वाङ्मतिपितमतां छन्दस्युपसंख्यानम् । वाच्यः। मात्यः । पैतृमत्यः । कुर्वादिषु मतिपितृमछब्दयोः पाठोऽपत्यार्थे भाषायामपि ण्यार्थः । अनेन तु छन्दसि सर्वेषु प्राग्दीव्यतीयेषु रायविधिः । पृथिव्या बायौ । पार्थिवा। पार्थिवी । देवस्य यात्रौ । दैव्यम् । दैवम् । वहिषष्टिलोपो यश्च । वाह्यः । ईकक् च । बाहीकः । ईकञ् छन्दसि । बाहीकमस्तु भद्रं वः । स्थाम्नोऽकारः । अश्वत्थामः । भाष्योदाहरणादत्र तदन्तविधिः। अन्यथा बलवाचिनः स्थामन्शब्दस्य केवलस्यापत्येन योगाभावेऽपि जातादिष्वेव विधिः स्यात् । अश्वस्येव स्थाम यस्यति बहुव्रीहौ पृषोदरादित्वात्सस्य तः । भवार्थे त्वस्य लुग्वक्ष्यते । अश्वत्थामा । लो. म्नोऽपत्येषु बहुषु । बाहादित्वादिवि प्राप्तेऽकारो विधीयते । उडुलोमाः । शरलोमाः । उडुलोमान् । उडुलोमैः । बहुषु किम् । औडुलोमिः । औडुलोमी । सर्वत्र गोरजादिप्रसने यत् । न केवलमयमपत्य एव किन्तु सर्वेषु प्राग्दीव्यतीयेषु । गवि भवं गन्यम् । गोरिदं गोः स्वं गौर्देवताऽस्य स्थालीपाफस्य गव्यः । केचित्तु पाग्दीव्यतीये अन्यत्र चेति सर्वत्रेत्यस्यार्थमाहुः । गवा चरति गव्यः । अनादिप्रसङ्गे किम् । गोभ्यो
Page #65
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
हेतुभ्य आगतं गोरूप्यम् । गोमयम् । हेतुमनुष्येभ्योऽन्यतरस्या रूप्यः मयट चेति रूप्यमयटौ। ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषिद्धम् । रायादीनामवकाशः दितिर्देवताऽस्य दैत्यः । इतश्चानिज इत्यस्यावकाशः दुलेरपत्यं दौलेयः । दितेरपत्यं दैत्य इत्यत्र पूर्वविप्रतिषेधेन ण्यः । कथं तर्हि दैतेय इति । असाधुरेवायमित्येके । वृत्तिकारस्तु दितेः कृदिकारा. दिति ङीषि कृते लिङ्गविशिष्टपरिभाषाया अनित्यत्वाण्याभावे स्त्रीभ्यो दगित्याहुः । वानस्पत्यम् । अत्राचित्तहस्तिधेनोरिति ठकं बाधित्वा रायः । अर्थविशेषलक्षणात् किम् । तस्येदमित्यर्थसामान्यलक्षणः पर एव यया स्यात् । औष्ट्रपतम् । उष्ट्रपति म पत्रम् । तस्येदम् । पत्राध्ययुपरिषदश्चेत्यन् ।
उत्सादिभ्योऽञ् ॥ ८६ ॥ अणस्तदपवादानामियादीनां चापवादः । औत्सः । औ. दपानः । बष्कयासे । असे । असमासे । पूर्वाचार्यसंज्ञेयम् । वष्कयस्यापत्यं बाष्कयः । असे किम् । गौवष्कयिः । अस इत्येतदेवेह तदन्तविधि ज्ञापयति । धेनुशद्धोऽत्र पठ्यते । अधेनना स. मृहः आधेनवमिति सिध्यति । उदस्थानो देशे । औदस्थानः । देशे किम् । यदृच्छया कश्चिदुदस्थानः तस्यापत्यं औदस्थनिः । पृषदंशे । पार्षतोंऽशः । अन्यत्र त्वणेव । ग्रीष्मादछन्दसीति वक्तव्यम् । इह मा भूत् । त्रिष्टुब् ग्रेष्मी । छन्दश्चेह वृत्तं न तु वेदः । स्यादेतत् । अछन्दसीति मास्तु । ग्रीष्मे भवेत्यादिशेषार्थविवक्षायां ऋत्वणाऽबो वाधात् । न छात्र पूर्वविप्रतिषेधः । अर्थ. विशेषलक्षणापवादापेक्षयैव ण्यादीनां तदभ्युपगमात् । ऋत्वण तु नार्थविशेषलक्षणः । शेषमात्रे विधानात् । किश्च । कक्ष्या.
Page #66
--------------------------------------------------------------------------
________________
४ अध्याये ? पादे ३ आह्निकम् ।
न्तरप्राप्तोऽयम् । तथाहि । अणोऽपवादः कालाट्ठञ् तस्यापि ऋत्वण् । इति । सत्यं ग्रीष्मो देवता अस्या इत्यशैषिकार्यविवक्षायामौत्सर्गिकोऽणेव यथा स्यादित्येतदर्थमिदम् ।
६.
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ८७ ॥
भवन इत्यतः मागर्थेषु स्त्रीपुंसाभ्यां क्रमेण नञ्स्नौ स्तः । स्त्रीषु भवं स्त्रैणम् । स्त्रीणां सङ्घः स्त्रैणः । स्त्रीभ्य आगतस्ताभ्यो हितो वा स्त्रैणः । एवं पौंस्नः । अयं योगो वत्यर्थे न प्रवर्धते । स्त्रीपुंबच्चेति ज्ञापकात् । स्त्रीवत् । पुंवत् । कथं तर्हि स्वतभ्यां समावेशः । स्त्रीत्वम् । स्त्रीता । पुंस्त्वम् । पुंस्तेति । आच त्वादिति चकारादिति वक्ष्यते । स्यादेतत् । उभाभ्यां नमेवास्तु | पौंस्नमित्यत्र संयोगान्तलोपे सति सकारो न श्रूयेतेति चेत्तर्हि प्रकृतोऽमेवास्तु | स्त्रीपुंसयोर्नुक् चेति सूत्रयताम् । न चैवं स्त्रैणाः पौंस्ना इत्यत्र यञञोश्चेति लुक्प्रसङ्गः । सङ्घाङ्कलक्षणेष्वण्प्रसङ्गश्च स्यादिति वाच्यम् । उभयत्रापि गोत्र इत्यनुवृत्तेः । ऋषिप्रजनस्य तत्र गोत्रशब्देन ग्रहणात् । अत एव हि सिद्धान्ते पौत्रा दौहित्रा नानान्द्रा इत्यत्र न लुक् । अत्राहुः । नकि टिलापेः स्यात् । न चैनं नुगानर्थक्यं यं विधि प्रतीति न्यायात् टिलोपप्रवृत्यैव नुकः सार्थक्यात् । पुंशब्दे हि नुकं विना टिलोपो न प्राप्नोतीति स्पष्टमेव । स्त्रीशब्देऽपि श्रीर्देवतास्य श्रायं हविरित्यत्रेव यस्येतिलोपात् परत्वाद् वृद्धिः स्यात् । तस्मायथान्यासमेवास्त्विति । अत्रेदं वक्तव्यम् । स्त्रीपुंसयोनक् चेत्यस्तु आगमे अकारोऽपि विवक्षितः । तस्य च यस्येतिलोपे कृतेऽपि स्थानिवत्वाट्टिलोपो न भविष्यतीति । एवञ्च टिड्ढाणञिति सूत्रेणैव ङीपूसिद्धौ नबस्नञोरुपसंख्यानमपि
Page #67
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे । मास्त्विति महदेव लाघवम् । तस्मादिह नश्स्नाविति गौरवं किमर्थ स्वीकृतमिति चिन्त्यम् ।
द्विगोलुंगनपत्ये ॥ ८८ ॥ द्विगोनिमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक् स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पश्चकपालः। द्विगोरिति षष्ठी । हेतुत्वश्च षष्ठयर्थः । तच भाविनोऽपि बुध्याध्यवसायात् । रथन्तरसामतादेर्यथा । द्विगुनिमित्तभूतस्येति किम् । पश्चकपालस्येदं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । पञ्चगर्गमयम् । इदं चोत्तरसूत्रादचीत्यपकृष्य व्याख्यानाल्लभ्यते । वाग्रहणमनुवत्ये व्यवस्थितविभाषाश्रयणाद्वा । स्यादेतत् । विद्यः । पाश्चनदः । पाद्कुल इत्यत्राति. प्रसङ्गः न च समाहारद्विगोरण इति वाच्यम् । पश्चकपालीशब्दा. दप्यणप्रसङ्गात् । तथाच द्विगो कि तन्निमित्तग्रहणम् । अर्थविशेषासम्प्रत्ययेऽतनिमित्तादपीति वार्तिकं तद्धितार्थद्विगुना सह फलितार्थैक्ये समाहारद्विगोः परस्यापि लुगिति व्याख्याय प्रत्याचक्षाणेन भाष्यकृताविरविकन्याय आश्रितः । उच्यते । ध्यवयवा त्रिविधा वा विद्येति मध्यमपदलोपी समासः । तत्पत्याख्यानपक्षेऽपि विशेषणं विशेष्येणेति कर्मधारपः। दिसंख्ये संज्ञायामिति नियमस्य तु नायं विषयः । मुख्ये कार्यसम्पत्ययात् । इदं तु संख्याशब्दस्य गौणस्वात् । एतेन त्रिलोकनायेन सतां मखद्विष इत्यादि व्याख्यासम् । यद्वा अन्यविकन्यायस्येह सोचोऽस्तु । न हि समाहारदिगो सर्वत्र तदितानभिषाने नियामकमास्ति । किश मायोक्तमध्यमपदलोपेनापि पाचकपाल इति प्रयोगे मासे.
Page #68
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे । भातिकम् । ६३ ऽनभिधानमेव शरणम् । इष्टापत्तौ तु किं समाहारे नि. षेधेन । पाचनदे तु समाहारे नदीभिश्चेत्यव्ययीभावात्तदित इति सर्व सुस्थम् । षण्णां कुलमिति षष्ठीतत्पुरुषे त. तस्तद्धित इति दिक् । अनपत्ये किम् । द्वयोर्देवदत्तयोरपत्यं द्वैदेवदत्तिः ॥
गोत्रेऽलुगचि ॥ ८९ ॥ ___ अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक् स्याछ । गर्गाणां छात्रा गार्गीयाः । वृद्धाच्छः । गोत्रे किम् । यस्कादिभ्यो गोत्र इति प्रकरणेन येषां लुक् प्राप्तस्तेषामेवालुग्यथा स्यात् । नेह कुवलस्येदं कौवलम् । वा. दरम् । अचि किम् । गर्गेभ्य आगतं गर्गरूप्यम् । गर्गमयम् । माग्दीव्यत इत्येव । गर्गेभ्य हितं गर्गीयम् । इह बिदा. नामपत्यं बैदः । बैदस्य बैदयोपित्यानि बिदाः । युवबहुत्वा. बहुत्वाभ्यामेव लुगलुकौ न तु गोत्रबहुत्वाबहुत्वाभ्याम् । यथा चेदं सिध्यति तथा रायक्षत्रियायेतिसूत्रे एवोपपादितम् ।।
यूनि लुक् ॥ ९० ॥ माग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । इह गोत्रे लुगित्यतः मागेव यून्यचीत्युक्त्वा द्विगोलुंगनपत्ये । अचि यूनीति चोका गोत्रे नेत्येव सून्यताम् । तथा च लुगलुग्ग्रहणं शक्यं प्रत्याख्यातुम् । सूत्रस्योदाहरणं तु । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । फिन् । ततो यू. न्यण् । ग्लौचुकायनिः । तस्य छाबो ग्लौचुकायनः । अणो लुकि कृते वृद्धत्वाभावाच्छो न । अचीत्येव । ग्लौचुकायनप्यम् । प्राग्दीव्यत इत्येव । तस्मै हितम् । ग्लौचुकायनीयम् ।
Page #69
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
फफिञोरन्यतरस्याम् ॥ ९१ ॥ यूनीत्येव । पूर्वेण नित्य लुकि प्राप्ते विकल्पार्थ सूत्रम् । गाायणस्य छात्राः गार्गीयाः । गाायणीयाः । यस्कस्यापत्यं शिवादिभ्योऽण् । यास्कः। तस्यापत्यं युवाऽणो यच इति फिञ् । यास्कायनिः । तस्य छात्रा यास्कायाः । यास्का. पनीयाः।
तस्यापत्यम् ॥ ९२ ॥ तस्येति षष्ठचन्तात् समर्यादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया स्युः । लिङ्गवचनेऽतन्त्रे । उपगोरपत्यमोपगवः । आश्वपतः । दैत्यः । स्त्रैणः । पौंस्नः । यद्यपि तस्येदमित्ये. वापत्येऽप्यण सिद्धस्तथापि अत इञ् इत्याद्यर्थं तस्यापत्यमिति तावद्वक्तव्यम् । योगविभागस्तु भानोरपत्यं भानव इत्यत्र वृद्धाच्छं बाधितुम् । तथाहि असति योगविभागे प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगात्ततोऽन्योऽपत्यार्थः शेष एव स्यात् तथा च वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते अपत्यार्थस्योपयोगाच्छेषत्वाभावेन छस्य प्राप्तिरेव नास्तीति ।
एको गोत्रे ॥ ९३ ॥ गोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते । उपगोगर्गोत्रापत्यमोपगवः । इह पक्षदयम् । अपत्यशब्दो जन्यपरः । तेनोत्पादयितैवापत्येन युज्यते । तथा च लोके कस्येदमपत्यमिति पितामहं पति पृष्टे चैत्रस्य मैत्रस्य वेत्युत्तरयति नतु ममेति । अमरोऽप्याह । आत्मजस्तनयः सुनुः सुतः पुत्रस्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः स. मे इति । मुख्यमतं तु प्रयोज्यपरोऽपत्यशन्दः न पतन्त्यनेना
Page #70
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ३ आह्निकम् ।
पत्यमिति व्युत्पत्तिः पतिविंशतीतिमूत्रे भाष्ये दर्शितत्वात् व्यवहितोऽपि हि पितामहादीनामुद्धतेति प्रसिद्धमितिहासेषु जरत्कार्वाद्युपाख्याने । सूत्रकारोऽप्याह । अपत्यं पौत्रप्रभृ. तीति । आद्यपक्षे हि अपत्यमिवापत्यमिति गौणी वृत्तिराश्रयणीया स्यात् । तत्राद्य पक्षे यद्यतन्नारभ्येत त. दा तत्र तत्रापत्ये तत्तपितृवाचकात् प्रत्ययः स्यात् । - थाहि । उपगोरोपगवः । तस्यौपगविः । तस्यौपगवायनः । एवं शततमे ऽपत्ये एकोनशतं प्रत्यया इत्यनिष्टं स्यात् इष्टं च न सिध्येत् औपगव इति । तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तु पक्षे उपगोः पञ्चमः पूर्वेपां चतुर्णामपत्यं तत्र यदो. पगोः प्रत्ययस्तदोपगव इतीष्टं यद्यपि सिध्यति तथाप्यनिष्टमपि प्रामोति । तद्यथा । औपगवादोपगविः तत औपगवायनः । तत
औपगवायनिरिति पञ्चमे त्रीण्यनिष्टानि षष्ठं चत्वारि । एवं यावतिथमपत्यमभिधित्सितं तावन्ति यूनान्यनिष्टानि प्राप्नुवन्ति । यथा शततमे अष्टौ नवतिश्चेति । एवं स्थित इदं प्रारभ्यते । अत्रायं सङ्ग्रहः ।
अपत्यं पितुरेव स्यात्ततः प्राचामपीति वा ।। आये पक्षे तृतीये द्वौ चतुर्थे त्रय इत्यपि । एकोनाः प्रत्ययाः प्राप्ता गोत्रं यावतिथं ततः ।। यूनेभ्यस्तु द्वितीये स्युरनिष्टाः प्रत्ययास्ततः । आरब्धो नियमो गोत्रे यून्यथैवं समीक्ष्यताम् ।।
स्यादेतत् । द्वितीयपक्षेऽस्तु नाम नियमः। एकशब्दस्यानेका. थतया एक एव प्रथमः साधारण एव वा नतु द्वितीयादिरित्यर्थात् । उत्पादयितैवापत्येन युज्यते इत्येवंरूपे प्रथमपक्षे तु अपातवियर्थतया द्वितीयादेरपि प्रत्ययो दुर्वारः । सत्यम् । गोत्र
शब्द. तृतीय. 5.
Page #71
--------------------------------------------------------------------------
________________
६६
शब्दफौस्तुभे। बोधनीये क्रमेणानेकप्रत्ययप्रसङ्गे एक एवापत्यप्रत्ययः स्यादिति तस्मिन् पक्षे व्याख्येयम् । अपत्यग्रहणानुवृत्तेः । अस्मिन् पक्षे सामर्थ्यात् परम्परासम्बन्धाश्रयेण प्रत्यय इति सर्व सुस्थम् । अपगवः । गार्यः । नाडायनः ।
गोत्राचून्यस्त्रियाम् ॥ ९६ ॥ अन्यपत्ये विवक्षिते गोत्रप्रत्ययान्तादेव प्रत्ययः स्यान्न तुमूप्रकृत्यनन्तरयुवभ्यः । गाग्योयणः । अस्त्रियामिति योगो विभयते । यूनीतिशब्दाधिकारात् स्वरूपपरम् । परिभाषेयम् । यत्र गुवशब्दः श्रूयते तत्रास्त्रियामित्युपतिष्ठत इत्यर्थः । जीवति तु वश्ये युवा अस्त्रियामिति फलितार्थः । तेन स्त्रियां गोत्रत्वादेक एव प्रत्ययः । दाक्षी ॥
इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ॥
अत इञ् ॥ ९७ ॥ अपत्येऽर्थे । दाक्षिः । अतः किम् । शुभंयाः । तस्यापत्यं शभिय्यः । कथं तर्हि प्रदीयतां दाशरथाय मैथिली । शैषिकोऽण भविष्यति। अपत्यत्वरूपविशेषस्याविवक्षितत्वात् । ओ विष्णुः । तस्यापत्यमिः । व्यपदोशवद्भवादत इञ् । यूनि तु यत्रिमोश्चेति फक । यस्येतिलोपं बाधित्वा परत्वादादिवृद्धिः । आयनः ।
बाव्हादिभ्यश्च ॥ ९८ ॥ एभ्य इन्स्यादपत्ये । इह प्रायेणानकारान्तास्तेभ्योऽण् गतः । अजीगादिषदङ्कपर्यन्तेष्वदन्तत्वात् प्राप्तमिनं बाधित्वा ऋष्यन्धकेत्यण प्राप्तः । चूडाशब्दाव्यच इति ढक गतः। कृपलादिभ्यस्तनामिकाण प्राप्तः । पाहविरित्यादि ।
Page #72
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ६७ आकृतिगणोऽयम् । इह शिरमलोमन्शब्दौ पठ्यते । ताभ्यां सापत्तिदन्तग्रहणम् । अचिशीर्षः। हास्तिशीर्षिः। उडूनीव बराहप च लोमानि यस्य तस्यापत्यमौडलोमिः । शारलोमिः। बहुत्वे तु इनोऽपवादोऽकारः । उडुलोमा: । शरलोमाः । बान्हादिषु याः पुराणादिप्रसिद्धाः संज्ञास्ताभ्य एव प्रत्ययो बोध्यः। प्रसिद्धतरत्वेन प्रथमोपस्थिताभिस्ताभिरेव विधेर्निराकासत्वात् । यस्तु इदानींतनो बाहुस्तदपत्यं तु वाहव इत्येव । उक्तं च हरिणा। अभिव्यक्तपदार्था इत्यादि। अनर्थकं संदिग्धार्थकम् अप्रयुक्तं च क्रमेण विशेषणव्यावर्त्यम् । तदुक्तिषु तत्सदृशेष्वित्यर्थः । यतु बाध लोडने इति धातौ माधवेनोक्तं केवलस्य बाहोरपत्येनायोगात् सामर्थ्यात्तदन्तविधिः सौबाइविरिति । तचिन्त्यम् । जानन्ति बाहवीत्याश्वलायनसूत्रात् प्रकृतसूत्रे एवं बाहविरिति भाष्यवृत्त्यायुदाहरणाच बाहोः संज्ञात्वेन निर्णयात् ।।
सुधातुरकङ् च ॥ ९९ ॥ चादिन् । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालविम्बानां चेति वक्तव्यम् । वैयासकिः । वरुडादयो जातिविशेषाः । वारुडकिः। नैषादकिः। चाण्डालकिः । बैम्बकिः ॥
गोत्रे कुञ्जादिभ्यश्चफ्ञ् ॥ १००॥ कुञ्जस्य गोत्रापत्यं कौञ्जायन्यः । कौञ्जायन्यौ । कौञ्जायनाः । ब्राध्नायनाः । शाडायनाः । कुञ्जअध्रशन्देभ्यः फनि तदन्ताद्रातफोरिति स्वार्थे ज्यः तस्य तद्राजत्वादहुषु लुकि अन्तोदात्तार्थ चित्करणम् । तर्हि फगेवास्त्विति चेत् एवं हि वातफकोरिति वक्तव्यम् । तथा च नाडायनादिभ्योऽपि ज्यः स्यात् । ननु उफनाश्चत्वं ज्य.
Page #73
--------------------------------------------------------------------------
________________
६८
शब्दकौस्तुभे ।
विधौ विशेषकतया चरितार्थम् । अन्यथा अश्वादिभ्यः फन् । आश्वायनः । अत्रापि ज्यः स्यात् । नित्वं तु वृद्ध्या चरितार्थम् । विशेषणमात्रे उद्देश्येऽनुबन्धान्तरमेवासजेदिति तु बकारेऽपि तु. ल्यम् । वृद्धिमात्रे झुद्देशे ककारमेवासजेत । एवं च चकारबकारयोस्तुल्यबलत्वेऽपि परत्वान्नित्स्वरेणाद्युदात्तः प्राप्नोति । अत्र भाष्यम् । स्वरे योगविभागः क्रियते । चितः । अन्त उदात्तः स्यात् । तद्धितस्य । चितस्तद्धितस्य प्राग्वत् । परमपि बि. त्स्वरं बाधितुमिदम् । कौञ्जायनाः । ततः कितः । कितस्तद्धितस्यान्त उदात्तः स्यादिति । यदि तु फक्प्रत्ययः क्रियते तदा शक्यो योगविभागोऽकर्तुम् ।। __ स्यादेतत् । गोत्रे कुञ्जादिभ्यश्वम् । बहुषु फगिति पठित्वा ततो नडादिभ्य इति क्रियताम् । मैवम् । गोत्रबहुत्बे यूनश्वाबहुत्वे कौञ्जायन्यः कोजायन्यावित्यत्र यकारदर्लिभ्यापत्तेः । वैपरीत्ये कौञ्जायना इत्यत्र यकारापत्तेश्च । सिद्धान्ते तु यूनीनो रायक्षत्रियेति लुकि व्यस्य बढोपसंक्रमे लुम् । अन्यथा तु गोत्रेऽलुगचीत्यलुगिति सर्व सुस्थम् । वार्तिककारस्त्वाह । अपत्यं वा गोत्रम् । मूलपकृतेश्वापत्यः । आपत्याजीवदंशात्स्वार्थे द्वितीयो युवसंज्ञः । स चास्त्रियाम् । एकोगोत्रग्रहणानर्थक्यश्च बहुवचनलोपिषु च सिद्धमिति । अपत्यस्येदमापत्यं पौत्रप्रभृत्यपत्यं तद् गोत्रसंज्ञम् । आपत्यः प्रत्ययो गर्गादेरेव नानन्तरगोत्रयुवभ्यः । पौत्रादेरपत्ये चतुर्थादौ जीवदश्ये प्रतिपाद्ये मूलप्रकृतेरेव गर्गाद् द्वौ प्रत्ययौ। तत्र द्वितीयः स्वार्थिक इत्यर्थः । एवं च सूत्रमते गाायण इत्यत्र गर्गो गाग्र्ये विशेषणं चतुर्थे तु तृतीयः । वार्तिकमते तु गर्ग एव चतुर्थविशेषणम् । आन्तरालिको तु संसर्गघटकाविति विवेकः । ए
Page #74
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ भाहिकम् ।
तस्मिन् पक्षे फवं कृत्वा बहुषु तदपवादः फगपि सुकरः । युवबहुत्वे यून्येव प्रत्ययद्वयोत्पादेन यकारश्रवणापत्तेरभावात् । अबहुत्वे च फकोऽनुत्पत्या यकारसिद्धः ।
नडादिभ्यः फक् ॥ १.१ ॥ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः। नड । चर । बक। मुञ्ज । इतिक । इतिश । उपक । लमक । शलङ्क शलकश्च । शलङ्कोर्गोत्रापत्यं शालङ्कायनः । पैलादिषु शालकिशब्दः पठ्यते शालङ्किः पिता पुत्रश्चेति यथा स्यात् । तत्र पैलादिपाठसामर्थ्याच्छलङ्कादेशः । इन्न । बाहादेराकृतिगण. स्वाद्वा । एवं फगिबोगोत्रे विकल्पः स चैच्छिकः । वृत्तिका. रास्तु कौशिकगोत्र एव फक् अन्यत्रेषिति व्यवस्थेष्यत इत्याहुः । अग्निशमन्वृषगणे । आग्निशर्मायणो वार्षगण्यश्चेत् । आमिशर्मोऽन्यः । कृष्णरणौ ब्राह्मणवासिष्ठौ । कार्णायनो प्रा. मणश्चेत् । काणिरन्यः । राणायनो वासिष्ठश्चेत् । राणिरन्यः। क्रोष्टु क्रोष्टश्च । क्रौष्टायनः । अमुष्यति पठ्यते निपातनादलुक् । आमुष्यायणः । लिगु । अश्वल । द्वीप । शकट । मिमत । उदुम्बर । इत्यादि ।
हरितादिभ्योऽञः ॥ १०२ ॥ अवन्तेभ्य एभ्योऽपत्ये फगिति दृचिकाराः । वस्तुतो व्यधिकरणे पञ्चम्यौ । हरितादिभ्यो विहितः परो वा यो गोत्रे ऽ तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात् षष्ठयन्तात् फक् स्यात् । स चार्थाङ्न्येव । गोत्रेऽपत्यप्रत्ययद्वयायोगात् । अत एवोत्तरार्थमनुवृत्तस्यापि गोत्रग्रहणस्येहाना सम्बन्धो नतु फकेति तत्वम् । इयोऽपवादोऽयम् । हरितादिर्बिदाधन्तर्गणः हारितायनः॥
Page #75
--------------------------------------------------------------------------
________________
शब्द कौस्तुभे ।
यञिञोश्च ॥ १०३ ॥
गोत्रे यौ यत्रिवौ तदन्ताद्यूनि फक् स्यात् । गाग्यायणः । दाक्षायणः । गोत्रे किम् । द्वीपादनुसमुद्रं यञ् । द्वैप्यः । सुतङ्गमादिभ्य इञ् । सौतङ्गमिः । तदपत्ये मा भूत् ।
शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ १०४ ॥
एभ्यो गोत्रे फक् स्यात् यथासंख्यमेषु । शरद्वदादीनां भृग्वादिवंशप्रभवा दत्रिमा अपि पुत्राः सन्ति स्ववंशप्रभवा अपि । अतो विशेषणम् । तत्र भृगुः शरद्वतोऽपत्यं न भवति । पूर्वभावित्वात् । एवं शुनकस्य वत्सः । तस्माद् भार्गवश्च वात्स्यश्चाप्रायणश्चेति द्वन्द्वे अत्रिभृग्विति यञञोरिति च लुक् । लोप्यलोपिनां द्वन्द्वे हि वैकल्पिकोऽयम् । अत एव निर्देशादगार्ग्यत्यादेश्चेत्युक्तम् । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । aौनकायनो वात्स्यवेत् । शौनकोऽन्यः । दार्भायण आप्रापणचेत् । दार्भिरन्यः । शरद्वच्छुनको बिदादी । ताभ्यामअपबादः फक् ।
द्रोणपर्वत जीवन्तादन्यतरस्याम् ॥ १०५ ॥
एभ्यो गोत्रे फग्वा स्यादिञोऽपवादः । द्रौणायनः । द्रौणिः । पार्वतायनः । पार्वतिः | जैवन्तायनः । जैवन्तिः । कथं तर्हश्वत्थामा द्रौणायनिरिति । अनन्तरे स्वयम् । सत्य -- म् | आरोपाद् भविष्यति ।
अनुष्यानन्तर्ये बिदादिभ्योऽञ् ॥ १०६ ॥
एभ्योऽञ् स्याद् गोत्रे ये त्वत्रानृषयस्तेभ्य आनन्तर्ये । अवृषीति पञ्चम्याः सौत्रो लुक् । आनन्तर्ये इंति स्वार्थे ष्यन् ।
Page #76
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । बिदस्य गोत्रं पैदः । अनन्तरो वैदिः । बाहादेराकृतिमा स्वादि । पुत्रस्यापत्यं पौत्रः। बिद । उर्व । कश्यए कुक्ष भरद्वाज । उपमन्यु । विश्वानर । ऋष्टिषण । ऋतभाग ! हे श्व । प्रियक । आपस्तम्ब । शरद्वत् । शुनक ! ! एव हरित । गविष्ठिर । निषाद । मठर । पृदाक । पुनभु ! पुत्र दुहितृ । ननान्दृ । परस्त्री परशुश्च । आपद्यत इति शपः । पर स्त्रिया अपत्यं पारशवः । ब्राह्मणाच्छूद्रायां तनवाढायामुत्पर सा च जात्यन्तरयोगात् परस्त्री । यस्तु परभायायामुत्पन्नः मा पारस्त्रैणयः । कल्याण्यादिरनुशतिकादिश्व । न चैवं पारशवेऽपि स्थानिवद्भावादनुशतिकादिकार्य स्यादिति वाच्यम् । पूर्वोत्तरपदसम्ममोहात् । नहीइ एतावान् पूर्वपदस्यादेश इति विभागोऽवगम्यते ।
गर्गादिभ्यो यञ् ॥ १०७ ॥ गोत्र इत्येव । गार्यः । मनुतन्तुशब्दोऽत्र पठ्यते । समुदाय एका प्रकृतिः । न तु प्रकृतिद्वयम् । तथा च वच. ब्राह्मणम् । मानुतन्तव्यमुवाचेति । केचित्तु प्रकृतिद्वयं मन्यन्ते । कथं तर्हि मानवी मजेति । लोहितादिपाठद्धि नित्येन ष्फेण भाव्यम् । सत्यम् । अपत्यसामान्येऽण भविष्यति । अथ कथं रामो जामदग्न्यः अर्जुनः कार्तवीर्यः व्यासः पाराशर्यः अनन्तरा ते सत्यम् । अनन्तरेऽपि गोत्रत्वारोपो बोध्यः । जामदग्न्या वात्सा इति प्रवराध्यायप्रयोगस्तु गोत्रस्याप्यनन्तरापत्यत्वविवक्षायामृष्यणि द्रष्टव्यः । गर्ग । वत्स । वाजासे । वाजशब्दो यसमुत्पादयति असेऽसमासे । समासे तु सौवाजिः । ग्रहणबतेत्यस्यानित्यत्वं ज्ञापयितुमसे इति । तेनानुपसर्जनादित्यस्य
Page #77
--------------------------------------------------------------------------
________________
७२
शब्दकौस्तुभे ।
प्रत्याख्यानपक्षेऽपि तदन्तविधिर्लभ्यते । संकृति । अज । व्याघ्रपात् । बिदभृत् । प्राचीनयोग । पुलस्ति । वलस्ति । रेभ । अग्निवेश । शङ्ख। शरधूम । अवट । नमस् । धनञ्जय । वृक्ष । विश्वावसु । जरमाण । लोहित । संशिव । बभ्रु । मण्डु। जिगीषु । मनुतन्तु । तण्ड । वतण्ड । कपिकत । कुरुकत । अनडुह । शकल । कण्व । गोकक्ष्य । अगस्त्य । कुण्डिनी । यज्ञवल्क । अभयजात । विरोहित । वृषगण । रहगण । शण्डिल । मुद्गल । सुरस । पराशर । जातूकर्ण । मन्त्रित । अश्मरथ। शर्कराक्ष । पूतिमाष । स्थार । आरक । पिङ्गल। उलूक । देव. हू । एकल । बृहदग्नि । जमदग्नीत्यादि ।
मधुबभ्रोर्ब्राह्मणकौशिकयोः ॥ १०८॥ गोत्रे यञ् स्यात् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् । बाभ्रवोऽन्यः । बभ्रोर्गर्गादित्वात्सिद्ध कौशिक एवेति नियमार्थ वचनम् । गर्गादिपाठस्तु लोहितादिकार्यार्थः । बाभ्रव्यायणी । गण एव बभ्रुः कौशिक इति तु लाघवार्थ वक्तुं युक्तम् ।
कपिबोधादाङ्गिरसे ॥ १०९ ॥ काप्यः । बौध्यः । आङ्गिरसे किम् । कापेयः । इतश्चानिन इति ढक् । बौधिः । अनृषित्वादिञ् । बाहादित्वाद्वा । कपेगा. दित्वात् प्राप्ते आङ्गिरस एवेति नियमार्थ सूत्रम् । गणपाठस्तु लोहितादिकार्यार्थः । काप्यायनी ।
वतण्डाच ॥ ११० ॥ आङ्गिरस इत्येव । वातण्ड्यः । अस्य शिवादौ गर्गादौ च
Page #78
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ७३ च पाठायणौ प्राप्तौ तत्र यवेति नियम्यते । अनागिरसे तु द्वावपि स्तः । वातण्डः । वातण्ड्यः ।
लुक् स्त्रियाम् ॥ १११ ॥ वतण्डाययो लुक् स्यात् स्त्रियामाङ्गिरसे गोत्रे । शाहरवादिषु पाठगन्डीन् । वतण्डी । अनाङ्गिरसे किम् । वातण्डयायनी । लोहितादित्वात् फः । शिवायणि तु वातण्डी । क. षित्वात्ष्यङ् न ।
अश्वादिभ्यः फञ् ॥ ११२ ॥ अश्वादिभ्यः फ स्याद्गोत्रे । आशिरसे इति निवत्तम् । आश्वायनः । अश्व । अश्मन् श्यामेत्यादि । इह गोत्रप्रत्ययान्तात्रयः पठ्यन्ते । बैल्य । आनडुह्य । आत्रेय इति बलिर्नाम राजर्षिः । ततो वृद्धत्कोसलेति ज्यङ् । आनडुह्यशब्दो गर्गादियवन्तः । आत्रेयशब्दो ढगन्तः । ततः साम
•यूनि फञ् । नहि युवानं विनापत्यप्रत्ययद्वयं लब्धुं शक्यते । शप आत्रेये । शापायनः । आत्रेयादन्यस्तु शापिः । अनृषित्वादण न । बाहादित्वाद्वा । अन्ये त्वणं प्रत्युदाहरन्ति । पुंसि जाते । पुंसीति प्रकृतिविशेषणम् । जातस्यापत्यं जातायनः । पुंसीति किम् । जाताया अपत्यं जातेयः । लिङ्गविशिष्टपरिभाषया प्राप्तः फञ् न भवति । आत्रेयभारद्वाजे । आत्रेयायणो भारद्वाजश्वेत् । अन्यत्रात इनो ण्यक्षत्रियेति लुक् । भरद्वाजात्रिये । अत्रिगोत्रजो यदा भरद्वाजगोत्रजेन स्वीक्रियते तदा फक् । भारद्वाजायनः । अन्यस्तु भारद्वाजः । बिदाघञ् ।
___ भर्गात्रैर्गते ॥ ११३॥ भार्गायणः । गर्तश्चेत् । भागिरन्यः ।
Page #79
--------------------------------------------------------------------------
________________
७४
शब्दकौस्तुभे। __ शिवादिभ्योऽण् ॥ ११४ ॥ गोत्र इति निवृत्तम् । इतः प्रभृत्यपत्यसामान्ये प्रत्यय इति वृत्तिकारः कैयटादयश्च । यूनि लुकमुत्रे तु राजन्याद् बुञ् मनुप्याच्च ज्ञापकं लौकिकं परमिति भाष्यस्य तत्रत्यकैयटस्य च पर्यालोचनया गोत्रसंज्ञासूत्रपर्यन्तमयं गोत्राधिकार इाते ल. भ्यत । तदिह ग्रन्थानां विरोधे उद्धारोऽन्वेषणीयः मूरिभिः । शिवादिभ्योऽरा स्यात् । प्रायेणेमेऽदन्ताः । तेभ्योऽत इञ् प्राप्तः । तक्षशब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिबं बाधि. तुम् । रायस्य बाधा तु नेष्यत इति वृत्तिः । अत्रोपपत्तिमुदी. चामिति सूत्रे वृत्तिकार एवाह । इजित्युक्तं वचनसामाण्ये. नौ सिद्धौ उदीचां ग्रहणन्तु वैचित्र्यार्थम् । शिवायणायमिव बाध्यतां न तु ण्योऽपीति । ताक्ष्णः । ताक्षण्यः । वार्तिककारस्तु उदीचामिसूत्रे तक्ष्णोण्यचनं कृतवान् सर्वथा ण्याणभ्यां रूपद्वयं निर्विवादम् । यत्तु षपूर्वहन्धृतराज्ञामणीति सूत्रे हरदत्तेनोक्तम् । ताक्ष्णः । तस्येदमित्यण ! नत्वपत्ये कारिलक्षणेन ण्ये बाधितत्वादिति तदिहत्यभाष्यत्तिस्वग्रन्थविस्मरणमूलकम् । गङ्गाशब्दः पठ्यते । गाङ्गः। पक्षे तिकादित्वात्फिञ् । शुभ्रादित्वाड्ढक् च । गाङ्गायनिः । गाङ्गेयः । विपाटशब्दः पठ्यते । कुञ्जादिलक्षणेन फबा समावेशार्थम् । वैपाशः । वैपाशायन्यः । जरत्कारुशब्दः पठ्यते । तत्र शुभ्रादिढका समावेशावरूप्यं जारकारवः । जारत्कारेयः । विश्रवणरवणशब्दौ पठ्यते । विश्रवःशब्दस्यादेशौ प्रकृत्यन्तरमेव वा वृत्तिविषये तत्समानार्थे । वैश्रवणः । रावणः । यचो नद्याः। नदीवाचिनो ये बचकाः कुल्याप्रभृतयस्तेभ्यस्तनामिकाणं बाधित्वा बच इति ढकि प्राप्तेऽण् भवतीत्यर्थः । त्रिवेणी त्रिवेणं च ।
Page #80
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
७५ त्रिवेण्या अपत्यं त्रैवेणः । तन्नामिकाणि सिद्धे आदेशार्थ वचनम् । भूमिप्रभृतिभ्य इतश्वानित्र इति ढक् प्राप्तः । इलाप्रभृतिभ्यो स्त्रीभ्यो ढक् प्राप्त इति दिक् । स्यादेतत् । अण्ग्रहणं माऽस्तु | वचनसामर्थ्यादिनादिभिर्वाधितुमारब्धो ऽणेव प्रसोध्यते । मैवम् । ऋषिषेणशब्दोऽत्र पठ्यते । तस्मादत इब् प्राप्तः । स एव सेनान्तलक्षणेन येन परत्वाद्वाधितुमारब्धोsनेन सूत्रेण प्रतिप्रसूयेत । तस्माद्यथान्यासमेवास्तु |
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११५ ॥
अवृद्धशब्दोपस्थितास्तन्नामिकाच या नदीमानुष्यस्ताभ्यो ऽण् स्यात् । अवृद्धेभ्यो नदीमानुषीनामभ्य इति फलितार्थः । ढोऽपवादः । यमुनाया अपत्यं यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम् । वासवदत्तेयः । नदीत्यादि किम् । वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ।
1
ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११६ ॥
1
एभ्योऽरा स्यात् । ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः । श्वाफल्कः । हृष्णिभ्यः । वासुदेवः । आनिरुद्धः । शौरिः । श्रीपतिरिति तु वाह्वादित्वात् । कुरुभ्यः । नाकुलः । साहदेवः । इञ एवायमपवादः । मध्येऽपवादन्यायात् । अत्रिशब्दात् परत्वाड्ढक् । आत्रेयः । ण्योऽपि परत्वाद्बाधक एवेति वक्ष्यते ।
1
मातुरुत्संख्यासम्भद्रपूर्वायाः ॥ ११७ ॥
संख्यादिपूर्वस्य मातृशब्दस्य उदादेशः स्यादण्प्रत्ययश्च ।
Page #81
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
उत्सर्गसिद्धमणमनूध तत्सन्नियोगेनादेशमात्रं विधीयते । पूर्वस्येति वाच्ये स्त्रीलिङ्गनिर्देशोऽर्थगतं स्त्रीत्वमारोप्य । आरोप्यफलं तु जननीवाचिन एवं ग्रहणं यथा स्यादित्याहुः । अभिव्यक्तपदार्था इत्यनेन सिद्धस्यापि स्पष्टीकरणं फलमिति भावः । द्वैमातुरः । सांमातुरः । भाद्रमातुरः । संख्येत्यादि किम् । सौमात्रः । केवलातु न भविष्यति । अव्यभिचारेणापत्यं प्रत्य. विशेषकत्वादित्याहुः । अयोनिजव्यावर्तकता वास्तु ।
__कन्यायाः कनीन च ॥ ११८ ॥
ढकोऽपवादोऽरा स्यात् तत्सनियोगेन कनीनादेशश्च । का. नीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः।
विकर्णशुङ्गछगलाद्वत्सभरद्वाजात्रिषु ॥ ११९ ॥
वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द्वः । बहुत्वस्य लोपिभिरेव कृतत्वान्नित्यं लुक् । न तु वत्सादीनामेव द्वन्द्वः । मूलप्रकृत्यर्थानां विकर्णादीन्प्रत्यपत्वाभावात् । वैकर्णः । वात्स्यश्वेत् । वैकर्णिरन्यः । शौङ्गः । भारद्वाजश्वेत् । शौगिरन्यः । छागलः । आत्रेयश्चेत् । छागलिरन्यः । केचित्तु सूत्रे शुक्राशब्दं टावन्तं पठन्तः शौङ्गेय इति प्रत्युदाहरन्ति । पाठद्वयमपि प्रामाणिकमिति वृत्तिकाराः।
पीलाया वा ॥ १२० ॥ तनामिकाणं बाधित्वा घच इति ढाक प्राप्ते पक्षेऽण् वि. धीयते । पीलाया अपत्यं पैलः । पैलेयः ।
ढक् च मण्डकात् ॥ १२१ ॥ मण्डूकाड्ढगणौ वा स्तः पक्षे इत्र । तेन त्रैरूप्यम् । माण्डूकेयः। माण्डूकः । माण्डूकिः ।
Page #82
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
१७
स्त्रीभ्यो ढक् ॥ १२२ ॥ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । स्त्रीशब्द इह स्वर्यते तेन स्च्यधिकारोऽवगम्यते । सोऽपि चातुर्थिक एव । सन्निधानान तु तार्तीयिकः । विप्रकर्षात् । स्यर्थग्रहणाभावानेह । ऐडविडः । दारदः । इडविड्शब्दाजनपदशब्दात्क्षत्रियाञ् । दरच्छन्दायमगधेत्यण् । तयोः स्त्रियामतश्चेति लुक् । तदन्तादपत्येऽणेव न तु ढक् । कथं ज्ञातेयं कुरु सौमित्रे भयाप्रायस्व राघवमिति भट्टिः । बाहादिषु सुमित्राशब्दो बोध्यः । कथं सापत्नो भ्राता शिवाद्यण् इति दुर्घटत्तिः । अत्र भाष्ये । वडवाया दृषे वाच्येऽण् कुश्चा कोकिला स्मृतः । आरक् पुंसि ततोऽन्यत्र गोधाया दुविधौ स्मृत इति । वृषो बीजाश्वः । तेन चार्थेन विशेषविहितेनापत्यलक्षणोर्थो ढको बाध्यते । तेनापत्ये वाडव इति भवतीति कैयटः । चतुष्पाल्लक्षणस्तु ढब् न भवति । अचतुष्पाजातिवाचित्वादिति हरदत्तः । वडवा ब्राह्मणी। वडवा कुम्भदास्यश्वाः स्त्रीविशेषा द्विजन्मनामिति रभसः । अश्वे तु ढम् भवत्येव । वाडवेयः । क्रौश्चः कौकिलः । अपत्य एवायं ढगपवादोऽश् । क्रुश्चाकोकिलादिति समाहारद्वन्द्वे नपुंसकइस्वः । ततोन्यत्रारक् स्यात् पुंसि । मूषिकायाः पुमान् मौषिकारः । मृग्याः पुमान्मार्गारः । गोधायाः पुमान् गौधेरः । गोधाया ढक्ढगारकस्त्रयो वक्ष्यन्ते तत्र इग्विधौ पुंसीत्येवं रूपो ऽर्थः स्मृतः । अपत्यरूपोऽर्थस्तु त्रिवपि ।
यचः ॥ १२३ ॥ बचः स्त्रीप्रत्ययान्तादपत्ये ढक् स्यात् । तन्नामिकाणोऽपवा. दः । दात्तेयः । कथं पार्थः । तस्येदमित्यण शिवाधण्वा ।
Page #83
--------------------------------------------------------------------------
________________
शब्द कौस्तुभे ।
I
इतश्चानिञः ॥ १२४ ॥ इकारान्ताद्व्यचोऽपत्ये ढक् स्यान्न त्विजन्तात् । दौलेयः । नैधेयः । परत्वादयमृष्यणं बाधते । आत्रेयः । द्व्यचः किम् | मरीचेमारीच इति काशिका | तच्चिन्त्यम् । बाह्वादित्वेनेज्यसङ्गात् । तथा च मिदचोन्त्यात्पर इति सूत्रे भाष्यं मरीचिशब्दो बाह्वादिषु पठ्यते इति तस्मादुदधेरौदध इत्यादि प्रत्युदाहरणान्तरं बोध्यम् । अनिञः किम् । दाक्षायणः ।
७८
शुभ्रादिभ्यश्च ॥ १२५ ॥
I
एभ्यो ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । इहादन्तेष्विञ् प्राप्तः । शलादिषु तन्नामिकान् । विधवाशब्दात् क्षुद्रालक्षणो ढुक् । चतुष्पाद्वाचिषु ढञ् । गोधाशब्दाइढक् । वचनात्तु सोऽपि भवति । कचिदौत्सर्गिकाण प्राप्तः । पाण्डवेयः । उलोपस्तु न भवति । कद्रूपर्युदासेन स्त्रीलिङ्गस्यैव लोपविधौ ग्रहणादिति केचित् । एवन्तु मार्कण्डेयो न स्यात् तस्मात् पाण्डवशब्दात् पाण्डवेय बोध्यः । केचित्तु मृकण्ड शब्दमदन्तं पठन्ति । मृगय्वादयश्चेतिसूत्रे उज्वलदत्तोऽप्येवम् । मृकण्डस्य मुनेस्तीर्थे तयास्यामथ निर्मलमिति काशीखण्डे । अस्मिन् पक्षे पर्युदासेऽपि सिद्धम् । विमातृशब्दादप्यौत्सर्गिकोऽण् प्राप्तः । वैमात्रेयः । एवं लैरवाभ्रेयः । लक्षणश्यामयोर्वासिष्ठे । लाक्षणेयः । वासिष्ठ - श्वेत् । लाक्षणिरन्यः । श्यामेयो वासिष्ठः । श्यामायनोऽन्यः । अश्वादित्वात्फञ् । आकृतिगणोऽयम् ।
विकर्णकुषितकात्काश्यपे ॥ १२६ ॥
वैकर्णेयः । कौषीतकेयः । काश्यपे किम् । वैकाणिः । कौषीतकिः ।
Page #84
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
भ्रुवो वुक् च ॥ १२७ ॥ भ्रौवेयः ।
कल्याणादीनामिनङ् ॥ १२८ ॥ एषामिनङादेशः स्यात् ढक् च । इह स्त्रीप्रत्ययान्तानामादेशार्थ ग्रहणम् । प्रत्ययस्य सिद्धत्वात् । अन्येषां तूभयार्थम् । काल्याणिनेयः । सौभागिनेयः । दौ गिनेयः । हृद्भगासवन्त इन्युभयपदवृद्धिः । कल्याणी | सुभगा । दुर्भगा । बन्धकी । अनुसृष्टि । जरती । बाला । वृद्धा । ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री।
कुलटाया वा ॥ १२९॥ पूर्वेण सिद्धो ढक् इनङ्मात्रं विकल्प्यते । कौलटिनेयः । कौलटेयः । सती भिक्षुक्यत्र कुलटा । या हि व्यभिचारार्थ कुलान्यटति तस्या ग्रहणं नेष्यते । किन्तु तत्र क्षुद्राभ्यो वेति पक्षे दूक । तेन कौलटेर इति द्वितीयं रूपम् । उक्तं चामरसिंहेन अथ बान्धकिनेयः स्यादन्धुलश्चासतीसुतः । कोलटेरः कोलेटेयो भि. क्षुकी तु सती यदि । तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मज इति । केचित्तु क्षुद्राया अपीनङा तृतीयं रूपमाहुः । वृत्तौ तु क्षुद्राभ्यः परत्वादागित्युक्तम् । तच्चिन्त्यम् । तस्य वै. कल्पिकतया पाक्षिकस्य ढकस्त्वयाप्यभ्युपगमाच । तत्र पक्षे इनङो दुर्वारत्वात् ।
चटकाया ऐरक् ॥ १३० ॥ अत्र वार्तिकम् । चटकायाः पुंलिङ्गनिर्देश इति । लिङ्गविशिष्टपरिभाषया स्त्रिया अपि भवति । चटकस्य चटकाया वा
Page #85
--------------------------------------------------------------------------
________________
८०
शब्दकौस्तुभे।
अपत्यं चाटकरः । स्त्रियामपत्ये लुग्वक्तव्यः । तयोरेव स्त्र्यपत्यं चटका । टावन्तात्तद्धिते लुप्ते लुक्तद्धितलुकीति टापो लुकि पुनरजादिलक्षणष्टाप् । स हि जातिलक्षणस्य डीपो बाधक एव । यविह न्यासकृतोक्तम् । चटकादैरगित्येव सांप्रदायिकः मूत्रपाठ इति । तद्वार्तिकविरुद्धम् ।।
गोधाया ठुक् ।। १३१ ॥ गौधेरः । शुभ्रादित्वात् पक्षे ढक् । गोधयः ।
आरगुदीचाम् ॥ १३२ ॥ गौधारः । उदीचांग्रहणं पूजार्थम् । वचनादेव ढक्द्गारका पर्यायसिद्धेः । रका सिद्ध आकारोच्चारणमन्यतो विधानार्थम् । जाडारः । पाण्डारः । जल घातने । डलयोरभेदाज्जडः । पडि गतौ । पण्डः । जडस्य पडस्य चापत्यमिति विग्रहः । एतच्च माधवीयधातुवृत्तौ स्पष्टम् । हस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः।
क्षुद्राभ्यो वा ॥ १३३ ॥ अङ्गहीनाः शीलहीनाश्च क्षुद्रास्तदभिधायिभ्यो दक् वा स्यात् ढकोऽपवादः । काणेरः । काणेयः । दासेरः । दासेयः ।
पितृष्वसुश्छण् ॥ १३४॥ अणोऽपवादः । पैतृष्वतीयः ।
ढकि लोपः ॥ १३५ ॥ पितृष्वसुरन्तलोपः स्याइहाकि । पैतृष्वसेयः। अत एव शापकाड्ढक् ।
Page #86
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ८१
मातृष्वसुश्च ॥ १३६ ॥ पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ।
चतुष्पादभ्यो ढञ् ॥ १३७ ॥ एभ्योऽपत्ये ढञ् । एभ्योऽपत्ये ढमस्यात् । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाद्विशेषे । एवं शितिबाहुशब्दोऽपि। शैतिवाहयः । जम्बुः सृगालः । जाम्बेयः । जम्बूशब्दात् स्त्रीभ्यो ढक् प्राप्तः परत्वाड्ढवा बाध्यत इति ऋष्यन्धकेति सूत्रे भाष्यम् । तत्रैव तच्चिन्त्यमिति कैयटः । तस्यायं भावः । अन्दृहन्भू इत्यादिना निपातनाज्जम्बूशब्द ऊदन्तः । न त्वसौ स्त्रीप्रत्य. यान्तः । येन ढक् प्राप्नुयात् । न चाप्राणिजातेरित्यू सुलभः प्राणिजातित्वात् । अकुत इति तु न । दीर्घान्तत्वात् । इस्त्रा न्तत्वेऽपि मनुष्यजातित्वाभावाचेति ।
गृष्ट्यादिभ्यश्च ॥ १३८ ॥ एभ्यो ढस्यादण्ढकोरपवादः । गार्टेयः । गृष्टि। हृष्टि । हलि। वलि । विशि । कुद्रि । अजवस्ति । मित्रयु । इहान्त्ययोयोषि. त्वादण् प्राप्तः । अन्येभ्यस्तु इतश्चानिब इति ढक् प्राप्तः । गृष्टिः सकृत्प्रसूता गौरिति पूर्वसूत्रेणैव सिद्धमिति चेत् । अत्राहुः । कोशे गारिति मायोवादः । सकृत्प्रसूता सर्वापि पृष्टिः । अतश्चतुष्पाच्छन्दत्वाभावादयमारम्भ इति । वस्तुतस्तु गृष्टिभन्दः शु. भ्रादिः। तथाचान्तोदात्तं ढगन्तं प्रयुज्यते। सङ्गार्टेयो वृषभो गोभिरानडिति । अतः पाक्षिकाद्युदात्तार्थमिह सूत्रे गृष्टिशब्दग्रहणम् ।
राजश्वशुराद्यत् ॥ १३९॥ यथाक्रममणिोरपवादः । राजन्यः । श्वशुर्यः । अत्र ।
शब्द. तृतीय. 6.
Page #87
--------------------------------------------------------------------------
________________
८२
शब्दकौस्तुभे ।
वार्तिकम् । राझेोऽपत्ये जातिग्रहणमिति । प्रकृतिसमुदायेन जातिश्चेद्वाच्येत्यर्थः प्रत्ययस्त्वपत्य एव । ये चाभावकर्मणोरिति प्रकृतिभावः । जातिग्रहणं किम् । वैश्याशुद्रयोरुत्पन्नो राजन एव । अन्निति प्रकृतिभावः ।
क्षताद घः ॥ १४० ॥
क्षत्रियः । जातावित्येव । क्षात्रिरन्यः । प्रत्ययविधौ सर्वत्र घ इति स्वरूपस्य ग्रहणं न तु तरप्तमपोः । आयनादिसूत्रेण घस्येयादेशविधानाज्ज्ञापकात् । न चादेशोऽपि तयोरेवेति वा - च्यम् । प्रत्ययादेरिति विशेषणात् । ननु किमिदभ्यामिति चकारस्य तौ स्ताम् । तयोश्श्रेय् अस्तु । मैवम् । एवं हि । किमिदंभ्यां व इयित्येव ब्रूयात् । न च घन्धचावियो ऽवकाशः । तत्रापि ङमुड्वत् संज्ञाया एव सानुबन्धतापत्तेः ।
कुलात् खः ॥ १४१ ॥
कुलीनः । तदन्तविधिरिष्यते । उत्तरसूत्रे पूर्वपदादिति लिङ्गात् ।
अपूर्वपदादन्यतरस्यां यड्ढक्ञौ ॥ १४२ ॥
कुलादित्येव । पक्षे रषः । कुल्यः । कौलेयकः । कुलीनः । पदग्रहणं किम् | बहुकुल्यः । बाहुकुलेयकः । बहुकुलीनः । 1 महाकुलादञ्खञौ ॥१४३॥
अन्यतरस्यामित्यनुवर्त्तते । पक्षे खः । माहाकुलः । मांहाकुलीनः । महाकुलीनः ।
दुष्कुलाडूढक् ॥ १४४ ॥
पूर्ववत्पक्षे खः । दौष्कुलेयः । दुष्कुलीनः ॥
Page #88
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
स्वसुश्छः ।। १४५॥ स्वस्त्रीयः।
भ्रातुर्व्यच्च ॥ १४६॥ चाच्छः । अणोऽपवादः । भ्रातृव्यः । भ्रात्रीयः ।
व्यन्सपत्ने ॥ १४७॥ सपनशब्दः शत्रुपर्यायः । अव्युत्पन्नमातिपदिकम् । यद्वा । सपत्रीशब्दादिवार्येऽकारो निपात्यते । सपनीव सपनः । अत एवं येनः सपना अयते भवन्त्वित्यत्र सपना इत्यवग्रहः पठ्यते । कथं तर्हि मध्योदात्ततेति चेत् इवार्थेऽल् भविष्यति । लित्स्वराचेष्टसिद्धिः । प्रकृतमनुसरामः । भ्रातुर्व्यन्स्यादपत्येऽर्थे प्रकृतिप्रत्य. यसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । कथं तर्हि । पाप्मना भ्रातृव्येणेति । न ह्यत्रावयवार्थोऽस्तीति चेत् । अत्र भा. ष्यम् । भ्रातृव्य इव भ्रातृव्य इति । वृत्तिकारस्तु इहापत्यग्रहणं न सम्बध्यते । अनर्थकावेव प्रकृतिप्रत्ययौ । समुदायार्थः पर सपन इत्याह ।
रेवत्यादिभ्यष्ठक् ॥१४८॥ रैवतिकः । रेवतीशब्दो डीबन्तः । अश्वमणिद्वारोपपदात्पालयतेः कर्मरायणि डीप । एषु चतुषु ढक् प्राप्तः । वञ्चू प्रलम्भने । अस्माद्वकोपपदात् कर्तर्युपमान इति णिनिः । अस्मादण् प्रा. तः । कवर्णदण्डोपपदाद् ग्रहः कर्मरायण् । कुक्कुटस्येवाक्षिणी अस्य कुक्कुटाक्षः । एविञ् प्राप्तः। रेवती । अश्वपाली । मणिपा. ली । द्वारपाली । कवची । वृकग्राह । वर्णग्राह । दण्डग्राह । कुक्कुटाक्ष ।
Page #89
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
गोत्र स्त्रियाः कुत्सने ण च ॥ १४९ ॥
गोत्रं या स्त्री तदभिधायिनः शब्दाण्णठकौ स्तः । सामर्थ्याद्यून्यपत्ये कुत्सार्या पितुरसंविज्ञाने मात्रा व्यपदेशात् कुत्सा | गाय अपत्यं गार्गो गार्गिको वा जाल्मः । पुंवद्भावाद् गार्ग्यशब्दाण्णठकोः कृतयोः यस्येति च आपत्यस्य च तद्धिते इत्यल्लोपयलोपौ । यद्यपी प्रकृतेर्वृद्धत्वाण्णस्य णित्वं नोपयुज्यते । तथापि ग्लुचुकायन्या अपत्यं ग्लौचुकायन इत्यत्र दृध्यर्थं तsोध्यम् । गोत्रेति किम् । कारिकेयः । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । इह केनचिदोषेणौपगवस्य निन्दितत्वात्तदपत्येऽपि कुत्सा बोध्या । कुत्सने किम् । गार्गेयः । मातामहादेललयतः प्रयोगोऽयमिति नास्ति कुत्सा | स्त्रीभ्यो
।
८४
ढगिति ढक् ।
वृद्धाद ठक् सौवीरेषु बहुलम् ॥ १५० ॥
कुत्सन इत्येव । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक् स्यात् कुत्सायाम् । सुवीरदेशोद्भवाः सौवीराः । भागवित्तेर्भागवित्तिकः । पक्षे फक् । भागवित्तायनः । तृणविन्दोरौत्सर्गिकोsणू । ततष्ठक् । पक्षे इञ् । तार्णविन्दविकः । तार्णविन्दविः । अकशापः शुभ्रादिः । आकशापेगः । तस्यापत्यमाकशा पेयि कः । आकशापेयिः । अत्र वृत्तिकाराः । भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः । तृतीयश्चाकशापेयो गोत्राडू ढक् बहुलं तत इति त्रीनेव पर्यजीगणत् ।
फेश्छच ॥ १५१ ॥
वृद्धात्फिञन्तात् सौवीरगोत्रादपत्ये छठकौ स्तः कुत्सायाम् । यमुन्दस्यापत्यं तिकादिभ्यः फिष् यामुन्दायनिः । तस्या
Page #90
--------------------------------------------------------------------------
________________
४ अध्याये १ पाद ४ आह्निकम् । पत्यं यामुन्दायनीयः । यामुन्दायनिकः । कुत्सने किम् । यामु. न्दायनिः । फिसन्तादौत्सर्गिकस्याणो रायक्षत्रियेति लुक् । सौवीरोश्वित्येव । यामुन्दायनिः । अत्र वृत्तिकाराः । यमुन्दश्व सुयामा च वार्ष्यायणिफिलः स्मृता इति पर्यजीगणत् । अत्र वा
ायणीति शब्दरूपापेक्षया नपुंसकनिर्देशः। फित्र इति । फित्रन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिबन्ताश्छठको प्रकृत. यः स्मृता इत्यर्थः । सुयामशब्दास्तकादिः । सुयानोऽपत्यं सौयामायनिः । तस्यापत्यं सौयामायनीयः । सौयामायनिकः । वृषस्यापत्यं फिञ् । वार्ष्यायणिः । तिकादित्वात्फि । दगु. कोसलकर्मारछागषाणां युद् चादिष्टस्येत्यायन्नादेशे कृते युट् । तस्यापत्यं वार्ष्यायणीयः । वार्ष्यायणिकः । इदं च परिगणनं भाष्यविरुद्धम् । यूनि लुगित्यत्र तैकायनीयशन्दे च्छस्य भाष्ये उदाहरणात् । अत एव तत्र वृत्तिकारोऽपि तथैवाह । इह तु मतान्तरमुपन्यस्तवानित्यवधेयम् ।
फाण्टाहृतिमिमताभ्यां णफिजौ ॥१५२ ॥ सौवीरेंग्वित्येव । कुत्सन इति निवृत्तम् । आभ्या क्रमादेतो स्तः । फाण्टाहृतः। मैमतायनिः । सौवीरेषु किम् । फाण्टाहृतायनः । मैमतायनः । फाण्टाहतेरिअन्तत्वान्मिमतस्य नडादित्वात्फछ । यद्यपीह सूत्रे यथासंख्यं नास्तीति सूत्रकृतोऽभिमतं णस्य णिकरणाज्जापकात् । वृत्तिकारोऽप्येवम् । तथापि भाष्यवार्तिकयोर्यथासंख्यमेव स्थितम् । फाण्टाहतेः प्रत्ययस्य णित्करणानर्यक्यं वृद्धत्वात् प्रातिपदिकस्य । पुंवद्भावप्रतिषधार्थ तु । उक्तंवेति हि वार्तिककारः। अस्यार्थः । णस्य णित्वं माऽस्तु । स हि यथासंख्यन्यायात् फाण्टाहृतेरेव विधीयते । तन्ततया वृद्ध
Page #91
--------------------------------------------------------------------------
________________
८६
शब्दकौस्तुभे । वाण्णित्वस्य फलं नास्ति । ननु फाण्टाहता भार्या यस्य सः फाण्टाहृताभार्य इत्यत्र वृद्धिनिमित्तस्य चेति पुंवद्भावप्रतिषेधार्थ णित्वं स्यादिति चेन्न । गोत्रस्त्रियाः कुत्सने ण चेति सूत्रे वार्तिककृतैवोक्तोत्तरत्वात् । तत्र हि गार्गाभार्य इत्यत्र पुंवद्भाववारणार्थ णित्वमित्याशक्य स्त्रियां युवसंज्ञापर्युदासाद् गोत्रत्वेन प्रत्यय एव नास्तीति सिद्धान्तितम् । तदुक्तं गोत्राचून्य स्त्रियामिति वचनादप्रयोजनमिति । अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति तत्रैव वार्तिककृता मतान्तरं दर्शितम् । तस्यायं भावः । गार्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम् । न हि सा गर्गस्यापत्यम् । नापि पौत्रप्रभृति । येन गोत्रं स्यात् । तथाचैको गोत्रे गोत्राथूनीति नियमद्वयस्याप्रवृत्तौ प्रत्ययमाला दुर्वारा । तत्र गार्गाभाये फाण्टाहृताभार्ये च णित्वफलं सुलभमिति इदं तु मतं सि. द्धान्तेत्युक्तम् । तद्बीजं तु मातवंशं प्रत्यपि अपतनहेतुतया अपत्यत्वमस्ति । पौत्रप्रभृतीति च व्यवहितापत्यपरम् । अनुवाद्यकोटिप्रविष्टस्य पुंस्त्वस्याविवक्षित्वात् । तस्मादेक एव प्रत्यय इति ।
कुर्वादिभ्यो रायः ॥ १५३ ॥ एभ्यो रायः स्यात् । कौरव्याः ब्राह्मणाः । यत्तु कुरुनादिभ्यो राय इति वक्ष्यते तत्र क्षत्रियादित्यधिकृतम् । तद्राजत्वाल्लु क् । कुरघः क्षत्रियाः । इह गणे रथकारशब्दः पठ्यते । स जातिविशेषपरः । माहिष्येण कररायां तु रथकारः प्रजायते इति स्मृतेः । कारित्वेतूत्तरसूत्रेणैव सिद्धो रायः । कोशिनीशब्दः पठ्यते। तत्र स्त्रीलिङ्गनिर्देशसामर्थ्यात्पुंवद्भावो नेति वृत्तिकारः। पुलिङ्गे वनभिधानान भविष्यतीति भाव इति हरदचः । वेनाछन्दसीति पठ्यते । भाषायां तु वैन्यो राजेति प्रामादिकमिति
Page #92
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
८७
वृतिः । वावदूकशब्दोऽत्र पठ्यते । वदेर्यङन्तादत एव निपातनादुकप्रत्यय इति माधवः । उलूकादयश्चेत्युणादिसूत्रेणेत्यन्ये । वामरथस्य करावादिवत्स्वरवर्जितमिति पठ्यते । अस्यार्थः । रायप्रत्ययान्तस्य वामरथस्य यञन्तकरावादेरिव कार्य स्यादायुदात्तं विनेति । बहुषु वामरथाः । स्त्री वामरथी वामरथ्यायनी च । युवा वामरथ्यायनः । वामरथाश्छात्राः वामरथानि सङ्काङ्कलक्षणानि । इह क्रमेण यमत्रोवेति लुक् । यञश्च प्राचां ष्फ तद्धित इति ङीपूष्फौ । यञिञोश्चेति फक् । करावादिभ्यो गोत्रे । सङ्घाङ्कलक्षणेष्वित्यराचेत्येतानि का
रायतिदिश्यन्ते । सम्राजः क्षत्रिय इति पठ्यते । सम्राजो ऽपत्यं साम्राज्यो भवति क्षत्रियश्चेत् । साम्राजोऽन्यः । सेनान्तलक्षणकारिभ्यश्च ॥ १५४ ॥
एभ्यो रायः स्यात् । हारिषेरायः । एति संज्ञायामगादिति षत्वस्यासिद्धत्वात्सनान्तोऽयम् । लाक्षरायः । साधु कुर्वन्तीति कारिणः शिल्पिनः । तेभ्यो यथा । तान्तुवायः । कौम्भकार्यः । प्राचां मतेनापि त्यः । उदीचां तु परत्वात्फिञ् । परेण फिना बाधात् । ननु पूर्वसूत्रे एव वाग्रहणात्सिद्धे किमनेन सूत्रेण । मैवम् । जातसेनोग्रसेनादिभ्यो रायेन मुक्त ऋष्यन्धकेत्यराप्रसङ्गात् । सिद्धान्तेत्यनेने भवति । तक्ष्णोऽण उपसंख्यानम् । ताक्ष्णः । पक्षे ताक्षरायः ।
तिकादिभ्यः फिञ् ॥ १५५ ॥
एभ्यः फिस्यादपत्ये । तैकायनिः । तिक आस्कन्दने । तिनोतीति तिकः । इगुपधात्कः । किं तवास्तीत्याचष्टे कितवः ।
Page #93
--------------------------------------------------------------------------
________________
८८
शब्दकौस्तुभे।
आख्यानण्यन्तात् पचायच् । पृषोदरादित्वान्मलोपः । संपूर्णजानातेरातश्वोपसर्गे इति कः । स्त्रियां टाप् । संज्ञा । बाले बदा शिरवा यस्य स बालशिरवः । द्वाविमावित्येके । बलतेरार्यन्तात्पचायच् । बालः । तस्य बालायनिः । शिरवाशब्देन तद्वान् लक्ष्यते । शैखायनिः । उरसा शेते उरशः । अन्येभ्योऽपीति डः पृषोदरादित्वात्सलोपः । शट कुत्सायां पचा. घन् । ततो गादित्वाद्यञ् । शाट्यः । ततो यूनि फिन् । सिन्धुशब्दायज्मगधेत्यण् । सैन्धवः । अपियूनि फिञ् । यममुनत्तीति यमुन्दः । शकन्ध्वादिः । प्रशस्तं रूपमस्या इति रूप्यः । रूपादाहतप्रशंसयोर्यप् । ग्रामे भवो ग्राम्यः । नील वर्णे । इगुपधात्कः । नीलः । अम रोगे । औणादिक इब: अमित्रः । गौकक्ष्यो गर्गादियजन्तः । कृग्रोरुच । कुरुः । देवस्येव रथोऽस्य देवरथः । तितलिनोऽपत्यम् । औत्सर्गिकोऽण् नस्तद्धिते इति टिलोपः । तैतलः । उरशशब्दो व्युत्पादितः । तस्माजनपदशब्दात् क्षत्रियादित्यम् । औरशः ।
कुरुनादिभ्यो ण्यः ॥ १५६ ॥ कौरव्यः । क्षत्रिय एवेह गृह्यते । औरशेन साहचर्यात् । यस्तु कुर्वादिभ्यो राये ब्राह्मणः कौरव्यस्तत इव । अत एव रायक्षत्रियाःतिसूत्रे कौरव्यः पिता पुत्रश्चेति सकलवृत्तिकारैरुदाहृतम् । भूरि अस्यास्तीति भूरिकः । ब्रीह्यादिः । पक्षे कपिलकादित्वाल्लत्वम् । भूलिकः । ताभ्यामत इब् । भौरिकिः । भोलिकिः । चुप मन्दायां गतौ । रायन्ताच्छतरि चोपयन् । तस्यापत्यं चौपयतः । विट परप्रेष्ये । प्राग्वत् वैटाटायतः । शीक सेचने । शैकयतः ।
Page #94
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
क्षितमाचक्षाणः क्षितयन् तस्यापत्यं क्षेतयतः । ध्वजवतोऽपत्यं ध्वाजवतः । द्वावित्यन्ये । ध्वज गतौ । रायन्तात्पचाद्यच् । वनोतेः क्त वतः । चदि आल्हादे । ततो रमम् । चन्द्रमाः। यद्वा स्फायितश्चीति रक् चन्द्रः । चंद्र इति मीयते चन्द्रमाः चन्द्र मो डिच्चेत्यसिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । चन्द्रमा अप्स्वन्तरेत्यादौ मध्योदात्तः पठ्यते । तस्यापत्यं चान्द्र. मसायनिर्बुधः । शोभते ऽसौ शुभः । इगुपधात्कः । गमेर्गः । गङ्गा । वृब एरायः । वरेण्यः । सर्वधातुभ्यो मनिन् । यानं याम । शोभनं यामास्य सुयामा । अरहो नाम जनपदः तवो जनपदशब्दादित्यञ् । आरहः । वह्यं करणम् । वह्यमिव वह्यका । निपातनादित्वाभावः । रवलाय हिता. खल्या । खलयवेति यत् । वृषु सेचने । इगुपधात्कः । वृषः । लोमानि कायति लोमका । उदकमिच्छत्यात्मनः उदन्या । यज्ञयोगाद्य. ज्ञा । एते तिकादयः ।
कौसल्यकार्यािभ्यां च ॥ १५७ ॥ कोसलकारशब्दाभ्यां फिज्स्यात् तत्सन्नियोगेन यकारवागमः । यदि तु वृद्धकोसलेतिनङन्तात् कोसलशब्दात्कारि. लक्षणण्यन्तात् कर्मारशब्दाचायं विधिः स्यात्तदा यून्येव प्रसज्येत । अतो मूलप्रकृतेरेवेष्यते । आह च फिप्रकरणे दगुकोसल. कारछागवृषाणां युद् चादिष्टस्येति । पूर्वान्तकरणे तु दागव्याय. निरित्यत्र ओर्गुणो न स्यात् । आदिष्टस्य कृतायन्नादेशस्येत्यर्थः । अन्यथा प्रतिपदोक्ते युटि कृतेऽनादित्वादादेशो न स्यात् । दागव्यायनिः । कौसल्यायनिः। कार्मार्यायणिः। छाग्या. यनिः । वार्णायणिः । अथ कथं कौसल्यापतिरिति भट्टिः नहि
Page #95
--------------------------------------------------------------------------
________________
९०
शब्दकौस्तुभे। रामः कांसलस्यापत्यम् । उच्यते । यूनोऽप्यपत्यत्वसामान्यवि. चक्षाऽस्तु । इतो मनुष्यजातेरिति डीषन्तात् कौसल्यायनीशब्दा. धूनि ढक् । तस्याब्राह्मणगोत्रमात्राथुवप्रत्ययस्योपसंख्यानमिति लुक् । लुक् तद्धितलुकीति कीषो लुक् ।
अणो दव्यचः ॥ १५८ ॥ अणन्ताधचः फिञ् स्यादिबोऽपवादः । कर्तुरपत्यं कात्रः तस्य का यणिः । गोत्राघुवमत्ययस्येति लुक् तुन भवति विधानमामात् । न च कर्तुश्च्छात्रः कात्रस्तदपत्ये वचनं चरितार्थमिति वाच्यम् । अपत्यग्रहणस्यात्याऽपत्ये योऽण् तदन्तादेव फिविधानादिति भावः । तचिन्त्यम् । कर्वशब्दस्य कुर्वादिषु पाठात् । तथा च कर्तुरपत्यं कार्य इति वार्धमानेनोदाहृतम् । तस्मादिह भगन्त्रादि उदाहार्यम् । अणः किम् । दाक्षिः । वचः किम् । औपगविः ।
उदीचां वृद्धादगोत्रात् ॥ १५९ ॥ अगोत्राद्धात्फिस्यादुदीचां मतेन । आम्रगुप्तायनिः उदीचां किम् । आम्रगुप्तिः । वृद्धाकिम् । दाक्षिः । वा नामधे. यस्येति वृद्धत्वात्पक्षे फिञ् भवत्येव । दाक्षायरायोऽश्विनीत्यादितारा इत्यमरः । अगोत्रादिति किम् । औपगविः ।
वाकिनादीनां कुक् च ॥ १६ ॥ एभ्यः फिञ् स्यात्तत्सनियोगेनैषां कुगागमश्च । वाकिनकायनिः । वचनं वाकः । सोऽस्यास्तीति वाकिनः । अत एव नि. पातनादिनन् । तद्धिता इति बहुवचनादा फलिनवदिनन् । अ. गारे एधते गारेधः पृषोदरादित्वादादिलोपः । शकन्धादित्वा
Page #96
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ९१ पररूपम् । कायतेरौणादिकः कः । काकः। एषां त्रयाणां पूर्वेण फिनि सिद्ध कुगागमार्थ वचनम् । कार्कटस्यापत्यं कार्कव्यः । गर्गादिः । कुर्वादिर्वा । लङ्घयतेलङ्का। अत एव निपातनाद्धकारस्य ककारादेशः। चर्मवर्मशब्दाभ्यां व्रीह्यादित्वादिनिः। एषामुभयार्थ ग्रहणम् । उदीचामित्यधिकारात्पक्षे यथायथामिनादयः । तत्र चमिवर्मिणोरण् । काकाशब्दाद्यच इति ढक् । यजन्तात्फक् शेषेभ्य इनिति विवेकः । चर्मिवर्मिणोनलोपश्चेति गणमूत्रम् । चार्मिकायणिः । वार्मिकायणिः । कुकि कृते नकारस्यानन्त्यत्वामलोपामाप्तौ वचनम् । नच कुक् परादिरस्त्विति वाच्यम् । कस्यानादित्वादादेशाभावप्रसङ्गात् । किश्च । लिङ्गविशिष्टपरिभाषया चर्मिणीवर्मिणीभ्यां प्रत्ययेऽपीदमेव रूपमिष्यते । कुटि तु भत्वाभावात् पुंवद्भावो न स्यात् ।
पुत्रान्तादन्यतरस्याम् ॥ ॥ १६१ ॥ पुत्रान्तात्फिनि परे कुम्वा स्यात् फिऋ तूदीचां वृदादित्यनेनैव । तथा च त्रैरूप्यम् । गार्गीपुत्रकायणिः। गार्गीपुत्रायणिः। गार्गीपुत्रिः।
प्राचामवृद्धात्फिन् बहुलम् ॥ १६२॥ अपत्येऽर्थे । ग्लुचुकायनिः । प्राचां किम् । ग्लौचुकिः । बहुलग्रहणान्नेह । दाक्षिः।
मनोर्जातावञ्यतो षुक् च ॥ १६३ ॥ समुदायार्थो जातिः । मानुषः । मानुष्यः । अपत्ये कुत्सिते मृढेमनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः । णत्वविधानार्थमिदम् । अणः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वम् । विहिनाननुष्ठानाच कुत्सितत्वम् ।
Page #97
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६४ ॥ अपत्यत्वेन विवक्षितं पुत्रादि गोत्र संज्ञं स्यात् । गार्ग्यः । अपत्यत्वेन विवक्षितं किम् । वस्तुतः पौत्रमभृतेर्गर्गस्य मा भूत् । न च पौत्रग्रहणसामर्थ्यात्तद्व्युदासः । रथाद्यचेतनव्यावर्त्यत्सार्थक्यात् । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरेऽतिप्रसङ्गः सम्बन्धिशब्दतया यदीयपौत्रप्रभृति तं प्रत्येव गोत्रत्वात् । एवञ्च पौत्रत्वस्य वास्तवस्यैव प्रवेशाद् गार्गिः । प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गोत्रत्वं निष्प्रत्यूहम् । अत एव युवानं विना नापत्ये प्रत्ययमिति सिद्धान्तः । स्यादेतत् । गर्गापत्यस्य तृतीयादेरपत्यमिति विवक्षायां गर्गापत्यशब्दायुंवप्रत्ययप्रसङ्गः । गर्गस्य हि । चतुर्थे जीवद्वंश्ये गर्गस्य गोत्रा - स्प्रत्ययेन भाव्यम् । गोत्रत्वं च गायस्येव गर्गापत्यस्याप्यविशिष्टम् । अत्र हरदत्तः । संज्ञाप्रकरणमुल्लङ्घयापत्यप्रत्ययप्रकरणे गोत्रसंज्ञाविधानसामर्थ्यादपत्यप्रत्ययेनोपस्थितस्यैव गोत्रत्वं नवपत्यादिशब्दैरपि । न च ते तद्राजा इत्यत्र तच्छब्देनावादीनामेव परामर्शार्थं मध्ये मध्ये गोत्रयुवसंज्ञाकाण्ड मिति वाच्यम् । एतावन्मात्रे बुद्देशेऽञादयस्तद्राजा इत्येव सूत्रयेत् । अत्र वार्तिकम् । जीवद्वंश्यं च कुत्सितमिति । गार्ग्यस्त्वमासे जाल्म । जीवद्वंश्येन हि वृद्धाधीनतयास्थेयम् । यस्तु वृद्धाननादृत्य स्वातन्त्र्यं कुरुते तस्यौद्धत्यात्कुत्सितत्वं बोध्यम् । वृत्तिकारस्तु वान्यस्मिन्नित्यस्मादनन्तरं वृद्धस्य च पूजायां यूनश्च कुत्सायामिति सूत्रद्वयं प्रक्षिप्य युवसंज्ञाविकल्पं व्याख्यत् तत्राद्यमप्राप्तविभाषात्वात्प्रवृत्तिपरं द्वितीयन्तु निवृत्तिपरं तथा च युवसंज्ञानिवृत्तौ सत्यां गोत्रत्वं सिध्यतीति तद्व्याख्यातारः । वत्र वार्तिकवचसां सूत्रेषु प्रक्षेपो निर्बीजः । विकल्प्रोक्तिभ
1
९२
Page #98
--------------------------------------------------------------------------
________________
४ अध्याये ? पादे ४ आह्निकम् ।
भाष्यवार्तिकानारूढत्वान्निर्मूलेति स्पष्टमेव । जीवति तु वंश्ये युवा ॥ १६५ ॥
इह पौत्रप्रभृतीत्यनुवृत्तं षष्ठ्या विपरिणम्यते व्याख्यानात् । तुर्भिन्नक्रमो युवेत्यस्मात्परो बोध्यः । स चैवकारार्थे । वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यान्न तु गोत्रसंज्ञा । गार्ग्यायणः । संज्ञासमावेशे शालङ्काः पैलीया इत्यत्र दोषः स्यात् । तथाहि । शलङ्कोरपत्यं शालङ्किः । पैलादिषु पाठादिञ् । शलङ्कादेशश्च । ततः शालङ्केरपत्यं युवा यञिञोश्चेति फक् । पैलादिभ्यश्चेति लुक् । ततः शालङ्केर्यूनरछात्रा इत्यर्थविवक्षयामि श्वेत्यणि शालङ्का इति भवति । तथा पीलाया अपत्यं पीलाया वेत्याणि पैलः । तस्यापत्यं युवाऽणो व्यच इति फिन तस्य पैलादिभ्यश्चेति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः स। मावेशपक्षे गोत्रेऽलुगचीति फफिञोरलुक् प्रसज्येत । नच परत्वाद्यूनि लुग्भविष्यतीति वाच्यम् । फक्फञोरन्यतरस्यामिति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्क्यः । स .हि यूनि लुक एवापवादः नतु पैलादिभ्यश्चेत्यस्य अनन्तरस्येतिन्यायात् । न चानपवादत्वेऽपि परत्वाद्विकल्पः स्यादेवेति वाच्यम् । परादप्यन्तरङ्गस्य पैलादिभ्यश्चेत्यस्य बलीयस्त्वादिति दिक् । अत्र वार्तिकं वृद्धस्य च पूजायाम् । युवसंज्ञेति शेषः । गार्ग्ययणः । युवसंज्ञका हि प्रायेणाल्पवयस्काः वृद्धनियन्त्रणात् समर्यादाः । तदधीनत्वादेव सुखिनश्चेत्यादि प्रसिद्धम् । तेन वृद्धोऽपि युवत्वेन पूजां मन्यते । इत्यारोपेणापीदं पूर्वोक्तं वार्तिकं गतार्थम् । वृत्तिकारस्तु सूत्रेष्वेव वान्यस्मादिति सूत्रात्परं प्रचिक्षेपेत्युक्तम् ।
९ ३
Page #99
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
भ्रातरि च ज्यायसि ॥ १६६ ॥
।
ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् । गार्ग्यादिषु मृतेष्वपि जीवत्यग्रजेऽनुजो गाययणः ।
वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ॥ १६७ ॥
भ्रातृभिन्ने स्थानवयोभ्यामुत्कृष्टे सपिण्डे जीवति जीवदेव चतुर्थादि युवसंज्ञं वा स्यात् । गर्गस्य भ्रातरि पितृव्यादौ वा जीवति जीवंश्चतुर्थो गाययणः । गाग्र्यो वा । अन्यस्मिन् किम् । भ्रातरि जीवति जीवतो विकल्पो मा भूत् पूर्वसूत्रं तु मृते चतुर्थादौ सावकाशम् । सापिण्ड्यं सप्तपौरुषम् । सपिण्डे किम् । उदासीने मा भूत् । स्थविरतरे किम् | स्थानवयोभ्यामन्यतरेण वाऽपकृष्टे मा भूत् । इह सूत्रे जीवतीति तिङन्तम् । यो जीवति स युवेत्यर्थात् । मृतस्तु जीवत्यपि स्थविरतरे गार्ग्य एव न तु गार्ग्यीयणः ।
९४
जनपदशब्दात्क्षत्रियादञ् ॥ १६८ ॥
जनपदत्राचकं यत् क्षत्रियवाचि प्रातिपदिकं तत्प्रकृतिकात् षष्ठ्यन्तादञ् स्यादपत्ये । पाञ्चालः । यद्यपि पञ्चालादयो जनपदे बहुवचनान्ताः क्षत्रिये त्वेकवचनान्तास्तथापि प्रातिप दिकस्यो भगवाचित्वमक्षतमेव । लुब्योगाप्रख्यानादिति सूत्रयतो भगवत उभयवाचिताभ्युपगमेन सन्देग्धव्यम् । ऐक्ष्वाकः । ऐक्ष्वाकौ । दाण्डिनायनादिसूत्रेण टिलोपे निपातितः । जनपदशब्दात्किम् । दुह्येोरपत्यं द्रौत्रः । क्षत्रियसमानशब्दाज्जनपदाचस्य राजन्यपत्यवत्प्रत्यया भवन्तीति वक्तव्यम् । पश्चालानां राजा पाञ्चालः । अवृद्धादपि बहुवचनविषयादिति प्राप्तस्य
Page #100
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ९५
मोऽपवादः । मागधः । यञ्मगधेत्यण् । पुरोरण वक्तव्यः । पौरवः । पुरुशब्दस्याजनपदशब्दत्वात् प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे तु यमगधेत्येव सिद्धम् । पाण्डोण वक्तव्यः । पाण्ड्यः । डकार ष्टिलोपार्थः । कारो वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधार्थः । युधिष्ठिरपितृवाचकस्य गुणवाचिनश्च पाण्डोर्नेह ग्रहणम् । जनपदशब्दादित्युक्तेर्हि तदधिपतिवाच्येवोपतिष्ठते ।
साल्वेयगान्धारिभ्यां च ॥ १६९ ॥
आभ्यामञ्स्यात् । जनपदशब्दादित्यवं बाधित्वा वृद्धेत्कोसलेति यङि प्राप्तेऽञः प्रतिप्रसवः क्रियते । साल्वेयः । गान्धारः । तस्य राजनीत्युक्तत्वात् साल्वेयो राजा । गान्धारो राजा ।
यमगध कलिङ्गशूरमसादण् ॥ १७० ॥
एम्योरा स्यादयोऽपवादः । व्यच् । आङ्गः । वाङ्गः । सौह्मः । वङ्गानुत्खाय तरसा इति रघुः । आत्मा संरक्षितः सुहौरिति च । मागधः । कालिङ्गः । शौरमसः । तस्य राजनि आङ्गो राजा ।
वृद्धेत्कोसलाजादाञ्यङ् ॥ १७१ ॥
वृद्धादिदन्तात्कोसलाजादशब्दाभ्यां च ञ्यङ् स्यादिञोऽपवादः । वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । यज्लक्षणोऽण् परत्वाज्या बाध्यते । दार्वस्यापत्यं दायः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यं आजाद्यः । तपरकरणं किम् । कुमारी नाम जनपदसमानशब्दः क्षत्रियः । तस्यापत्यं कौमारः । राजनि आम्बष्ठ्यो राजा । आनन्त्य इत्यादि ।
Page #101
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
कुरुनादिभ्यो रायः ॥ १७२ ॥ कुरोनकारादिभ्यश्च रायः स्यात् । कुरोद्यज्लक्षणस्याको नादिभ्यस्त्वोऽपवादः । कौरव्यः । नैषध्यः । परत्वाध्यमगधेत्यणं रायो बाधते । नैप्यः । तस्य राजनि । कौरव्यो राजा । कथं कौख्याः पशव इति वेणीसंहरणम् । तत्र साधुरिति यद्बोध्यः । एतेन तस्यामेव रघोः पाण्ड्या इति व्याख्यातम् । सनैषधस्यार्थपतेः सुतायामित्यादौ तु शैषिकोऽण् बोध्यः ।। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिङ ॥ १७३ ॥
जनपदशब्दात्क्षत्रियादित्येव । सल्वा क्षत्रिया तन्नामिका तस्या अपत्यं यच इति ढक् साल्वेयः । अणपीष्यते । साल्वावयव अपदातौ साल्वादिति निर्देशात् । न च निपातेन ठको बाधः । साल्येयगान्धारिभ्याश्चेति निर्देशात् । साल्वा क्षत्रियेति तु वृत्तौ दीर्घपाठः प्रामादिकः । सर्वप्रत्यये वृद्ध्यभावात् । अत एव वृत्तौ तन्नामिकेत्युक्तिः सङ्गच्छते । तद्धि तनामिकाणः प्राप्त्यर्थम् । तत्माप्तिश्चाद्धादेवेति दिक् । साल्वस्य निवासः साल्वो जनपदः तदवयवा उदुम्बरादयः । साल्वावयवेभ्यः प्रत्यग्रथकलकूटअश्मकशब्देभ्यश्चापत्ये इस्यादोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । तस्य राजनि औदुम्बरी राजा ॥
उदुम्बरास्तिलखला मण्डकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञकाः ॥
इति वृत्तिः । एतच्च उदाहरणमात्रम् । तेन बुध । अजमीढ आजक्रन्द । एभ्योऽपि भवति । तथाच दुश्मगधेतिसूत्रे ऽणो
Page #102
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् ।
ज्यायेनो विप्रतिषेधेनेति वार्तिकं व्याचक्षाणो भगवानाह । इबोऽवकाशः । आजमीढिः । आजक्रन्दिः । अणः स एव । इहो. . भयं प्राप्नोति । बुध वौधिरिति ।
ते तद्राजाः ॥ १७४ ॥ ते अबादय एतत्संज्ञाः स्युः । प्राचीनास्तु तच्छब्देन न प. रामृश्यन्ते । गोत्रयुवसंज्ञाकाण्डेन विच्छेदात्। संज्ञाप्रयोजनं बहुषु लुक । महासंज्ञाकरणमन्वर्थसंज्ञार्थ तद्राजमाचक्षाणास्तद्राजा इति । तेन जनपदस्य राजन्यपत्यवदिति सिध्यति ।
कम्बोजाल्लुक ।। १७५॥ अस्मात्तद्राजस्य लुक् स्यात् । कम्बोजः। कम्बोजौ । कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् । चोलः । शकः । इह यज्लक्षणस्यानो लुक् अन्येभ्यस्तु अणः । केरलः । यवनः । कम्बोजाः समरे सोदुमिति रघुः। काम्बोजा इति दीर्घपाठस्तु प्रामादिकः । न च शैषिकेणाणा निर्वाहः । गोत्रेऽलुगचीत्यलुकि छप्रत्ययेनाणो बाधादित्याहुः । तन्न । यस्कादिभ्यो गोत्र इत्यधिकारोक्तस्यैव लुकोऽलुका वाधात् । मूलप्रकृतेरणः सुवचत्वाच । वस्तुतस्तु कम्बोजोऽभिजनो येषामिति विग्रहः । सिन्धुतक्षशिलादिभ्योऽणनावित्यण् । सिन्ध्वादिषु कम्बोजशब्दपाठस्य सर्वसंमतत्वात् । तस्य राजनीत्येके कम्बोजो राजा ।
स्त्रियामवन्तिकुन्तिकुरुभ्यः ॥ १७६ ॥ एभ्यस्तद्राजस्य स्त्रियां लुक् स्यात् । अवन्ती । कुन्ती । कुरूः । अवन्तिकुन्तिकुरुभ्यो ज्यङो लुकि कृते इतो मनुष्यजाते. रिति ङीष् । कुरोरार्यस्य लुकि ऊडुत इत्यूङ् । स्त्रियां किम् । आम्बष्ठ्यः।
शब्द. तृतीय. 7.
Page #103
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
अतश्च ॥ १७७ ॥ तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । दरत् । कथं । माद्रीसुतौ फलेपुष्पे समृद्ध इति । मद्रीति पठनीयमिति हरदत्तः । स्यादेतत् । अता तद्राजो विशेष्यताम् । तथाच विशेषणेन तदन्तविधौ ज्यण्यादीनामपि लुगस्तु । व्याप्तिन्यायात् । मैवम् । अवन्तिकरुभ्यो लुग्वचनवैयापत्तेः । तस्मादत इति विशेष्यमेव । तेन कौसल्या सिद्धा । अत इति तपरकरणं तु स्पष्टार्थम् । अस्येत्युक्ते हि संदेहः स्यात् । इन एवायं संनिहितत्वादिदमा निर्देशः । किं वा वर्णमात्रस्येति ।
न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥
एभ्यस्तद्राजस्य न लुक् स्यात् । अतश्चेति प्राप्तो निषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाश्चाली । वैदर्भी । आङ्गी । वाडी । मागधी । एते शरावत्याः पाश्चो जनपदाः । भर्गादिग्रहणमप्रागर्थ भार्गी । कारुशी । कैकेयीत्यादि । कथं तर्हि पाकेकयीत इति भट्टिः । जन्यजनकभावेऽपि पुंयोगलक्षणो डीए । शाखादिङीन् गौरादिङीष् वा इत्युक्तं पुंयोगादिति मूत्रे। भृनो गः। भर्गः। कुन उः । करुः तं वष्टि । मूलविभुजादित्वात्कः । करूशः चिनोतेः कय आदेश्च कः । बहुलवचनादित्संज्ञाभावः। केकयः। कशेर्मीरः। साल्वशब्दो निरुक्तः शोभनानि स्थानान्यस्य सुस्थानः। उरसा शेते उरशः।डा। कुरुनादिभ्यो रायः।
कौरव्यः । इति भर्गादिः। यौधेयी । शौकेयी । शौभ्रेयी । युधायाः शुक्रायाः शुभ्रायाश्चापत्यम् । द्वयच इति ढक् । शुभ्रशब्दाच्छुभ्रादिभ्यश्चेति । ततः स्वार्थे पर्वादियौधेयादिभ्योऽणबावित्यञ् । शाहरवाद्यन इति डीनि आ
Page #104
--------------------------------------------------------------------------
________________
४ अध्याये १ पादे ४ आह्निकम् । ९९ घुदात्तत्वम् । यदि विहातश्चेत्ययो लुक् स्यात्तदा ढगन्तत्वान्डीपि उदात्तनिवृत्तिस्वरः स्यात् । न च लुप्तेऽप्याज प्रत्ययलक्षणेनाअन्तत्वान्डीन् स्यादिति वाच्यम् । अभ्योऽकार इति व्याख्यानात् । अन्यथा शूरसेनी मद्रीत्यादावतश्चेत्यबो लुक्यपि डीनापते । ज्यया सहितो बाणोऽस्याः सा ज्यावाणा। तस्या अपत्यं ज्यावाणेयः । ज्य वाणेत्यन्ये पठन्ति । तत्र ज्याबाणोऽस्याः सा ज्यावाणा। घृ क्षरणे धृञ्धारणे आभ्यां क्तिनन्ताभ्यामितश्चानिज इति ढक् । घार्तेयः । धार्तेयः । त्रयो गों येषां त्रिगर्ताः। भृमोऽतन् । भरतः। वशेः कणि इक् कृष्यादिभ्य इतीक् । उशय इष्टा नरा यस्य उशीनरः। अन्येपामपीति दीर्घः। इति यौधेयादिः । स्यादेतत् । अतश्चेतिसूत्रेण विधीयमानो लुक् चातुरथिकानामेव तद्राजानां भवतु सन्निधानात् । नतु पाश्चमिकस्यापि तत्किं यौधेयादिग्रहणेन । सत्यम् । व्याहिन्यायन पाश्चमिकस्यापीह ग्रहणमिति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पश्र्वाधणः स्त्रियां लुक् सिध्यति । तथाहि । पर्शः क्षत्रियो जनपदेन समानशब्दः । तस्यापत्यं सङ्घः स्त्रीत्वविशिष्टः द्वयज्मगधेत्यण् । तस्यातश्चेति लुक् । पुनः पादिलक्षणः स्वार्थिकाण् । तस्यापि लुक् । उडुतः पशुः । एवं रक्षाः । रक्षसः क्षत्रियस्यापत्यं स्त्रीत्वविशिष्टः सङ्घः । पूर्ववदण् । द्वयस्यापि लुक् । अत्वसन्तस्येति दीर्घः । असुरी । जनपदलक्षणस्यायो लुकि पर्वादिलक्षणस्याणो लुक् । जातिलक्षणो डीए । तदेतदुक्तं वार्तिककृता । पश्वादिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो ज्ञापकः पश्चादिलुक इति । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे
चतुर्थमाह्निकम् । पादश्चायं समाप्तः ॥
Page #105
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
तेन रक्तं रागात् ॥ १ ॥
रज्यतेऽनेनेति रागः । शुक्ले वर्णान्तरापादनमिह रञ्जेरर्थः । तृतीयान्ताद्रागविशेषवाचिनो रक्तमित्यर्थे यथास्वमणादयः स्युः । कषायेण रक्तं वस्त्रं काषायम् । माठिम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् । कथं हारिद्रौ कुक्कुटस्य पादाविति । उपमानाद् भविष्यति । हारिद्राविव हरिद्राविति ।
लाक्षारोचनाद्वक् ॥ २॥
शकलकर्दमौ तु वार्तिकं दृष्ट्वा सूत्रे प्रक्षिप्तौ । लाक्षया रक्तो लाक्षिकः। रौचनिकः । शाकलिकः। कार्दमिकः । शकलकदमाभ्यामणपीष्यत इति वृत्तिकारः। शाकलः । कार्दमः । भाष्यादौ तु नैतदस्ति । नील्या अन् वक्तव्यः । नीली ओषधिविशेषः । तया रक्तं नीलम् । पीतात्कन् वक्तव्यः । रागद्रव्यविशेषः पीतं तेन रक्तं पीतकम् । हरिद्रामहारजनाभ्यामन वक्तव्यः । हारिद्रम् । माहारजनम् ।
नक्षत्रेण युक्तः कालः ॥ ३॥
तृतीयान्तानक्षत्रवाचिनो युक्तऽर्थेऽण् स्याद्युक्तः स कालश्चेत् । नक्षत्रवाचकाः शब्दा वृत्तिविषये तयुक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते। पुष्येण युक्तः कालः पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः। पौषमहः । नक्षत्रेण किम् । चन्द्रमसा युक्ता रात्रिः। कालः किम् । पु. ध्येण युक्तश्चन्द्रः ।
Page #106
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे ! आह्निकम् । १०१
लुबविशेषे ॥ ४ ॥ पूर्वेण विहितस्य प्रत्ययस्य लुब् स्यान्न तु षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषे गम्यमाने । अद्य पुष्यः । षष्ठिदण्डात्मकस्येत्ययं विशेषस्तु पूर्वसूत्रानुवृत्तिवलाल्लभ्यते । तेनायेत्युक्त्या न ह्यो न श्व इति विशेषे गम्यमानेऽपि लुब् भवत्येव । अविशेषे किम् । पौषी रात्रिः । पौषमहः । पौषो मुहूर्तः । कथं तर्हि पौष्योषोहोरात्र इति चेत् अवयवद्वयरूपस्य विशेषप्रतीतेरिति गृहाण । पौर्णमास्यामयं लुम्न । विभाषा फाल्गुनीश्रवपाकात्तिकीचैत्रीभ्य इति लिङ्गात् । तेन पुष्ययुक्ता पौर्णमासी पौषीति सिद्धम् । श्रवणशब्दात्तु भवति । अत एव लिङ्गात् । अबाधकान्यपि निपातनानि । तेन श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्येति सिद्धम् ।
संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५॥ आभ्यां परस्य प्रागुक्तप्रत्ययस्य लुप्स्याद्विशेषेऽपि । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । श्रवणशब्दे रक्तवद्भावस्तु न विभाषाफाल्गुनीश्रवणेति लिङ्गात् । डीप तु अण्योऽकार इति व्याख्यानान।
__ द्वन्द्वान्छः ॥ ६॥ नक्षत्रद्वन्द्वानृतीयासमायुक्त काले छः स्याद्विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे अद्य राधानुराधीयम् । अयेत्यस्याव्ययत्वेऽपि तद्विशेषणस्य क्लीबत्वं लोकात् । न च लुबविशेष इति लुबण इव छस्यापि स्यादिति वाच्यम् । पूर्वोपस्थितेन अणैव तस्य नि
Page #107
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
राकाङ्गत्वात् । एतदेव हि मध्येऽपवादयीयेऽपि तत्वम् । दृष्टं साम ॥ ७ ॥
१०२
तेनेति तृतीयान्तादृष्टमित्यर्थे ऽण स्याद्यदृष्टं साम चेत्तत् । वासिष्ठ साम । यस्य साम्रो विशेषे विनियोगो येन ज्ञातस्तत्तन दृष्टमित्याहुः ।
कलर्क्टक् ॥ ८ ॥
अणपवादः । कलिना दृष्टं कालेयं साम । यत्तु व्याकरणाधिकरणे भट्टरुक्तं यदकालयत्तत्कालेयस्य कालेयत्वमिति श्रुतिविरुद्धेयं पाणिनिस्मृतिरिति तत्प्रौढिवादमात्रम् । एकस्मिन्नेव सामान कलिदृष्टत्वस्य कालायितत्वस्य चाविरोधात् । तन्त्रेणावयवार्थद्वयसम्भवाच्च । अत एवाह भर्तृहरिः ।
वैरवासिष्ठगिरिशास्तथैकागारिकादयः । कैश्वित्कथं चिदाख्याता निमित्तावधिसङ्करैरिति ॥
अस्यार्थः वीरेषु भवं वीरैर्लब्धं वीराणामिदमिति निमित्तसङ्करेण वैरशब्दो व्याख्यातः । अतिशयेन वासयन्तीति वा वसिष्टेन प्रोक्तमधीयत इति वा निमित्तस्य सङ्करः प्रकृतिप्रत्ययावधिसङ्करश्च । गिरौ शेते गिरिं श्यति उपभोगेन तनूकरोति गिरिरस्यास्तीति वा एकागारिकशब्दोऽप्येकेनागारेण जयतीति एकमगारं प्रयोजनमस्येति वा निमित्तसङ्करेण व्याख्यातः । एतेन वामदेवादिति उत्तरसूत्रमपि व्याख्यातम् । वामं वा इदं देवेभ्यः समजनि तद्वामदेव्यस्य वामदेव्यत्वमिति श्रौतव्युत्पत्यन्तरस्य वामदेवदृष्टत्वेन सह विरोधात् । एतेन एतत्सूत्रद्वयं श्रुतिविरोधादप्रमाणमिति पार्थसारथेरुक्तिः परा
Page #108
--------------------------------------------------------------------------
________________
४ अध्याय २ पादे १ आह्निकम् ।
१०५
स्ता । विरोधस्य वासिद्धेः । अभ्युपत्यापि ब्रूमः अर्थवादानां स्वार्थे तात्पर्यविरहात्तत्परस्य व्याकरणस्य कथं तैर्बाधः तथात्वे वा अहीनो वा प्रकरणादित्यधिकरणे कथं खपत्ययस्वरेणाहर्गणसाध्यत्वं व्याख्यः यदेनं सर्वे न हासिषुस्तदहीनस्याहीनत्वमिति श्रुत्या बाधापत्तेरिति दिक् । अत्र वार्तिकम् । सर्वत्राग्निकलिभ्यां ढगिति । अयमर्थः। सूत्रकृता हि साऽस्य देव. तेत्यधिकारेऽग्नेर्डक् उक्तः । दृष्टं सामेत्यधिकारे तु कलेढेगिति तदिदं सूत्रद्वयमपनीय प्राग्दीव्यत इत्यस्मादनन्तरमग्निकलिभ्यां ढगिति पाठ्यमिति । अग्मिना दृष्टं साम आनेयमनौ भवमनेरागतं अग्नेः स्वं वा आग्नेयं यथा स्यात् । एवं कलेरागत कले स्वं कलौ भवं कालेयमित्यादि । अत्र श्लोक वार्तिकम् ।
दृष्टे सामनि जाते वा प्यण् डिव द्विर्वा विधीयते । तीयादीका न विद्याया गोत्रादङ्कवदिष्यते ॥
जातेऽर्थे यो द्विरण स च वाडिदित्यन्वयः । उशनसा दृष्ट साम औशनसम् । औशनम् । जाते । शातभिषः । शातभिषजः । इह हि प्राग्दीव्यत इति प्राप्तोऽण् कालाआ बाधितः संधिवेलादिसूत्रेण प्रतिप्रसूत इत्ययं द्विरुक्तोऽण् । अवो वा डित्वम् । तीयादीका । अयञ्च स्वार्थे । द्वैतीयीकः । तार्तीयीकः । वेत्येव । द्वितीयः । तृतीयः । न विद्यायाः । द्वितीया विद्ये. त्येव । गोत्रादङ्कवत् । इदं च दृष्टं सामेत्यत्रैव । औपगवर्क अङ्के यो दृष्टः प्रत्ययः स सर्वोऽप्यतिदिश्यते न तु साक्षादशब्दमुच्चार्य विहित एव तेन सङ्घाङ्कलक्षणेचित्यस्याण गोवचरणाद् बुनित्यस्य चायमतिदेशः ।।
Page #109
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे। वामदेवाड्यड्डयौ ॥ ९॥ वामदेवेन दृष्टं साम वामदेव्यम् । सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ ।
ग्रहणं मा तदर्थे भूद्वामदेव्यस्य नअस्वरे ॥ नमाश्रयः स्वरो नभूस्वरः उत्तरपदान्तोदात्तत्वम् । अत दर्य इति सूत्रावयवेन ययतोरिति सूत्रं लभ्यते । तदयमर्थः । ययतोश्चेति सूत्रेण विधीयमानं ना उत्तरस्य ययदन्तस्यान्तोदात्तत्वं अवामदेव्यशब्दे मा भूत्किन्वव्ययपूर्वपदस्वर एव यथा स्यादित्येतदर्थमनयोडित्वम् । यग्रहणेन हि ड्यग्रहणं न भवति । निरनुबन्धकग्रहणे न सानुबन्धकस्यति । तथा यद्रहणेन ड्यग्रहणं न भवति तदनुबन्धकग्रहणेनातदनुबन्धकस्येति । एते च परिभाषे इहैव डित्वेन ज्ञापिते । तत्राद्यायाः प्रयोजनम् । पूरणगुणेति सूत्रे तव्यतो ग्रहणं मा भूत् दिव औदित्यत्र दीव्य. तेर्माभूदिति । द्वितीयस्यास्तु अङ्ग्रहणे चङ्ग्रहणं मा भूत् श्वयतेरः अश्वत् नेह अशिश्वियदिति ।
परिवृतो रथः ॥ १० ॥ तृतीयान्तात्परिवृतेऽर्थेऽण रथश्चेत्सः । वस्त्रैः परिवृतो वास्रो रयः। तदेकान्तग्रहणं कर्त्तव्यम् । नेह पुत्रैः पौत्रैः परिवृत्तो वा।
पाण्डुकम्बलादिनिः ॥ ११ ॥ मत्वार्थीयेनेनिना सिद्धेऽण्बाधनार्थ सूत्रम् । पाण्डुकम्बलो गजास्तरणं तेन परिवृतः पाण्डुकम्बलो रथः ।
द्वैपवैयाघादञ् ॥ १२ ॥ अणोऽपचादः । स्वरे विशेषः। द्वीपिन्याप्रशब्दाभ्यां विका
Page #110
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १०५ रभूते चर्मणि वाच्ये प्राणिरजतादिभ्योऽञ् । द्वीपिनष्टिलोपः वदन्तात्प्रकृतसूत्रेण पुनरञ् । द्वैपा रथः । वैयाघ्रः ।
__ कौमारापूर्ववचने ॥ १३ ॥ कुमार्या अण् निपात्यते अपूर्वतायां द्योत्यायाम् । कौ. मारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादुभयत्रापि प्रत्य. यः। अपूर्वत्वं तु पाणिग्रहणविषयकं तदुभयत्र स्त्रिया एवेत्यादि सर्व निपातनाल्लभ्यते। अन्येनापरिणीता कुमारी परिणीतवान् कौमारः पतिः। द्वितीयासमर्थादुपयन्तरि प्रत्ययः । कुमारी या पति लब्धवती सापि भवत्येव । सूत्रारम्भे कृतेऽपि तस्य दुर्वारत्वात् । एवं तावत्कौमारः पतिरिति सिद्धम् । स्त्रियां तु पुंयोगलक्षणो ङीष् प्रत्यासत्या च यत्प्रयुक्तोऽस्य कौमारव्यपदेशः सैव कुमारी न तु स्यन्तरम् । एतच्च सूत्रारम्भेऽप्यावश्यकम् । पुंयोगडीषा प्रयोगातिप्रसक्तेस्तुल्यत्वादिति दिक् ।
तत्रोदधृतममत्रभ्यः ॥ १४ ॥ सप्तम्यन्तात्पात्रवाचिन उद्धृतमित्यर्थेऽण् स्यात् । शरावे उद्धृत ओदनः शारावः । माल्लिकः । कार्परः। शरावादावुद्धृत्य निहित इत्यर्थः । सूत्रे युद्धरतिरुद्धरणपूर्वके निधाने वर्त्तते । अत एव सप्तमीसमर्थविभक्तिः सङ्गच्छते । भुक्तोच्छिष्ट इत्यर्थ इति वृत्तिकाराः । अवशिष्ट इति तदर्थः । तथाच कल्पसूत्रेषु व्यवहारः उच्छिनष्टि न सर्व जुहोतीति । अत्रैवोद्धरण. शब्दोपि प्रसिद्धः बाहुलकात्कणि भूते ल्युत् । सास्मिन्पौण. मासीत्यतः प्राक् तत्रेत्यनुवर्तते । तेन सप्तम्यन्तादेव प्रत्ययः ।
स्थाण्डिलाच्छयितरि व्रते ॥ १५ ॥
Page #111
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे। व्रतं शास्त्रितो नियम इति वृत्तिः । शास्त्रेण विहितः शा. स्वितः । प्रातिपदिकाद्धात्वर्थे इति णिजन्तात्कर्मणि क्तः । व्रतंचेह समुदायोपाधिः । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ।
संस्कृतं भक्षाः ॥ १६॥ सप्तम्यन्तात्संस्कृतेऽण् स्यात् यत्संस्कृतं भक्षाश्चेत्ते । भ्राष्ट्र संस्कृता भ्राष्ट्राः ।
शूलोखाद्यत् ॥ १७ ॥ पूर्वेण प्राप्तस्याणोपवादः ॥ शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तत्र संस्कृतं उख्यम् । कथमुख्योग्निः नह्यसौ भक्ष इति चेत् । सत्यम् । भवार्थे दिगादित्वात् यदित्याहुः।
दधनष्ठक् ॥१८ ॥ दानि संस्कृतं दाधिकम् । संस्कारश्चेह लवणादिना । यस्तु संस्कृतार्थे प्राग्वहतेः स तृतीयान्तात् । तेन दध्ना संस्कृतोऽपि दाधिक इति विवेकः ।
उदश्वितोऽन्यतरस्याम् ॥ १९॥ ठक् स्यात् पक्षेऽण् ॥ इमुसुक्त्तान्तात् कः । औदश्वित्कः । औदश्वितः।
क्षीराड्ढञ् ॥ २० ॥ अत्र संस्कृतमित्येव संबध्यते न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षरेयीति । टिड्ढाणनिति डीप् ॥
सास्मिन् पौर्णमासीति ॥ २१ ॥ सेतिप्रथमासमर्थात्तदनिष्ठसत्ताधिकरणे प्रत्ययः स्याद्यः
Page #112
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १०७ प्रथमान्तस्यार्थः पौर्णमासी चेत्सा । इतिशब्दाल्लौकिकीं विवक्षामनुसारयति । तेन संज्ञायामेवायं प्रत्ययः। सूत्रे संज्ञायामिति वृत्तिकृता प्रक्षिप्तम् । तत्तु भाष्यादिविरोधादितिशब्देन गतार्थत्वाचात्रोपेक्ष्यम् । पौषी पौर्णमासी अस्मिन् पौषः । मासार्द्धमाससंवत्सराणामियं संज्ञा । नेह । पौर्णमासी अस्मिन्दशरात्रे । भृतकमासेव । भृता एव भृतकाः कर्मकराः तेषां हे कर्मकरणादारभ्य त्रिंशदहोरात्रात्मकः । सावनो मासः । स पौष्या पौर्णमास्या तद्वानपि न पोषाख्यः । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहिः । प्रज्ञादेराकृतिगणत्वादत एव वा निपातनादण् यद्वा माश्चन्द्रमाः भीमो भीमसेन इतिवत् । पूर्णो. माः पूर्णमाः । तस्येयं पौर्णिमासी । वस्तुतस्तु महाराजपोष्ठपदानित्यत्र तदस्मिन् वर्तत इत्यर्थे पूर्णमासादण उपसंख्यानासिद्धम् ।
आग्रहायण्यश्वत्थाट्ठक् ॥ २२॥ पूर्वेण प्राप्तस्याणोऽपवादः । अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणवादण् । पूर्वपदात्संज्ञायामग इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन्नाग्रहायणिको मासः संवत्सरो वा । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिकः । विभाषा फाल्गनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २३ ॥
एभ्यः पौर्णमासीशब्देभ्यः प्रागविषये ठग्वा स्यात्पक्षेऽण् । फाल्गुनो मासः । फाल्गुनिकः । श्रावणः । श्रावणिकः । कार्तिकः । कार्तिकिकः । चैत्रः । चैत्रिकः ।
Page #113
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
सास्य देवता ॥ २४ ॥ सेति प्रथमान्ताद्देवतावाचकादस्येत्यर्थे अण् स्यात् । द्रव्यत्यागे उद्देश्या देवता इन्द्रो देवतास्य ऐन्द्रं हविः । आदित्यम् । बार्हस्पत्यम् । कथमन्द्रो मन्त्र इति । मन्त्रस्तुतस्यापि देवतात्वेन ग्रहणाददोषः । कथमानेयो वै ब्राह्मणो देवतयेति उपमा. नात् । सर्वत्राग्निकलिभ्यामित्युक्तत्वाद्वा । सति प्रकृते पुनः सेत्युक्तिः संज्ञार्थकस्य इतिशब्दस्य निवृत्त्यर्था ।
कस्येत् ॥ २५ ॥ कशब्दः प्रजापतेर्वाचकः तस्य इकारोन्तादेशो विधीयते प्रत्ययतन्नियोगेन । कायं हविः । इत्वे कृते यस्येतिलोपः प्राप्तः परत्वादादिवृद्ध्या वाधते । श्रीर्देवतास्य श्रायमितिवत् । सोमाट्याणित्यत्रैव कग्रहणं तु न कृतम् । यस्येतिलोपात्परत्वादा. दिवृद्धौ कृतायामपि यस्येतिलोपापत्तेः । सकृद्गतिन्यायाश्रयणे तु कसोमाव्यणिति शक्यं कर्तुम् । इह कायस्य हविषः संप्रेषे कल्पका एव विवदन्ते । तत्र कायानुव्रहीति न्याय्यमेव कस्मा अनहीति तु आर्षम् ।
शुक्रात् घन् ॥ २६ ॥ अणोऽपवादः । शुक्रियं हविः । शुक्रियो मन्त्रः ।
अपोनत्प्रपांनप्तृभ्यां घः ॥ २७ ॥ अपोनत्रियं हविः । अपांनत्रियं हविः । इह अपोनपात् अपांनपात् इति देवतानामधेये । अनयोः प्रत्ययसंनियोगेनोक्तं रूपं मूत्रे निपात्यते । अपोनपाते अपांनपातेऽनुब्रूहीति संप्रेषौ भवतः । वेदे तु अपोनप्त्रे स्वाहा अपांनप्त्रे स्वाहेति छा
Page #114
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् ।
न्दसः प्रयोगः ।
१०९
छ च ॥ २८ ॥
अपोनप्त्रीयम् | अपांनप्त्रीयम् | योगविभागो यथा संख्यनिवृत्यर्थः । छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयम् । शतरुद्राद् घव । अस्माच्छघौ वक्तव्यावित्यर्थः ॥ शतरुद्रियशतरुद्रीये । शतशब्दोऽनन्तवचनः । शतं रुद्रा देवतास्येति घछौ । तयोर्विधानसामर्थ्याद्विगोर्लुगनपत्य इति लुङ् न भवति ।
•
महेन्द्रात् घाणौ च ॥ २९ ॥
चकाराच्छः स्यात् । महेन्द्रो देवताऽस्य महेद्रियं हविः । माहेन्द्रम् | महेन्द्रीयम् ।
सोमाट् व्यण् ॥ ३० ॥
सोमो देवतास्य सौम्यं हविः । सौमी ऋकू । टित्वान् ङीप् । हलस्तद्धितस्येति यलोपः ।
वास्तुविषसो यत् ॥ ३१ ॥
एभ्यो यत्स्यादणोपवादः ॥ वायुर्देवतास्य वायव्यः । ओर्गुणः । वान्तोयीत्यवादेशः । ऋतव्यम् । पित्र्यम् । रीत इति रीङ् । यस्येतिचेत्यकारलोपः । उषस्यम् । उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां वक्तीति सुपेशसं सुखं रथमित्यादिमन्त्रेषु प्रसिद्धम् ।
द्यावापृथिवीशनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृह
मेधाच्छ च ॥ ३२ ॥
एभ्यश्छः स्याच्चाद्यत् । वास्तोष्पतिशब्दात्पत्युत्तरपदलक्ष
Page #115
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
णस्य रायस्यापवादः । शेषेभ्यस्त्वणः । धौश्च पृथिवी च द्यावापृथिव्यौ । दिवो द्यावा दिवसश्च पृथिव्यामिति द्यावादेशः । ते देवते अस्य द्यावापृथिवीयम् । द्यावापृथिव्यम् । शु. नासीरीयम् । शुनासीयम् । शुनश्च सीरश्चेति द्वन्द्वः । शुनो वायुः सीर आदित्य इति वृत्तिकाराः । अन्ये त्वेकमेव शुनामीरमिन्द्रस्य गुणमाहुः । तथा चाश्वलायनः। इन्द्रो चाशुनासीर इति । मन्त्रलिङ्गं च भवति इन्द्रं शुनासीरमस्मिन्यज्ञे हवामह इति । मरुत्वतीयम् । मरुत्वत्यम् । अग्नीषोमीयम् । अग्नीपोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । वेश्मभूर्वास्तुरस्त्रियामित्यमरः । वास्तोः पतिर्वास्तोष्पतिः अत एव निपातनासाधुः । गृहमेधीयम् । गृहमेधशब्दमकारान्तं बचा अधीयते । मरुद्भ्यो गृहमेधेभ्य इत्याश्वलायनः । गृहमेधास अ. गतेति मन्तति मन्त्रलिङ्गं च । तैत्तिरीयके तु मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदवमिति पठ्यते । तत्रासौ नकारान्तः । मेधृ सङ्गमे इत्यस्माणिनिः । केचित्तु इकारान्तमाहुः । स्त्रे त्वकारान्तादेव प्रत्ययविधानं निर्विवादम् ।
अग्नेढक् ॥३३॥ आग्नेयम् । सर्वत्राग्निकलिभ्यामिति कलेढ गित्यत्रोक्तम् ।
__ कालेभ्यो भववत् ॥ ३४ ॥ कालाभिनि प्रकरणेन भवे प्रत्यया वक्ष्यन्ते ते सास्यदेवतेत्यस्मिन् विपयेऽनेन मूत्रेणातिदिश्यन्ते । वत्करणं सर्वमादृश्यार्थम् । तेन यस्माद्यो विहितस्ततः स एव भवनि । मासिकम् । प्रापेरायम् । वत्करणं किम् । असति त. स्मिन् कालेभ्यो भवे ये उक्तास्ते यतः कुतश्चिदपि देवतार्थे
Page #116
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १११ स्यादिति व्याख्याने कालाट्ठञ् इन्द्रादिभ्योऽपि स्यात् । का. लेभ्यः स्युरिति व्याख्याने तु भवप्रत्यया न विशिष्येरन् । ततश्च दिगादिभ्यो यदपि भवे विहित इति कालेभ्योऽस्मिन्नर्थे स्यात् । अथापि तन्त्राद्याश्रयणात् कालेभ्योऽपि भवे विहितास्ते कालेभ्योऽपि स्युरिति व्याख्यायेत एवमपि ऋभ्योऽणुक्तः मुहूर्तादेरपि स्यात् ।।
महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥ महाराजो देवतास्य माहाराजिकम् । तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् । नवयज्ञोऽस्मिन्वर्त्तते नावयज्ञिकः कालः । पूर्णमासादण् वक्तव्यः । पूर्णमासोऽस्यां वर्नते पौर्णमासी तिथिः ॥
पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ __एते निपात्यन्ते । तत्र पितृमातृभ्यां भ्रातरि व्यडुलचौ । पितुर्भ्राता पितृव्यः मातुर्कीता मातुलः । मातृपितृभ्यां पितरि डामहच् । मातुः पिता मातामहः। पितुः पिता पितामहः । मातरि षिच्च । मातामही । पितामही । महोवाछन्दस्यानडावग्रहदर्शनात्। पितामह इति । अवेर्दुग्धे सोढदूसमरीसचः । एते वक्तव्याः । प्रक्रियालाघवाय षकारे पठनीये सकारपाठसामादमीषां सस्य षत्वं न । अविसोढम् । अविदूसम् । अविमरीसम् । तिलानिष्फलात् पिञ्जपेजौ । तिलपेजः । वन्ध्यस्तिल इति अमरव्याख्यातारः। पिञ्जश्छदसि डिच्च । तिल्पिञ्जः ॥
तस्य समूहः ॥ ३७ ॥ षष्ट्यन्तात्समूहेऽण् स्यात् । चित्तवदायुदात्तं । अगोत्रान्तं । प्रतिपदमनुक्तप्रत्ययमिहोदाहरणम् । तथाहि । अचित्ताग्वक्ष्य
Page #117
--------------------------------------------------------------------------
________________
११२
शब्दकौस्तुभे ।
I
ते अनुदात्तादेरत्र गोत्रान्ताद्वुञ् केदारादिभ्यः प्रतिपदं यञादयः । काकानां समूहः काकम् । वार्कम् | बाकम् | काकटकबकशब्दा आयुदात्ताः । प्राणिनां कुर्वाणामिति फिमुत्रात् । सूत्रन्तु न्यासकार इत्थं व्याख्यत् । प्राणिविशेषवाचिनां शब्दानां ये आदिभूताः कवर्गात् पूर्वं तेषामुदात्तः स्यादिति । अथादिः प्राक् शकटेरिति ह्यधिकृतम् । हरदत्तोऽप्येवम् । किन्त्वत्र कुपूर्वेषामिति स्यात् तस्मात्फलितार्थकथनमिदम् । कुना हेतुना पूर्वे इति तु तृतीयातत्पुरुषो बोध्यः । पुंसानुज इतिवत् तेन सर्वनामकार्य न । अस्माभिस्तु फिट्सूत्रवृत्तिमनुसृत् प्राणिनां कुपूर्वमिति पाठः प्रागुक्तः । स तु निर्वाध एवेत्यत्र - धेयम् । इह शौकमिति वृत्तिन्यासयोरुदाहृतम् । तदन्याय्यम् । खण्डिकादिषु शुकशब्दस्य भाष्ये वृत्तौ च पठितत्वेनाञ - न्तत्वात् ।
भिक्षादिभ्योऽण् ॥ ३८ ॥
एभ्योऽण् स्यात्समृहे । भिक्षाणां समूहो भैक्षम् । अचि - तत्वाटून प्राप्तः । गार्भिणम् । भस्याढ इति पुंवद्भावः । इनourपत्ये इति प्रकृतिभावान्नस्तद्धित इति टिलोपो न । इहानुदात्तादेरन् प्राप्तः सति तस्मिन्नाद्युदात्तत्वं टिलोपश्च स्यात् । युवतिशब्दोऽत्र पठ्यते । तस्य पाठसामर्थ्यान्न पुंवदिति वृत्तिकारः । न चानुदात्तादेनं वाधितुं पाठः भस्याढे तद्धिते पुंत्रद्भावः । सिद्धश्व प्रत्ययविधावितिप्रागेव तिमत्ययनिवृत्तौ सत्यां कनिन्युवृपीतिकनिनन्ततया आयुदात्तत्वात् । भाष्यवार्त्तिकयोस्तु इह युवतिशब्दपाठस्य प्रत्याख्यानात् यौवनमित्येव संगतम् । नचैवं भाष्यमते यौवनशब्दोऽपभ्रंश एवेति भ्रमित -
Page #118
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । ११३ व्यम् । शत्रन्तादनुदात्तादेरावि तस्यापि सिद्धेः। भिक्षा | गर्मिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । वर्मिन् । सहस्र । युवति । पदाति । पद्धति । अथर्वन् । दक्षिण ॥ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनु
____ष्याजाद् वुञ् ॥ ३९ ॥ एभ्यो बुञ् स्यात् समूहे। लौकिकमिह गोत्रं तच्चापत्ययात्र न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । उक्षन् । औक्षकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आजकम् । वृद्धाचति वक्तव्यम् । वृद्धानां समूहो वा कम् । स्यादेतत् । ग्लौचुकायनकमित्यादौ फिन न्तत्वादाद्युदात्ते चरितार्थोऽयं बुञ् । कापोतमित्यादौ लब्धा. वकाशेनाप्यनुदात्तादेरञा परत्वाद्वाध्यते तत्कथमोपगवकाप्रित्युदाहृतम् । सत्यम् । अत्रो वुञ् पूर्वविप्रतिषिद्धमिति वार्तिकाददोपः । इदं ज्ञापकसिद्धमिति खण्डिकादिभ्यश्चेत्यत्र वक्ष्यते । राजन्यकम् मानुष्यकमित्यत्र विवदन्ते । तथाहि अपत्यप्रत्ययान्ताविमौ राज्ञोऽपत्ये जातिग्रहणमिति वार्त्तिके मनोर्जाताविति सूत्रे च जाताविति समुदायोपाधिः हरतेईतीतिसूत्रे पशाविति यथा । अत एव हि तत्र कर्तर्यवेन् प्रत्ययः। न चैवमापत्यस्य च तद्धिते नातीति यलोपापत्तिः प्रकृत्या के राजन्यमनुष्ययुवान इति वचनात् । न च गोत्रग्रहणेन गतार्थत्वम् । कृत्रिमस्यैव गोत्रस्य ग्रहणापत्तेः । एतयोः कृत्रिमगोत्रप्रत्ययान्तयोः पुनरुपादानेन तु झाप्यते अपत्याधिकारादन्यत्र लौकिकगोत्रमिति । इमौ हि शास्त्रे गोत्रान्ततया व्युत्पादनेऽपि लोके जातिपरतयैव प्रसिद्धौ । तथाच यूनि लुगिति सूत्रे
शब्द. तृतीय. 9.
Page #119
--------------------------------------------------------------------------
________________
११४
शब्दकौस्तुभे। भाष्यम् । राजन्याद् वुञ् मनुष्याच्च ज्ञापकं लौकिकपरमिति । सोऽयं भाष्यवार्तिकारूढः पन्थाः । अपरे तु नेमौ गोत्रप्रत्ययान्तौ शिवादिभ्योऽणिति सूत्र एव गोत्रग्रहणं निवृत्तमिति वृत्तिकारकैयटप्रभृतिभिरुक्तत्वात् । अपत्याधिकारादन्यत्र लौकिकग्रहणं तु व्याख्यानादेव उभयगतिरिहेति भाष्यात् । न चैवं प्रकृतसूत्रे राजन्यमनुष्यग्रहणवैयर्थ्यम् । एतयोरपत्यकृतं नेति ज्ञापनेन सफलत्वात् । तेन यलोपो नेत्याहुः । अन्ये तु जातिरेवार्थो न त्वपत्यमित्याहुः । इह पक्षद्वयेऽपि प्रकृत्याके इति वचनं न कर्त्तव्यमिति तत्वम् ।
केदाराद्यञ् च ॥ ४० ॥ चाद् बुब् । अचित्तलक्षणस्य ठकोऽपवादः । केदाराणां समूहः केदारम् । केदारकम् । गणिकायाश्चेति वार्तिकम् । अ. व यमेव नतु वुअपि गाणिक्यम् ।
ठञ् कवचिनश्च ॥४१॥ चात् केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥
ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ब्राह्मणानां समूहो ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । स्यादेतत् । ब्राह्मणादयो वृद्धाः तेभ्यः प्रकृतो यबेवास्तु । नहि वृद्धाद्यनि यनि वा रूपे विशेषोऽस्ति । न वा स्वरे उभयथाप्याद्युदात्तत्वात् । ठञ् तु नानुवर्तिष्यते स्वरितत्वात् । सत्यम् । अन्यतो विधानार्थं यन्वचनम् । तेन पृष्ठादुपसंख्यानमिति वार्तिकं गतार्थम् । पृष्ठशब्दः स्तोत्राविशेषस्य संज्ञा । पृ.
Page #120
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् ।
११५
छैः स्तुवत इति श्रुतेः । पृष्ठानां समूहः पृष्ठयः । कथं तर्हि पृष्ठयः षडह इति तद्वति तदुपचारात् । मत्वर्थलक्षणयेत्यर्थः ।।
ग्रामजनबन्धुभ्यस्तल् ॥ ४३ ॥ ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजसहायाभ्यां चेति वक्तव्यम् । गजता । सहायता । अह्नः ख इति वक्तव्यम् । क्रतो । क्रतावित्यपि तस्यैव शेषः । अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतु वन्त उदाहरणम् । अचित्तात्तु आपूपिकं शाष्कुलिकमित्यादौ परत्वाहगेव । कापोतम् । मायूरम् । तैत्तिरम् । कपोतमयूरशब्दौ लघावन्त इति मध्योदाचौ तित्तिरिस्त्वन्तोदात्तः । इगुपधात्किः तरतेः सन्वतुक चाभ्यासस्येति किप्रत्ययव्युत्पादितत्वात् । सन्वद्भावेनाघुदाचस्तु न भवति । उणादयो बहुलमिति बहुलवचनात् ।।
खण्डिकादिभ्यश्च ॥ ४४ ॥ एभ्योऽञ् स्यात् समूहे । आयुदात्तार्थ वचनम् । अचिनाहकं बाधितुं च । खण्डिकानां समूहः खाण्डिकम् । इह क्षुद्रक मालवात्सेनासंज्ञायामिति पठ्यते । तत्र क्षुद्रक मालवादिति योगो विभज्यते । क्षुद्रकस्यापत्यानि जनपदशब्दादिति वि. हितस्य तद्राजस्य लुक् मालवात्तु वृद्धलक्षणस्य व्यङः । ततो द्वन्द्व समासस्येत्यन्तोदात्तः ततोऽनुदात्तादेरजित्येव सिद्धे गो. प्रोक्षेति वुनं बाधितुं वचनम् । स्यादेतत् । यथा जनपदसमुदायस्य जनपदग्रहणेनाग्रहणात्काशिकोसलीया इत्यत्र छ एव न तु जनपदलक्षणो वुब तथेहापि गोत्रसमुदायस्यागोत्रत्वाद् वुवः प्राप्तिरेव नास्ति । नच समुदायस्यागोत्रत्वेऽपि मालवस्य गोत्रप्रत्ययान्ततया समुदायात्तदन्तविधिना वुमाप्तिः समासप्रत्य
Page #121
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे । यविधौ तदन्तविधेः प्रतिषेधात् । किश्च प्राप्तेपि वुन् परत्वा. दव भाव्यम् । अत्राहुः । इदमेव सामूहिविधिवुनः पूर्वविप्रतिषेधं च ज्ञापयति यावता हि विनानुपपत्तिर्न शाम्यति तावतः सर्वस्य ज्ञाप्यतयेहोभयज्ञापनसम्भवात् तेन वानहस्तिकम् । गौधेनुकमिति तदन्तविधिः सिद्धः । औपगवकमित्यादौ वुञ् च । ततः सेनासंज्ञायामेवेति नियमार्थ द्वितीयं वाक्यम् । तेन क्षौद्रकमालवीसेना । अन्यत्तु क्षौद्रकमालवके । उभयत्रापि मालवादुत्पन्नस्य ज्यङो गोत्रेऽलुगचीति लुकि प्रतिषिद्धे आपत्यस्येति यलोपः। उक्तं च भाष्ये । असिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात् । गोत्राद् वुञ् नच तद्गोत्रं तदन्तान सः सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेविधिः । सेनायां नियमार्थ वा यथा बाध्येत वाञ् वुजेति । तथाचेत्यस्यायमर्थः । धेनुरन. विकमुत्पादयतीत्यापिशले मतम् । इकमुकमित्यर्थः । तेन वृद्धि सिद्धा । धैनुकम् । अनअिति किम् । अधेनूनां समूह आधेन. वम् । उत्सादिपाठाद । यद्यप्युत्सादिगणे धेनुशब्द एव पठ्यते तथापि बष्कयासे इति लिङ्गात्तदन्तविधिः। तत्र सामूहिकेषु यदि तदन्तविधिर्न स्यात्तर्हि अनग्रहणं न कुर्यात् । सेनायामिति द्वितीयवाक्यस्यार्थस्य फलोपन्यासः । उलूकशब्दोऽत्र पठ्यते स लघावन्त इति मध्योदात्तः । यदुलूको वदति इत्यत्र तु छान्दसमायुदात्तत्वम् । एवञ्च भाषायामनुदात्तत्वात्पूर्वेणैवाञ् सिद्धः । इह पाठस्तु मर्गादियनन्तस्य कृतलुक इति बोध्यम् । असति हि पाठे उलूकानां समूहार्थविवक्षायां गोत्रेलुगचीति लुकः प्रतिषेधादौलुक्यशब्दागोत्राश्रयो वुझ पामोति । शुकशब्दोऽत्र पठ्यते प्राणिनां कुपुर्वाणामित्यायुदाचत्वादाणि प्राप्ते । युगवरत्रेति पठ्यते । तत्सङ्घातविगृहीतार्थम् । यौगवरत्रम् ।
Page #122
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे । आह्निकम् । ११७ यौगम् । वारत्रम् ।
चरणेभ्यो धर्मवत् ॥ ४५ ॥ वुजादयश्चरणेभ्यो वक्ष्यन्ते । चरणाद्धर्माम्नाययोरिति तु तत्र वार्तिकम् । तदप्यनेनातिदेशसूत्रेण ज्ञापितम् । यतः प्रकृते धर्मे यः प्रत्ययो वक्ष्यते ततः समूहेऽपि स्थादित्यतिदेशार्थमिदं सूत्रम् । कठानां सङ्घः काठकम् । कालापकम् । गोत्रचरणाद् वुन् छान्दोग्यम् । औक्थिक्यम् । छन्दोगौक्थिति ज्यः । आथर्वणम् । आथर्वणिकस्येकलोपश्चेत्यण् ।
__ अचित्तहस्तिधेनोष्ठक् ॥ ४६ ॥ साक्तुकम् । आपूपिकादावपि परत्वादवं बाधित्वाऽयं ठगेव हास्तिकम् । धैनुकम् । तदन्तविधेापितत्वागौधेनुकम् । जङ्गलधेनुवलजान्तस्येत्युभयपदवृद्धिविकल्पः । अनबित्युक्तं तेन आधेनवमित्यत्र उत्साद्यमेव ।
केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४७ ॥
आभ्यामेतौ क्रमाद्वा स्तः पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् ।
पाशादिभ्यो यः ॥४८॥ पाश्या । तृण्या। इह पोतगलग्रहणं सङ्घातविगृहीतार्थमिति गोबर्धनः। युक्तश्चैतत् । ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथगित्यमरकोशात् । पाश । तृणधूम । वेत्ति । अहार । पोटगल पिटक शकट हल नट वन ।
खलगोरथात् ॥४९॥ एभ्यो यः स्यात् । स्वल्या । गव्या । रथ्या ।
.
.
Page #123
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
इनित्रकट्यचश्च ॥ ५० ॥
खलादिभ्यः क्रमादमी स्युः । खलिनी । गोत्रा । रथकव्या । स्वलादिभ्य इनिर्वक्तव्यः । डाकिनी । कुठुम्बिनीत्यादि । आकृ तिगणोऽयम् । इति सामूहिकाः । विषयो देशे ॥ ५१ ॥
११८
षष्ठ्यन्ताद्यथाविहितं प्रत्ययः स्यादत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिवीनां विषयो देशः शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ।
राजन्यादिभ्यो वुञ् ॥ ५२ ॥
राजन्यादिभ्यो वुञ् स्यात् । राजन्यानां विषयो देश : राजन्यकः । आकृतिगणोऽयम् । भौरिक्याद्यैषुकार्यादिभ्यो विधभक्तलौ ॥ ५३ ॥
आभ्यां यथासंख्यमिमौ स्तः । भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । अत्र वार्त्तिकानि । विषयाभिधाने जनपदे लुप् बहुवचनविषयात् । अङ्गानां विषयः अङ्गाः । वङ्गाः । सुमाः । पुण्ड्राः । गान्धार्यादिभ्यो वा । गान्धारः । गान्धारयः । वासातः । वसातयः । शैवः । शिवयः । राजन्यादिभ्यो वा वुञ् राजन्यकः राजन्यः । दैवयातवाः । दैवयातवकः । वैल्ववनादिभ्यो नित्यम् । वैल्ववनकः । आम्बरीषपुत्रकः । आत्मकामेयकः । न वाऽभिधेयस्य निवासविषयत्वान्निवासावेवक्षाय लुब्विषयविवक्षायां प्रत्ययः । अस्यार्थः । यो येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप् स्मर्यते न
Page #124
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । ११९
तु निवासमात्रे अनभिधानात् । एवञ्चाङ्गा वङ्गाः मुह्माः पुण्ड्रा इत्यत्र निवासरूपतैव विवक्ष्यते न तु विषयरूपता । राजन्यादेस्तूभयं तत्र विषयो राजन्यकं निवासो राजन्याः । बैल्ववनादिषु विषयत्वविवक्षैव । सर्व चेदं यथाभिधानं व्यवस्थास्यते तस्मान्मास्तु वार्त्तिकारम्भ इति ।
सोऽस्यादिरिति छन्दसः प्रगाथेषु ॥ ५४ ॥ अक्षरेयत्तानिबन्धनं पक्त्यादिश्छन्दः । तद्वाचकात्प्रथमान्तादादिवाचकादस्येत्यादिमति प्रत्ययः स्यात् स आदिमान् प्रगाथचेत् । पतिरादिरस्य पाङ्कः प्रगाथः । आनष्टुभः । जागतः । प्रग्रध्यत इति प्रगाथः । अकर्त्तरि च कारक इति कमणि घञ् । पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रगीयते इति वा प्रगाथः । गै शब्दे उषिकुषिगतिभ्यस्थन् । रूढश्चायम् । चतुर्थषष्ठौ पादौ बार्हतो प्रगाथे पुनरभ्यसित्वोत्तरयोखस्येदित्येवमादिवचनाद्यत्र द्वयोर्क चोस्तिस्रः क्रियन्ते । नपुंसकात् स्वार्थे उपसंख्यानम् । त्रिष्टुबेव त्रैष्टुभम् । जागतम् । कुटी कुटीर इतिवन् स्वार्थिके कृते लिङ्गान्यत्वम् । कथं तर्हि नपुंसकादित्युक्तम । वृत्तिविषयस्य तथात्वादिति बोध्यम् ।
संग्रामे प्रयोजनयोदधृभ्यः ॥ ५५ ॥
सोऽस्येत्यनुवर्त्तते । प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च समर्थेभ्योऽस्येति षष्ठ्यन्तार्थे सङ्ग्रामेऽभिधेयेऽण् स्यात् । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सौभद्रः । भरता योद्धारोऽस्य भा - रतः सङ्ग्रामः ॥
तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५६ ॥ स्पष्टम् । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ।
Page #125
--------------------------------------------------------------------------
________________
१२०
शब्दकौस्तुभे। प्रहरणं किम् । माला भूषणमस्याम् । क्रीडायां किम् । खड्गः पहरणमस्या सेनायाम् ।
घञः साऽस्यां क्रियेति ञः ॥ ५७ ॥ घनन्तात् क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घन इति कृद्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । श्येनतिलस्य पाते बे इंति मुम् । घनः किम् । श्येनपतनमस्यां वर्तते । क्रियाकिम् । प्राकारोऽस्यां वर्तते तदस्यामिति प्रकृते पुनः सास्यामित्युक्तिः क्रीडायामित्यस्यानुवृत्तिर्मा भूदिति । दण्डपातोऽस्यां तिथौ वर्चते दाण्डपाता मौसलपातेत्यादि ।
तदधीते तद्वेद ॥ ५८ ॥ द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । व्या करणमधीते वेत्ति वा वैयाकरणः । द्विस्तद्रहणमधीयानविदुषोः पृथग्विधानार्थम् । अन्यथोत्तरत्र क्रतुवसन्तादीनामशब्दात्मकतयाध्ययनासम्भवाद्वेदितर्येव प्रत्ययः स्यात् द्विस्तग्रहणसामर्थ्यात् क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अपि प्रत्ययं लभन्ते ।
क्रतूक्धादिसूत्रान्ताट्ठक् ॥ ५९ ॥ क्रतुमि पवाचिभ्य उस्थादेः सूत्रान्ताच्च ठक् स्यात् । क्रतुशब्दस्तु न गृह्यते स्वरूपपरत्वेड्युक्थादिष्वेव पठेत् । नापि पर्यायग्रहणम् । उक्थादिषु यज्ञशब्दपाठात् । तस्मात्क्रतुविशे. पवाचिनामेव ग्रहणं तेभ्यो मुख्यात्तिभ्यो वेदितरि प्रत्ययः तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरीति विवेकः । आ -
Page #126
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १२१ मिष्टोमिकः । वाजपयिकः । संस्थाविशेषवचनस्याप्यनिष्टोमशब्दस्य तत्संस्थाके कतौ निरूढः प्रयोगः । उक्थशब्दस्तु सामविशेष रूढः यानि यज्ञायज्ञीयादुत्तरत्र पठ्यन्ते । तान्यधीयाने ठगणौ द्वावपि नेष्येते अनभिधानात् किन्तूक्थान्यधीत इति वाक्यमेव भवति । सामलक्षणन्तु प्रातिशाख्यमौविथक्यं नाम । औथिकानामाम्नायः इदमर्थे छन्दोगौक्थिति ज्यः तत्र लक्षणया वर्तमान उक्थशब्दष्ठकं लभते । उक्थमधीते वेत्ति वा औक्थिकः । औस्थिक्यशब्दात्तु ठकः प्राप्तिरेव नास्ति । अण् पुनरनभिधानानेति स्थितं भाष्ये । लोकायतिकः। उक्थ लोकायत न्याय न्यास पुनरुक्त यज्ञचर्चा क्रम इतर श्लक्ष्ण संहिता क्रम पद सङ्घट्ट वृत्ति सङ्घह गण गुण आ. युर्वेद इत्युक्थादयः । सूत्रान्ताहगित्यवशिष्यते ॥ तत्र वा. र्तिकम् । विद्यालक्षणकल्पसूत्रान्तादकल्पादेरिकन स्मृत इति इकगिति ठगित्यर्थे विद्यालक्षणकल्पान्तादिति अकल्पादेरिति च पूरणीयमिति फलितोऽर्थः। वायसविधिकः । गौलक्षणिकः । पाराशरकल्पिकः । सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः । सूत्रान्तस्यैवायं निषेधो न तु विद्याद्यन्तस्य । अत एव काल्पसूत्र इत्येव भाष्ये प्रत्युदाहृतमिति कैयटः । काल्पविद्य इति तु केषांचिदुदाहरणं प्रामादिकमिति स एव । अस्यापवादं वार्त्तिककार एवाह । विद्या चाननक्षत्रधर्मत्रिपूर्वेति । अङ्गादिचतुष्टयपूर्वको विद्याशब्दष्ठकं न लभत इत्यर्थः । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । विद्यः । इह त्रिविधा विद्या त्रिविधा तामधीत इति विग्रहः । तिस्रो विद्या अधीत इति विग्रहे तु लुक् स्यादित्युक्तं द्विगोलुंगिति सूत्रे । अत्र विद्यशब्दात् स्वार्थे चातुर्वर्णादित्वात् व्यषि वि.
Page #127
--------------------------------------------------------------------------
________________
१२२
शब्दकौस्तुभे। यमित्यपि पक्षे भवति । तथा च याज्ञवल्काः । चत्वारो वे. दधर्मज्ञाः पर्षत्रैविद्यमेव वेति । अत एव पञ्चमे कैयटेन चा. तुर्वैद्यमित्यत्र चत्तारो वेदा इति चतस्रो विद्या अधीत इति च द्वेधा व्याख्यातं तत्र ठको लुकि स्वार्थे व्यानि अनुशतिकादित्वादुत्त पदद्धिरिति विशेषः । आख्यायिकेतिहासपु. राणेभ्यश्च ठरवक्तव्य इति शेषः । यावक्रीतमाधिकृत्य व्याख्यानं यावक्रीतमुपचारात् तदधीते वेत्ति वा यावक्रीतिकः । प्रैयअवमधिकृत्य कृतमुपचारात् भैयङ्गवम् । ततः प्रयङ्गविकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता तामधीते वेत्ति वा वासवदत्तिकः । अधिकृते ग्रन्थे इत्यत्रार्थे वृद्धाच्छः । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । एवं सौमनोत्तरिकः । गद्यरूपो अन्यविशेष आख्यायिकेति अ. धिकृते ग्रन्थ इति सूत्रे हरदत्तः । ऐतिहासिकः । पौराणिकः । अनुसूर्लक्ष्यलक्षणे सर्वसादगिोश्च लः । इ. कन् पदोत्तरपदाच्छतषष्ठः किन् पथः । अनुसूशब्दः ठकं लभते लक्ष्य लक्षणशब्दौ च । अनुसूर्नाम ग्रन्थः । अनुसूमधीते ठक् । इसुसुगिति कादेशः । केऽण इति इस्वः । आनुसुकः । लाक्ष्यिकः । लाक्षणिकः । सर्वादेः सादेढूिगोश्छप्रत्ययस्य लुगित्यर्थः । अत्र द्विगाश्च ल इत्यंशेन द्विगोटुंगिति सूत्रसिद्धमेवानूयते । अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपात्तः । सर्ववेदानधीते सर्ववेदः। सर्वतन्त्रः । इहाणो लुक् । वार्णिकान्तमधीते सवार्तिकः । अन्तवचने सहशब्दस्याव्ययीभावः । अव्ययीभावे चाकालइति सभावः। ततोऽणो लुक् । द्विगोः। द्वितन्त्रः । पूर्वपदिकः । उतरपदि. कः। पदशब्द उत्तरपदं यस्य तस्मादिकन् स्यादितीकन् ।
Page #128
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १२३ शतशब्दात् षष्ठिशब्दाच परो यः पथिन्शब्दस्तदन्तात् षिक. न् स्यात् । षो ङीषर्थः । शतपथिकः । शतपथिकी। षष्ठिपथिकः । षष्ठिपथिकी। अत्र वृत्तिकारो बहुलग्रहणं कृत्वा शातपथ इत्यणमप्युदाजहार तत्तु भाष्यादौ नास्ति । इकन् बहुलं पथोत्तरपदादित्युक्थायन्तर्गणसूत्रमिति न्यासकारः ।
क्रमादिभ्यो वुन् ॥ ६१॥ अणोऽपवादः । क्रमकः । पदकः । क्रम पद शिक्षा मीमांसा ।
अनुब्राह्मणादिनिः ॥ ६२ ॥ ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते वेत्ति वा अनुब्राह्मणी । यथार्थे यदव्ययमिति सादृश्ये ऽव्ययीभावादिनिः। म. त्वर्थीयेन सिद्धे अध्येतवेदितोरणं बाधितुं सूत्रम् ॥
वसन्तादिभ्यष्ठक् ॥६३ ॥ यत्र वसन्तो वर्ण्यते यो वा वसन्ते ऽध्येयः स उपचाराद्वसन्तः तमधीते वेनि वासन्तिकः ! उक्थादिषु वसन्तादयः पाठ्याः । ते वा वसन्तादिषु । तथा तु न कृतमित्येव । अथर्वनशब्दो ऽत्र पठ्यते । स उपचारादथर्वणा प्रोक्त ग्रन्थे वर्तते । शैषिकप्रकरणान्ते भाष्यकारास्तु इत्थमाहुः । तेन प्रोक्तमिति प्र. कृत्य ऋषिभ्यो लुग्वक्तव्यः। वसिष्ठः । विश्वामित्रः । अ. नुवाकः । अथर्वणो वा अथर्वा आथर्वण इति । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनसूत्रे निपातनाहिलोपो न । वसन्त वर्षा शरत् हेमन्त शिशिर प्रथम अ. नुगुण अथर्वन् आथर्वण ।
Page #129
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
प्रोक्ताल्लुक् ॥ ६ ॥ प्रोक्त भवः प्रोक्तः । सौत्रत्वात् संज्ञापूर्वकत्वाद्वान वृद्धिः । उपचाराद्वा प्रोक्त प्रोक्तशब्दः। प्रोक्तार्थकप्रत्ययात्परस्याध्येतवे. दिवप्रत्ययस्य लुक् स्यात् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयते पाणिनीयाः । वृद्धाच्छोऽत्र । प्रोक्तार्थकः प्रत्ययः । नाबश्वेत्यण् । गोत्रे य इञ् तदन्तादेव स इति सिद्धान्तात् । ततोऽध्येत्रणो लुक् । स्त्रियां स्वरे च विशेषः । असति हि लुकि टिड्ढाणनिति डीप् स्यात् । अणस्वरेणान्तोदाचत्वं च । लुकि सति तु टाप् भवति छस्वरेण मध्योदात्तता च ।
सूत्राच्च कोपधात् ॥६५॥ सूत्रवाचिनः ककारोपधादध्येवेदितप्रत्ययस्य लुक स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । संख्यायाः मंझासङ्घसूत्राध्ययनेविति संख्याया अतिशदन्तायाः कन् । तदधीयते अष्टकाः पाणिनी. याः । दशका वैयाघ्रपदीयाः । त्रिकाः काशकृत्स्नाः । संख्याम. कृतरित वक्तव्यम् । संख्याप्रकृतिकप्रत्ययान्तादित्यर्थः । क. लापिनो प्रोक्तमधीयते कालापाः । कलापिनोऽण् । नान्तस्य टिलोपे सब्रह्मचारीत्यौपसंख्यानिकष्टिलोपः । ततस्तदधीत इत्यण् । प्रोक्ताल्लुक । कालापानामानाय इति गोत्रचरणाद् वुश् । कालापकम् । ततस्तदधीत इत्यण् । तस्यालुक् । सति तु लुकि बित्स्वरंणायुदात्तः स्यात् सिद्धान्ते त्वण एव स्वरः। स्त्रियां ङीप् च । कोपधात्किम् । चत्वारोऽवयवा अस्य चतुष्टयम् । तदधीते चातुष्टयः।
Page #130
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् ।
१२५
छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥
मण्डूकप्लुत्या प्रोक्तादित्यनुत्तं छन्दोब्राह्मणसामानाधि. करण्याजसन्तं विपरिणम्यते । छन्दांसि ब्राह्मणानि च भोक्तप्रत्ययान्तानि तद्विषयाण स्युः अध्येतवेदितप्रत्ययं विना न प्रयोज्यानि । यथा मपं विना व्यन्तं न प्रयुज्यते तथेत्यर्थः । अत एव तन्त्रेणार्थद्वयं विगृह्यते कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः। तस्य कठचरकाल्लुक् ततोऽध्येतर्यण् तस्य प्रोक्ताल्लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थे औत्सर्गिकोऽण् । शेषं यथायोगं प्राग्वत् । मौदाः । पैप्पलादाः । अर्चाभो वैशम्पायनान्तेवासी तस्माणिनिः। आर्चाभिनः वाजसनेयशब्दः शौनकादिः। वाजसनेयिनः । ब्राह्मणानि । ताण्ड्येन मोक्तमधीयते ताण्डिनः । आपत्यस्येति यलोपः । भाल्ल. विशब्द इअन्तः शाव्यशब्दागर्गादियअन्तानियोश्चेति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः । तेभ्यः पुराणमोक्तष्विति णिनिः । भाल्लविनः । शाट्यायनिनः । ऐतरोयणः । छन्दोग्रहणादेव सिद्ध ब्राह्मणग्रहणं तद्विशेषप्रतिपत्त्यर्थम् । तेन पुराणप्रोक्तानामेव तद्विषयता। नेह । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि । कण्वादिभ्यो गोत्र इत्यण । आपत्येति यलोपः । सुतभादौत्सर्गिकोऽण् । सौतभानि । याज्ञवल्क्यादिभ्यः प्रतिषेध इति प्रतिषेधं पठन्ति इह चकारोऽनुक्तसमुच्चयार्थः । कल्पे । काश्यपिनः । कौशिकिनः । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । सूत्रे पाराशरिणो भिक्षवः । शैला. लिनो नटाः। पाराशर्यशिलालिभ्यामिति णिनिः । कर्मन्दिनः । कुशाश्विनः । कर्मन्दकृशाश्वादिनिः । एतच्च सर्वमिह सूत्रे न्या.
Page #131
--------------------------------------------------------------------------
________________
१२६
शब्द कौस्तुभे ।
·
सभेदेन भाष्यसाधितमिति वृत्तिकृता चकारेण संगृहीतम् । छन्दो ब्राह्मणानीति किम् । पाणिनीयं व्याकरणम् । पैङ्गी कल्पः । पिङ्गशब्दात् पुराणप्रोक्तेष्विति णिनिः ।
अथ चातुरर्थिकाः ।
तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ६७ ॥
प्रथमान्तादस्त्युपाधिकादण् स्यात् अस्मिन्नित्यर्थे प्रत्ययान्तनामा देशश्चेत् । उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः । बाल्वजः । पार्वतः । सकललोकनिरूढे यथा स्यान्नत्वाधुनिक संकेति तेऽपीत्येतदर्थ इतिशब्दः । भूमनिन्दाद्यर्थपरिग्रहार्थश्च । मतुपोऽयमपवादः । यद्येत्रमपवादविप्रतिषेधादिनिठनादयः प्रानुवन्ति । सत्यम् । तन्नाम्नात्युक्तेर्न दोषः । तद्धि नामधेय - ताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुं क्रियते । तेन निर्वृत्तम् ॥ ६८ ॥
अन्तर्भावितण्यर्थाद्वृत्तेः कर्मणि क्तः । देशे तन्नाम्नीति - चतुष्टयेऽप्यन्वेति । सहस्रेण निर्वृता साहस्री परिखा । कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ।
तस्य निवासः ॥ ६९ ॥
शैवो देशः । अदूरभवश्च ॥ ७० ॥
तस्येत्येव । विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्ता अपि त्रयोऽर्था इह संनिधाप्यन्ते । तेन वक्ष्य। माणप्रत्ययानां चातुरर्थिकत्वम् । चतुर्णामर्थानां समाहारचतुरर्थी । तत्र भवा हि चातुरर्थिकाः । अध्यात्मादित्वाट्ठञ् ।
Page #132
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ आह्निकम् । १२७ सद्धितार्थे द्विगौ तु ठो लुक् स्यात् । चकारविरहे तु सं. निधानाददूरभवाथे एवोत्तरत्र संबध्येत । सविधानात् ।
औरञ् ॥ ७१॥ चातुरर्थिकः । अरडुट्टैक्षविशेषः आरडवम् । नयां तु परत्वान्मतुप् । इक्षुमती । द्रुमती ।
मतोश्च बह्वजङ्गात् ॥ ७२॥ बहच्कमहं यस्य तथाभूतो यो मतुस्तदन्ताद स्यात् । सैध्रकावतम् । बह्वजङ्गारिकम् । आहिमतम् । स्यादेतत् । मतोबेहच इत्येवास्तु व्यधिकरणे च पञ्चम्यो व्याख्यास्येते । बहुचो विहितो यो मतुस्तदन्तादिति । मैवम् सामानाधिकर. ण्यस्य न्याय्यतया मत्वन्तं यहच इत्येवास्तु न व्यधिकरण. मिति हि युज्यते । ततश्चाहिमतोऽञ् स्यात् । व्यावर्त्य तु स्ववानिति स्यात् ।
बह्वचः कूपेषु ॥ ७३॥ षहप्रकृतिकात्सुबन्ताद स्याचातुरर्थिकः पेष्वभिः धेयेषु । दीर्घवरत्रेण निर्दृत्तः कूपो दैर्घवरत्रः ॥
उदक् च विपाशः ॥ ७४ ॥ विपाश उत्तरे ये कूपास्तेष्वभिधेयेषु अञ् स्याचातुरथिकः। अबहजथं आरम्भः । दचेन निर्दृत्तः दात्तः कूपः । उदकिम् । दक्षिणतः कूपेऽवणेव । दात्तः । गौप्तः । स्वरे विशेषः ।
संकलादिभ्यश्च ॥ ७५॥ एभ्योऽञ् स्यात् । कूपेविति निवृत्तम् । संकलेन निवः साङ्गलः॥
Page #133
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
स्त्रीषु सौवीरसात्वप्राक्षु ॥ ७६ ॥
सौवीरे तावत् दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । सालवे विधूमाग्निना निर्वृत्ता वैधूमानी । प्राचि । ककुदेन निईसा काकुदी ।
१२८
सुत्रास्त्वादिभ्योऽण् ॥ ७७ ॥
उवर्णान्तलक्षणस्य कूपलक्षणस्य चाञोऽपवादः । सुवास्तो रदूरभवं सौवास्तवम् । ताण्डवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी नदी ॥
1
रोणी ॥ ७८ ॥
अस्मादण् स्यात् । कूपलक्षणस्याओ ऽपवादः । रौणः कूपः । तदन्तविधिरत्र येन विधिरिति । आजकरोणः । कोपधाच्च ॥ ७९ ॥
मारवत् । कार्णछिद्रकः कूपः ॥ वुञ्छण्कठजिलसेनिरढञ्यय फफिञिञ्ज्यक्कक्ठकोऽरीहणकृशाश्वर्य कुमुदकाशतृणप्रेक्षाश्म सखि संकाशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ||८०||
•
अरीहणादिभ्यः सप्तदशभ्यो गणेभ्यः क्रमाद् वुञादयः स्युश्चतुरर्थ्याम् । सूत्रे कुमुदस्य द्विः पाठेप्येक शेषो न भवति । प्रथमतः कुमुदान्तानां चतुर्णा द्वन्द्वं विधाय द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनर्द्वन्द्वविधानात् ॥ आदिशब्दः प्रत्येकं संबध्यते । तथाहि अरीहणादिभ्यो वुव् । अरीहणेन निर्वृत्तं आरोहणकम् | कृशाश्वादिभ्यश्छणू |
Page #134
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ भाह्निकम् । १२९ काश्विीयः । ऋश्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यः ष्ठन् । कुमुदिकम् । काशादिभ्य इल: । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी। अश्मादि. भ्यो रः। अश्मरा । सख्यादिभ्यो ढब् । साखेयम् । सङ्का. शादिभ्यो राय: । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च । पान्थायनः । कर्णादिभ्यः फिञ् । काणार्यनिः । सुतङ्गमादिभ्य इन् । सौतकमिः । प्रगदादिभ्यो ज्य: । प्रगदिन् प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक् । कौमुदिकः । इह शिरीपशब्दो गणत्रये पठ्यते । अरीहणादौ प्रथमकुमुदादौ वराहादी च । कथं तर्हि लुपि युक्तवदित्यत्र भाष्यं शिरीषाणामपि पक्ष लुबिति वास्तु उभयथापि चातूरूप्ये न विवादः । शरीपकः । वुन् । शिरीषिकः । ठन् । शैरीषकः । कक् । शिरीषा इति ।
जनपदे लुप् ॥ ८१ ॥ ग्रामसमुदायो जनपदः तस्मिन् वाच्ये चातुरर्थिकम्य लुप् स्याल्लुबन्तं देशस्य नाम चेत् । पञ्चालानां निवासो जनपदः पञ्चाला: । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । मगधाः । पुण्ड्राः । तन्नाम्नीति किम् । उदुम्बराः सन्त्यस्मिन्निति औदुम्बरो जनपदः । न ह्यत्र लुबन्तं नामधेयम् ।
वरणादिभ्यश्च ॥ ८२ ॥ एभ्यः प्राग्वत् । अजनपदार्थ आरम्भः । वरणानामदरभवं नगरं वरणाः। नगरं हि देशो न तु जनपदः । आकृतिगमोऽयम् ।
शब्द. तृतीय. 8.
Page #135
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
शर्कराया वा ॥ ८३॥ __ अस्माचातुरर्थिकस्य पा लुप् स्यात् । ननु वाग्रहणं व्य. ये प्रथमकुमुदादौ वराहादौ च पाठसामर्थ्यादेव पक्षे उच्ककोः श्रवणसम्भवात् सत्यम् । अत एव वाग्रहणसामर्थ्याव पक्षे औत्सर्गिकोऽण् तस्य चायं लुविकल्पः । तदिह वक्ष्यमाणठक्छाभ्यां सह रूपषट्कं बोध्यम् । शर्करा । शार्करम् । शरिकम् । शारकम् । शार्करिकम् । शर्करीयमिति ।
ठक्छौ च ॥ ८४ ॥ शर्कराशब्दादेतौ स्तश्चतुराम् । उदाहृतम् ।
नद्यां मतुप् ॥ ८५ ॥ चातुरर्थिकः । उदुम्बराः सन्त्यस्यामुदुम्बरावती । इक्षुमती । कथं तर्हि भगीरथेन निवृत्ता भागीरथीति मतुबन्तस्यातनामधेयत्वात् ।
मध्वादिभ्यश्च ॥८६॥ अनद्यर्थ आरम्भः । मधुमान् । कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ८७ ॥ कुमुद्वान् । नहान् । वेतस्वान् । अवर्णोपषात्परत्वेन वत्वम् । पूर्वबासिदे चेति टिलोपो न स्थानिवत् । एकदेशविकृतन्यायेन पदत्वाद्रुत्वे प्राप्ते बहिरङ्गत्वाहिलोपस्यासिद्धत्वम् । न च पाष्ठी बहिरङ्गपरिभाषा रुं न पश्यदिति वाच्यम् । कार्यकालपक्षाश्रयणात् । नन्वेवम् औत्सीत्यादौ रुः घटी आमलकीत्यादौ जश्त्वं च स्यात् । यस्यतिलोपे कुते
Page #136
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे १ माह्निकम् । १३१ पूर्वस्य स्वादिष्विति पदत्वात् । न च भत्वं यस्येतिलोपस्य स्था. निवद्भावान् । न च पदत्वेप्येवं तस्य विधिना सह कार्यकालतया पूर्वत्रासिद्ध चेतिनिषेधादिति चेन्न । पदसंज्ञायां यथोद्देशाश्रयणात् । अत एव राम औ इत्यवस्थायां पदत्वे वस्त्रसादाविव स्थानिवद्भावेन रामावित्यादेः पदत्वम् । अन्यथा उभयत आश्रयेऽन्तादिवद्भावप्रतिषेधात्पदत्वं दुर्लभं स्यादिति दिक् । महिषाचेति वक्तव्यम् । महिष्मानाम देशः । प्रकृतस्यैव मतुपः डित्वातिदेशेन सिद्धे प्रक्रियालाघवाय ड्वतुपि वा कर्तव्ये मतुवचनमन्यतो विधानार्थम् । तेन महिषाचेत्यपि सूत्रेण सूचितमेव ॥
नडशादाड डबलच् ॥ ८८ ॥ नड्वलः । शादलः । शादशब्दो दोपधः । शादो जम्बालघासयोरित्यमरः । शादल: शादहरिते इति च ।
शिखाया वलच ॥ ८९ ॥ शिखावलम् । दन्तशिखात्संज्ञायामिति पश्चमे वक्ष्यति त. ददेवेपि शिखावल इति रूपस्य सिद्धये इदन्तु निर्वचाद्यर्थ देशे वत्राप्यणो वापनार्थ च।
उत्करादिभ्यश्छः ॥९॥ रत्करीयः।
नडादीनां कुक् च ॥ ९१॥ नडकीयम् । अत्रान्तर्गणसूत्रद्वयम् । क्रुझा हस्वत्वं च । सक्षमलोपश्चेति । क्रुश्चकीयः । तक्षकीयः । कुटि तु नलोपसिद्धा.
Page #137
--------------------------------------------------------------------------
________________
१३२
शब्दकौस्तुभे।
वपि छस्य ईयो न स्यात् । अप्रत्ययादित्वात् । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य द्वितीये
पाद प्रथपमाह्निकम् ।
शेषे ॥ ९२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । धक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टा दार्षदाः सक्तवः । उलुखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो स्थः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । स्यादेतत् । तस्येदमिति सूत्रेण चाक्षुषादयः सिद्धाः । दार्षदादयस्तु संस्कृतं भक्षा इत्यनेन तत् किं शेष इति सूत्रेण । न चाधिकारार्थ तदिति वाच्यम् । अधिकारं विनापि घादीनां ट्युट्युलन्तानां अपत्यादिचतुर्थीपर्यन्तेप्वर्थेष्वप्रवृत्ते पकेनैव सुसाधत्वात् । तथाहि आर्दकशाले. त्यादयो वृद्धाः तेषां वृद्धाच्छ इत्येव सिद्धे उत्करादिषु पाठो ज्ञापयति नेतः प्राक् घादयः स्युरिति । गोत्रोक्षेति वुविधिरपीह लिङ्गम् । अन्यथा हि समूहस्यापीदमर्थान्तर्भूततया गोत्रच. रणादित्येव वुः सिद्ध किं तेन । तथा राजन्यादिषु दैवयानशब्दस्यारीहणादिषु भास्त्रायणशब्दस्य च पाठोऽपीह ज्ञापकः तयोरपि गोत्रप्रत्ययान्नतया गोत्रचरणादित्येव वुनः सिद्धः । तथा फेश्छचेत्यत्र वेत्या ठग्विकल्प्यता छवचनं तु ज्ञापकमेवापत्यादिषु पादयो नेति । किञ्च । अपत्याद्यर्थानामनुवृत्त्या तस्येदंविशेषतया वा यदि तत्र घादय इयरन् तर्हि माग्दीव्यतोणित्यत्रैवाणाक्षिभिः सह पञ्चरन् । ननु मा भूदपत्यादि
Page #138
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् । १३३
व्यावृत्तये शेषाधिकारः । तथापि साकल्यार्थः सः अन्यथा संनिहिते जातार्थ एव घादयः स्युः भवादौ तु प्राग्दीव्यत इति इति विशिष्टावधिपरिच्छिन्नेषु अर्थेषु विधीयमाना अणादय एव स्युर्न तु घादयः शेषशब्दात्तु सर्वेषु घादयः सिध्यतीति । मैवम् । जाताधिकारानन्तरमावृषष्ठवित्यादिभिः सह घादिषु वक्तव्येषु ततः प्राक् पाठसामर्थ्यादेवार्थसाकल्यलाभात् । तस्मात् शेष इति लक्षणं चाधिकारथेति वृत्तिरप्यसङ्गता । उभयत्रापि प्रयोजनस्य दुर्लभत्वात् । अत्रोच्यते । शैषिकत्वप्रयुक्तं कार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकारो ज्ञापयति ।
शैषिकान्मत्वर्थीयाच्छैषिको मतुबर्थिकः ॥ सरूपः प्रत्ययो नेष्टः सन्नन्तान सनिष्यत ॥ इति ।
एतच सन्विधौ मतुब्विधौ च भाष्ये पठितम् । अस्यार्थः । शेषाधिकारे भवः शैषिकः । अध्यात्मादित्वादृञ् । मतुवर्थे भवो मतुवर्थीयः । गहादेराकृतिगणत्वाच्छ इति सन्विधौ हरदतः । रोगाख्यायामितिसूत्रे तु मत्वर्थाच्छ इति वार्तिकं व्याचक्षाणो हरदत्त आह । मतुना समानार्थो मत्वर्थः तस्मा त्स्वार्थे छः कुद्दधिकारे विधानसामर्थ्यात्कृत्संज्ञा कृदन्तत्वात् प्रातिपदिकत्वं बहुलवचनादभत्वेऽपि यस्योतिलोपः । बाहुलाकादेव कचिन्न । तसौ मत्वर्थ इति यथा । बाहुलकादेव मतुवशब्दादपि भवति । शैषिकान्मतुवर्थीयादिति यथा । मतुपोऽर्थो मतुबर्थः सोस्यास्तीति मतुबर्थिकः अत इतिठनाविति उन् । शैषिकप्रत्ययान्ताच्छैषिकः सरूपप्रत्ययो नेष्टः तद्यथा शालायां भवो घटः शालीयः । तत्र भवमुदकम् । पुनश्छो न
Page #139
--------------------------------------------------------------------------
________________
१३४
शब्दकौस्तुभे ।
भवति । विरूपस्तु स्यादेव तद्यथा अहिछत्रे भव आहिछत्रः । तत्र भव आहिछत्रीयः । दण्डोऽस्यास्तीति दण्डिकः । सोऽस्यास्तीति पुनष्ठञ् नेति तृतीये कैयटहरदत्तौ । इदं च मतुप्सूत्रस्थ. भाष्यापोलोचनमूलकम् । तत्र हि षष्ठयर्थे वृत्तं सप्तम्यर्थे व.
ते सप्तम्यर्थे वा वृत्तं षष्ठयर्थे इत्युक्तं तच्चावश्यं वक्तव्यम् । उनन्तादिनिरपि मा भूदित्येवमर्थम् । न हीनिठनोरथभेदः सुलभः सप्तम्यां च न तौ स्मृतावित्युक्तेरुभयोरपि षष्ठयर्थत्वात् । स्पष्टं चेदं पाश्चमिककैयटेऽपि । तस्मादिह दण्डिशब्दात् सप्तम्यर्थे यथा मतुब्भवति दण्डिमतीति एवं मत्वन्तादपि प्राप्तोऽनेन निषिध्यत इति तत्वम् । वद्विमदानित्यादिनैयायिकपयोगस्तु दोषव्यग्रस्तः । मतुबन्तान् मतुपो निषेधात् । तसावितिभत्वेन जश्त्वासम्भवाच । केचित्तु शाब्दिकम्मन्या घटत्वत्वमित्यादि नैयायिकप्रयोगमपि दूषयन्ति । तन्मन्दम् । त्व. तलोरशैषिकत्वात् । विकारावयवप्रत्ययेभ्यः प्रागेव हि शेषाधिकारः। सनन्तादिति । अत्रापि सरूप इत्यपेक्ष्यते सारू. प्येण चात्रार्यसादृश्यं लभ्यते सामर्थ्यात् । तेन स्वार्यसनन्तासन् स्यादेव जुगुप्सिषते मापांसिषत इति दिक् ।
राष्ट्रावारपाराद् घखौ ॥ ९३ ॥ आभ्या क्रमात् घखो स्तः । राष्ट्रियः । अवारपारीणा। अवारपाराद्विगृहीतादपि विपरीताचेति वक्तव्यम् । चाचनिकमेवेदम् । सूत्रे तु सङ्घातस्यैव ग्रहणम् । अन्यथा वैषम्यात् संख्यातानुदेशो न स्यात् । अवारीणः पारीणः।पारावारीणः । प्रकृतिविशेषात्सत्ययविशेष इत्येतावन्मात्रमिह प्रकरणे उच्यते । जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
Page #140
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् ।
ग्रामाद्यखौ ॥ ९४ ॥ ग्राम्यः । ग्रामीणः । उत्तरसूत्रे ग्रामादित्यनुवृत्तेढकापि। ग्रामेयकः।
कत्त्र्यादिभ्यो ढकञ् ॥ ९५ ॥ कुत्सितात्रयः कत्रयः । बहुव्रीहिर्वा । अत एव निपातनात्कोः कद्भावः । तेन कद्भावे त्रावुपसंख्यानमिति न कर्तव्यम् । कात्रेयकः । उम्भि पुष्कर मोदन कुण्डिन नगर माहिष्मती चर्मरावती । कुल्याया यलोपश्चेत्यन्तर्गणसूत्रम् । अत्र तृतीयो वर्णो लकार इत्येके । डकार इत्यन्ये ।
कुलकुक्षिग्रीवाम्यः श्वास्यलङ्कारेषु ॥ ९६ ॥ कौलेयकःश्वा। कौक्षयकोऽसिः। कोलोऽन्यः। कौक्षोऽन्यः। अवेयकोऽलङ्कारः । ग्रैवोऽन्यः।अयं योगः प्रत्याख्यातो भाष्ये । तथाहि । यदा कुशब्दश्च कुले वर्त्तते तदा तस्यापत्यमपि श्वैव । तत्रापूर्वपदादन्यतरस्यमिति ढकना सिद्धम् । कुलिग्रीवाशन्दाभ्यां तु दृतिकुक्षिकलशिवत्सस्त्यहेर्दन् । ग्रीवाभ्योऽण् चे. त्याभ्यां तत्र भव इत्यधिकृत्य पठिताभ्यां सूत्राभ्यां ढनि कृते अस्यलङ्ककारयोः स्वार्थिकः कन् भवति ।
नधादिभ्यो ढक् ॥ ९७ ॥ नादेयम् । माहेयम् । पूर्वनगरीति पठ्यते । पौर्वनगरेयम् । पूर्वनागरीति पागन्तरम् । प्रकृत्तित्रयशेदम् । पुरि बने गिरौ च भवं पौरेयं वानेयं गैरेयम् । नदी मही वाराणसी शरावती कौशाम्बीत्यादि ।
Page #141
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ दक्षिणादाजित्याजन्तमव्ययमिह गृह्यते पश्चात्पुरोभ्यां साहचर्यात् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । कयं तर्हि नृपः पुरस्थैः प्रतिरुद्धवा पश्चात्तनैश्चन नुद्यमानः । यन्त्रस्थसिद्धा. थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वमिति । अत्र केचित् । पश्चात्तन्वन्तीति कुसृष्टया व्याचक्षते । अन्ये दिग्देशवाचिनि पश्चाच्छन्दे सावकाशं त्यकं परत्वाहाधित्वा कालवाचकात् ट्युट्युलौ एव स्तः। अत एव धुप्रागितिसूत्रे प्राक्तनमित्युदाहृतं वृत्तौ परत्वाद्यतं बाधित्वा कालवाचिनष्टयुरिति न्यासकारादयश्च । नन्वेवं प्रकृते पश्चिमदेशस्थत्वस्यालाभादासङ्गतिः पश्चिमकालभवत्वस्य शब्देन लाभे सत्यर्थाद्देशस्यापि लाभादिति वदन्ति । तम अग्रादिपश्चाड्डिमजिति डिमचा ट्युट्युलोधिस्य दुर्वारत्वात् । तस्मात् बाधकविषयेप्युत्सर्ग इति कयश्चित्समर्थनीयम् ।
कापिण्याः फक् ॥ ९९ ॥ कापिशीशब्दात् फर शेषे । पो डीपर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा । वाइल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् । अवृद्धादपीति दुबोऽपवादः । वाडायनः । औयनः । पार्दायनः ॥
रङ्कोरमनुष्येऽण च ॥ १० ॥ रङ्कुशब्दादण् स्यात् चात् फक् अमनुष्येऽभिधेये । राडवो राङ्कवायणो वा गौः। रङ्कवो नाम जनपदः ततः प्राग्दीव्यतोऽण् प्राप्तः । तस्यावृद्धादपीति वुश् बाधकः । तस्य ओदेशे ठञ् । तस्य कोपधादण् । ततः कच्छा.
Page #142
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् ।
१३७
दिभ्यश्चेत्यण प्राप्तः ततः फगणौ विधीयते । कोपधत्वादे. वाणि सिद्धे रङ्कुशब्दस्य कच्छादिपाठो मनुष्यतत्स्थयोवुविधा नार्थः । अमनुष्ये किम् । रावको मनुष्यः । स्यादेतत् । रकोरित्येवं सूत्रमस्तु । कच्छादिषु पाठादणः सिद्धेः । मनुष्ये तु फगणौ बाधित्वा मनुष्यतत्स्थयोवुन् भविष्यति । येननाप्राप्तिन्यायेनापवादत्वात् । न च तत्स्थे फगणावेव स्त इति ज्ञापनार्थमिदमिति वाच्यम् । रायकः कम्बल इत्यत्र कुन एवेष्यमाणत्वात् । अत्र वृत्तिकाराः । मनुष्य इति पर्युदासात् प्राणिन्येव ष्फग्विधीयते तेन रावकः कम्बल इत्यत्र फङ् न । विशेषविहितेन ष्फकाऽणो बाधो मा भूदित्यण्ग्रहणमपि कर्त्तव्यम् । एतच भाष्यवार्तिकाभ्यां विरुध्यते । तथाहि । अमाणिन्यपि फकं स्वीकृत्य शेषस्तत्र प्रत्याख्यातः । आह च रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोवुविधानात् । तत्स्थे फगणोपिकमिति चेन्नानिष्टत्वात् । अण्ग्रहणानर्थक्यं च कच्छादिभ्योऽण्विधानात् ।
धुप्रागपागुदप्रतीचो यत् ॥ १०१ ॥
एभ्यो यत् । दिवि भवं दिव्यम् । प्राच्यम् । उदीच्यम् । इह मूत्रे दिवशब्दो दिवउदित्युत्वेन निर्दिष्टः न तु घुशब्दः व्याख्यानात् । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो न तु दन्त्योष्ठयः। यदिन्द्रप्रागपागुदक् । राजा वञ्जकमागपागुदगित्यादौ दर्शनात् । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमा इत्यमरः । प्रागादयः शब्दा द्विविधा अव्यया अनव्य याश्च । अस्तात्यन्ता अव्यया अन्ये तु न । विशेषानु
Page #143
--------------------------------------------------------------------------
________________
१३८
शब्दकौस्तुभे। पादानादुभयेऽपीह गृह्यन्ते । कालवाचिनोऽव्ययात्तु परत्वात ट्युट्युलौ । प्राक्तनम् ।
कन्थायाष्ठक् ॥ १०२ ॥ कान्थिकः।
वर्णौ वुक् ॥ १०३ ॥ वर्णी या कन्था ततो वुक् स्यात् । ठकोऽपवादः । यथा हि जातं हिमवत्सु कान्थकम् । वर्ण म नदः तत्समीपदेशो 'वर्णः अदूरभवश्वेत्यर्थे सुवास्त्वादिभ्योऽण् । तस्य जनपदे लुप् । न च प्रतिपदविधानाल्लुम्नेति वाच्यम् । मुवास्त्वादिपाठस्य जनपदादन्यत्र कृतार्थत्वात् । वार्णवो ग्रामो वार्णवं नगरमिति यथा । सूत्रे सप्तमीनिर्देशस्तु गम्यमानसतापेक्षः कारकाणां क्रिययैवान्वयस्थितत्वात् । तथा च व. ९ विद्यमाना या कन्थेति विवरीतव्यम् ।
अव्ययात्यप् ॥ १०४ ॥ अत्र वार्तिकम् । अमेहकतसित्रेभ्यस्त्यबिधिर्योऽव्ययात् स्मृतः । अमात्यः । अमान्तिकसहार्थयोरिति मेदिनी । इहत्यः। कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः । पारतः । विभाषापरावराभ्यामित्यमुजन्तः परतः शब्दः ततोऽण् । अव्ययानां ममात्रे टिलोपः । बहिषष्टिलोपविधानात् ज्ञापकादनित्योऽयम् । तेनेह न । आरातीयः । . दाच्छ इति छः । त्यन्नेधुव इति वक्तव्यम् । नित्यः । निसो गते इति वक्तव्यम् । निष्टयः । निर्गत इत्यर्थः । निर्गतो व. र्णाश्रमेभ्यो निष्टयश्चण्डालादिरिति तु वृत्तिकाराः । इस्वात्तादौ
Page #144
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् ।
१३९
तद्धित इति षत्वम् । तकारस्य ष्टुत्वम् । अरण्याण्णः | आरण्याः सुमनसः । दूरादेत्यः । दूरेत्यः । उत्तरादाहञ् । औत्तराहः । यदा तु उत्तरादाहिप्रत्यये ततोऽणू क्रियते तदौत्तराशदोऽन्तोदात्तोऽपि भवति । अव्ययान्यप्याविष्टयस्योपसंख्यानं छन्दसि । आविष्टो वर्द्धते चारूरासु । आविर्भूत इत्यर्थः ॥
ऐषमोह्यःश्वसोऽन्यतरस्याम् ॥ १०५ ॥
एभ्यस्त्यब् वा । पक्षे ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्त्यनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे ठकि श्वसस्तुट् चेति तुट् । शौवस्तिकम् ।
तीररूप्योत्तरपदादञ्जौ ॥ १०६ ॥
यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरुप्यम् । तीररूप्यान्तादिति तु नोक्तम् बहुचपूर्वान्मा भूत् । बाहुरूप्यम् | दिक्पूर्वपदादसंज्ञायां ञः ॥ १०७ ॥
अणोऽपवादः । पौर्वशालः । दाक्षिणशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशमी । दिक्संख्ये संज्ञायामिति समासः । ततोऽणेव । प्राचां ग्रामनगराणामित्युत्तरपदवृद्धिः । पूर्वेषुकामशमः । पदग्रहणं किम् । स्वरूपग्रहणं मा भूत् । एवं हि दिग्गज इत्यादावेव स्यात् । पदग्रहणसामर्थ्यात्तु व्यधिकरणपदो बहुव्रीहिः । दिशो वाचकं पूर्वपदमस्मिन्निति ।
मद्रेभ्योऽञ् ॥ १०८ ॥
दिक्पूर्वपदादित्येव । पौर्वमद्रः । आपरमद्रः । मट्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन सामानाधिकररायात्तद्धितार्थ
Page #145
--------------------------------------------------------------------------
________________
१४०
शब्दकौस्तुभे ।
इति समासः । दिशोऽमद्राणामिति पर्युदासादादिवृद्धिः । मद्रेभ्य इति बहुवचननिर्देशात् जनपदवाची गृह्यते न तु भद्रपर्यायः ॥
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ १०९ ॥
अस्मादञ् । अणोऽपवादः । दिग्ग्रहणं निवृत्तम् । शिवपु. र । शैनपुरम् । प्रस्थपुरवहान्तादिति बुञ् न भवति । वृद्धादिति हि तत्रानुवर्तते । उदीच्यग्रामात्किम् । माथुरः । मध्यदेशग्रामोऽयम् । बहुचः किम् । ध्वनी । पिप्यल्यादिङीषन्तो. ऽयम् । तत्राणेव । अन्तोदात्तात् किम् । शार्कराधानम् । धानशब्द उदात्तः लित्स्वरे कृते कृदुत्तरपदप्रकृतिस्वरात् ।।
प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ११०॥ एभ्योऽण् स्यात् । पूर्वसूत्रस्यापवादः । माहकिप्रस्थः । प्रस्थान्तेति तु नोक्तम् । उत्तमकीर्णीप्रस्थ इ. त्यस्मान्मा भूदिति । पालदः । पारिषदः । वाहीकशब्दोऽत्र पठ्यते । वृद्धाच्छं बाधितुम् । कोपधादण् तु अ. वृद्ध सावकाशः । निलीनकालीनकमिति यथा । यकल्लोमशब्दोऽत्रपठ्यते । यकृल्लोमनि भवो याकुल्लोमः । अनिति प्रकृतिभावो न । गणे नलोपनिपातनात् ।।
करावादिभ्यो गोत्रे ॥ १११ ॥ कएवादिभ्यो गोत्रे यो विहितः प्रत्ययः यमिति यावत् तदन्तेभ्यस्तेभ्योऽण् स्याच्छये । छस्यापवादः । काएवाश्छात्राः॥
इञश्च ॥ ११२ ॥ गोत्रे य इन तदन्तादण् स्यात् । दाक्षाः । गोत्र इति किम् । सौतगङ्गमेरिदं सौतङ्गमीयम् । गोत्रं चेह शास्त्रीयं न
Page #146
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् ।
१४१
।
तु लौकिकमित्युक्तं वृद्धिर्यस्येतिसूत्रे तेनेह न पाणिनीयम् । न द्व्यचः प्राच्यभरतेषु ॥ ११३ ॥
इञश्वेति प्राप्तोऽणु प्रतिषिध्यते । पैङ्गीयाः । प्राष्ठीयाः । काशीयाः । वाशीयाः । काशिवाशि एतौ भरतौ माच्यत्वेऽपि पृथगुपात्तौ प्राच्यग्रहणे भरतानामग्रहणस्य द्वितीये ज्ञापितत्वात् । न च काशिशब्दात्काश्यादिभ्यष्ठञ्जठौ कथं नेति शङ्क्यम् । चेदिशब्दसाहचर्यादेशवाचिन एव काशिशब्दस्य तत्र ग्रहणम् ! अतो गोत्रान्ताच्छ एवेति सिद्धान्तात् ।
वृद्धाच्छः ॥ ११४ ॥
शालीयः । मालीयः । अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधीनयं परत्वाद्वाधते । तथाहि । छस्य तेषां चावकाश उदाहरणेषु स्पष्ट एव । आरातीय इत्यत्र त्यपं बाधित्वा छः । अमेहेत्यादिपरिगणनमनाश्रित्येदमुक्तम् । वायसतीर | वायसतीरीयः । रूप्योत्तरपदेन सह छस्य विप्रतिषेधः प्राप्तिमात्राश्रयेणोच्यते । माणिरूप्यक इत्यत्र हि योपधलक्षणो वुञ् छं बाधते । वाडवकपयः । उदीच्यग्रामोऽयम् । उलूका अस्मिन् मन्ति लूको नाम ग्रामः । तदस्मिन्नस्तत्यिण् । तत्र भव औलूकीयः । प्रस्थोत्तरेत्यादिना प्राप्त छो वाघते । यस्तु कोपधादण् इत्यण् स जनपदञोऽपवादः । तस्यापि वृद्धादकेकान्तेत्यत्र कोपधग्रहणं सौसुकाद्यर्थमिति । विहितश्छो बाधक इति स्थितिः ।
1
भवतष्ठक्छसैौ ॥ ११५ ॥
वृद्धाद् भवत एतौ स्तः । भावत्कः । भवदीयः । मक्रि
Page #147
--------------------------------------------------------------------------
________________
१४२
शब्दकौस्तुभे । यालाघवाय कगेव क्रियतामिति चेत् न । भावत्कीति डीबर्थ ठकरणात् । छसः सकारः सितिचेति पदसंज्ञार्थः । अत एव नायं शकारादिः । तथाहि सति सित्वं व्यर्थ स्यात् । दृद्धादित्यनुत्तेः शचन्तादणेव । भावतः ।
काश्यादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ इकार उच्चारणार्थः । अकार एवोभयत्राप्यनुबन्धः । तस्य विपर्यासस्तु स्वीप्रत्यये विशेषार्थः । काशिकी । काशिका । चैदिकी। चैदिका । वृद्धादित्यनुवर्तते । तेन वाहीकग्रामवाचिनो देवदत्तशब्दस्यावृद्धत्वाइञ्जिठौ न किं त्वणेव । देवदत्तः । एङ् प्राचामित्यत्र हि प्राग्ग्रहणं विकल्पार्थमिति कुणिमते भा. ध्यमते च व्यवस्थितविभाषाश्रयणादमाग्देशवाचिनो न वृद्धसंज्ञेत्युक्तम् । प्राचामिति देशविशेषणतया व्याचक्षणस्य जयादित्यस्य तु मते क्षमेचावृद्धत्वं प्राग्देशवाचिनस्तु मतद्वयेपि - दत्वात् ठञ्जिठौ स्त एव । दैवदत्तिकी । देवदत्तिका । कथं तर्हि वा नामधेयस्येति वार्चिके देवदत्तीया इति छो भाष्यादावुदा. हृत इति चेत् । अत्र वृत्तिकारः । व्यवस्थितविभाषाश्रयणाच्छे कर्तव्ये एव वृद्धसंज्ञा न तु ठविठोरिति । इह कुमारयुवराजादयः पठ्यन्ते तेषामद्धत्वेऽपि पाठसामाहजिठौ । आपदादिपूर्वपदाकालान्तादित्यन्तर्गणसूत्रम् । आपदादिराकृतिगणः। आपत्कालिकी । आपत्कालिका। आर्धकालिकी। आर्द्धकालिका।
वाहीकग्रामेभ्यश्च ॥ ११७ ॥ वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठनिठौ स्तः । छस्यापवादः । ये तु अव्ययतीरत्यादिना छस्य बाध्या उक्तास्ते कै.
Page #148
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् । १४३ मुतिकन्यायेन बाध्यन्ते । तथाहि । आरानाम वाहीकग्रामः । आरात्की । आरात्की । आरात्का । इसुसुक्तान्तात्कः । तथा कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका । दशरूप्यन्नाम वाहीकग्रामः । धन्वयोपधादिाते वुन् ठबिठौ बाधते । दाशरूप्यकः । तथा शकलानि सन्त्यस्मिन् शाकलं नाम उदीच्यनामान्तभूतो वाहीकग्रामः ततष्ठनिठावेव । शाकलिका । अत्रत्यभाष्यबलादेव प्राच्योदीच्यभिन्नत्वं बाहीकत्वमिति विवरणमुपेक्ष्यम् । किन्तु सिन्धुनदषष्ठानां शतद्रादिपश्चनदीनां मध्यदेशविशेष एव वाहीक इत्युपपादितमे प्राचामिति सूत्रे । प्रकृतमनुसरामः । सौमुकं नाम वाहीकग्रामः । प्रस्थोत्तरपदेत्यादिना प्राप्तं कोपधलक्षणमणञ्छो बाधते । परत्वात् । तमप्यपवादत्वात् ठठिौ । वृद्धादकेकान्तेति सूत्रे कोपधग्रहणं कर्तव्यं सौसुकाद्यर्थमिति वक्ष्यमाणश्छस्तु अपवादत्वात्तावपि बाधत इति । सौमुकीयः।
विभाषोशीनरेषु ॥ ११८॥ उशीनरेषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठनिठौ वा स्तः । सौदर्शनीयः।
ओर्देशे ठञ् ॥ ११९ ॥ वृद्धादिति निवृत्तम् । उत्तरमूत्रे पुनद्धग्रहणात् । उवर्णान्ताद्देशवाचिनः ठञ् । निषादकर्पू । नैषादकर्षकः। केण इति हस्तः । देशे किम् । पटोछात्राः पाटवाः । विठं व्यावयितुं ठग्रहणम् । वृद्धाच्छं परत्वाद् बाधते । दाक्षिकर्षुकः ।
वृद्धात् प्राचाम् ॥ १२० ॥
Page #149
--------------------------------------------------------------------------
________________
१४४
शब्दकौस्तुभे। __ प्रारदेशवाचिनो वृद्धादेवेति नियमार्थ सूत्रम् । आइक. जम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु माल्लवास्तवः ।
धन्वयोपधाद वुञ् ॥ १२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद वुञ् स्यात् । धन्वेति विशेषग्रहणं नतु स्वरूपपर्यायग्रहणम् । वृद्धत्वासम्भवात् । पारधन्वकः । धन्धनः पारमिति विग्रहे पारे मध्ये पष्ठ्या वेत्यव्ययीभावः । अनश्चेति टच् समासान्तः वुनि यस्येति लोपः । समानौ मरुधन्वानौ इत्यमरः । नपुंसको ऽपि धन्वशब्दोऽस्ति । आष्टकं नाम धान्वेति इस्वपाठात् । तेन विग्रहे नपुंसकादन्यतरस्यामिति टनभावपक्षे वुनि नस्तद्धित इति टिलोपः । ऐरावतं धन्य । ऐरावतकः । योपध । सांकाश्यकः । काम्पिल्यकः । साङ्काश्यकाम्पिल्यौ वुञ्छणादिमुत्रे. ण ण्यान्तो।
प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ एतदन्ताद् द्धाद्देशवाचिनो वुञ् । छापवादः । वृद्धा. दित्यनुवृत्यैव स्वरूपग्रहणे निरस्ते पूर्वमूत्र इव विशेषग्रहणं मा भूत् इत्यन्तग्रहणम् । मालाप्रस्थकः । नान्दीपुरं नाम वाहीकेषु ग्रामः तत्र वाहीकग्रामलक्षणो ठमिठो छस्यापवादौ वुनप्येवम् । तत्रापवादविप्रतिपेधाद् वुव । नान्दीपुरकः । एवं पातनप्रस्थकः । कौजीवहकः । पुरान्तग्रहणमप्रागर्थ प्राग्देशे तत्रेणेव सिद्धम् । रोपधत्वात् ।
रोपधतोः प्राचाम ॥ १२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाव वुत्र स्यात्
Page #150
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् ।
१४५
छस्थापवादः । पाटलिपुत्रकः । ऐकचक्रः । एकचक्रा नाम प्राग्देशनगरी । तत्र एङ् प्राची देश इति वृद्धसंज्ञा । ईत इति दीर्वग्रहणं व्याख्यानात् । इस्त्रान्तस्य प्राग्देशवाचिनो ऽसम्भवाच्च । ककन्देन नित्ता नगरी काकन्दी स्त्रीषु सौवीरसाल्वपाक्ष्वित्यब् । तत्र भवः काकन्दकः । तपरकरणं विस्पष्टार्थम् ।
जनपदतदवध्योश्च ॥ १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धात् प्रातिपादिका. द् बुञ् स्यात् । आदर्शकः । तदवधिरिति कर्मधारयः । नतु षष्ठीतत्पुरुषः । तथाहि सति मौजी नाम वाहीकानामवधिभूतो ग्रामः तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । अवधित्वं च सन्निधानाजनपदं प्रत्येव । किमर्थं तर्हि तदवधिग्रहणमिति चेत् । उत्तरसूत्रे वाधकबाधनार्थमिति गृहाण । तथाहि । गतॊत्तरपदाच्छो भवतीत्यस्यावकाशः । वृकगीयः । जनपदवुनो ऽवकाशः। आङ्गकः । त्रिगर्त शब्दादुभयप्रसङ्गे परत्वाच्छः स्यात् । वुबेव विष्यते । त्रैगर्तक इति । तथा च । गतॊत्तरपदाच्छविधेर्जनपदाद् वुञ् विप्रतिषेधेनेति न कर्त्तव्यं भवति ।
अवृद्धादपि बहुवचनविषयात् ॥ १२५॥ अवृद्धावृद्धाच जनपदावधिवाचिनो बहुवचनविषयात् प्रातिपदिकाद् वुन् स्यात् । अण्छ योरपवादः। अवृद्धादणो वृद्धाच्छस्य प्राप्तेः । अद्धाजनपदात् । अङ्गाः । वङ्गाः । कलिङ्गाः । आगकः । वाङ्गकः । कालिङ्गकः । सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्ये. त्युक्तं येनविधिरिति सूत्रे । सुपाञ्चालकः । अदाजनपदावधेः अजमीढाः । अजक्रन्दाः। आजढिकः। आजक्रन्दकः । इदाजन
शब्द. तृतीय. 10.
Page #151
--------------------------------------------------------------------------
________________
१४६
शब्द कौस्तुभे ।
पदात् । दार्श्वकः । वृद्धाज्जनपदावधेः । कालञ्जराः । वैकुलिशाः । कालिञ्जरकः । वैकुलिशकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्त्तनी च वर्तन्यः तासु भवो वार्त्तनः । ननु वृद्धात्पूर्वेण सिद्धे तत्किमपिग्रहणेन । अत्राहुः | तक्रकौण्डिन्यन्यायेन बाधा मा भूत् । तथाहि । पूर्वसूत्रेण जनपदसामान्ये वृद्धात् बुयुक्तः । यथा ब्राह्मणसामान्ये दधि । इह तु बहुवचनविषये विशेषेऽवृद्धाद्वुञ् । यथा कौण्डिन्ये तक्रम् | ततश्च बहुवचनान्तादपि वृद्धाद् वुबि प्राप्ते आरभ्यमाणेनावृद्धाद् वुबा वृद्धाद्वुञो बाधो मा भूदिति तस्य समुच्चयार्थोऽपिशब्दः । नन्वेवं बहुवचनविषयादित्येवास्तु | अवृद्धार्थोयं योगो भविष्यति | सत्यम् | वृद्धाधिकार विच्छेदार्थमवृद्धादपीत्युक्तमित्याहुः । कच्छामित्रक्रवत्र्त्तेत्तरपदात् ॥ १२६ ॥
1
कच्छायुत्तरपदाद्देशवाचिनो वृद्धादवृद्धाच्च वुञ् । छाणोरपवादः । दारुकच्छकः । पैंप्पलीकच्छकः । काण्डानकः । वैभुजा - प्रकः । तेंदुवत्रकः । सैन्धुवत्ककः । बाहुवर्त्तकः । वाक्रवर्त्तकः ।
धूमादिभ्यश्च ॥ १२७ ॥
एभ्यो देशवाचिभ्यो वुञ् स्यात् । धौमकः । पाथेयशब्दोऽ त्र पठ्यते तस्य योपधत्वादेव वुनि सिद्धे सामर्थ्याददेशार्थं वचनम् । तथा विदेहानर्त्तशब्दयोर्जनपदलक्षगे वुत्रि सिद्धेऽदेशार्यः पाठः । विदेहानां क्षत्रियाणां स्वं वैदेहकम् । आनर्त्तकम् | कुलात् सौवीरेष्विति पठ्यते । कौलकः । सौवीरचेत् । कौलमन्यत्र । समुद्रान्नात्रि मनुष्ये च । सामुद्रिका नौः । सामुद्रको मनुष्यः । नेह | सामुद्रस्तरङ्गः । तीर्थ । तैर्थकः ।
1
Page #152
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् । १४७ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ नगराद् वुञ् कुत्सने प्रावीण्ये च गम्यमाने । प्रत्ययार्थवि. शेषणं चेदम् । कुत्सिते प्रवीणे च जातादौ प्रत्ययार्थे इति यावत् । नागरकश्चौरः शिल्पी वा । एतयोः किम् । नागरा ब्राह्मणाः । अञ् । न च कादिषु नगरशब्दस्य पाठात् ढकञ् शयः । तत्र माहिष्मतीसाहचर्यात् संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणात् । तत्र तु नागरेयकमिति भवत्येव ।।
__अरण्यान्मनुष्ये ॥ १२९ ॥
बुब् । अरण्याणो वक्तव्य इत्यौपसंख्यानिकस्य णस्यापवादः । अत्र भाष्यम् । पथ्यध्यायन्यायविहरमनुष्यहस्तिष्विति वक्तव्यम् । आरण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा। वा गोमयेष्विति वक्तव्यम्। आरण्यका आरण्या वा गोमयाः ।
विभाषा कुरुयुगन्धराभ्याम् ॥ १३०॥
आभ्यां वा वुञ् । कौरवकः । कौरवः । यौगन्धरकः । योगन्धरः । युगन्धरार्थ विभाषाग्रहणम् । कुरुशब्दस्य कच्छादिपाठादेवाणः पक्षे सिद्धत्वात् । अवृद्धादपीति प्राप्तऽपि जनपदलक्षणो वुञ् अणा मा बाधीति स एव परं विधेयः । मनुष्यतत्स्थयोस्तु कुरुशब्दानित्य एव बुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितमिति । यथा एतदर्थमेव हि कच्छादिषु कुरुशब्दः पठ्यते । अन्यथाऽनयैव विभाषया वुबणोः सिद्धौ किं तेने. ति हरदत्तः। यत्तु वृत्तावुक्तं जनपदशब्दावेतौ ताभ्यामद्धा. दपीति नित्ये वुनि प्राप्ते विकल्पोऽयमिति तत्प्रथमप्राप्त्यभिप्रायकम् ।
Page #153
--------------------------------------------------------------------------
________________
१४८
शब्दकौस्तुभे ।
मद्रवृज्योः कन् ॥ १३१ ।। आभ्यां कन् । जनपदवुञोऽपवादः । मद्रेषु जातः । मद्रकः । वृजिकः ।
कोपधादण् ॥ १३२ ॥ जनपदवुनोऽपवादः । ऋषिकेषु जात आर्पिकः । माहिपिकः । इह देश इत्यनुवर्तते वृत्तौ तचोत्तरार्थ न त्वदेशनिवृत्त्य. र्थम् । तत्र हि :प्राग्दीव्यत इत्यण भवत्येव । प्रस्थोत्तरपदादिसूत्रं तु उदीच्यग्रामलक्षणस्यानो बाधनार्थम् । स्यादेतत् । इहाणग्रहणं मास्तु । कोपधादित्युक्ते आरम्भसामथ्योद् यो विहितो न च प्राप्नोति स एव प्रतिप्रसोष्यते । मैवम् । इक्ष्वाकुशब्दादोर्देशे ठञ् प्राप्तः तस्मिन् जनपदबुना बाधिते यद्यण्ग्रहणं न क्रियते ततष्ठव स्यात् । सिद्धान्ते त्वणेव सिध्यति । ऐक्ष्वाकः । दाण्डिनायणादिसूत्रेण टिलोपः ।
कच्छादिभ्यश्च ॥ १३३ ॥ एभ्यो देशवाचिभ्योऽण् स्यात् । वुबादेरपवादः। काच्छः। सैन्धवः । कच्छशब्दो न बहुवचनविषयः तस्य मनुष्यतत्स्थयावुनर्थः पाठः। विजापकशब्दः पठ्यते तस्य कोपधत्वादेवाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ सिन्धु बहुडव वर्गु गन्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अणु खण्ड द्वीप अ. नप अजवाह विजापक कुलूत कच्छादिः ।
___ मनुष्यततस्थयोवुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । अणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः।काच्छकं हसितं जल्पितम् । काच्छिका चूडा । मनु
Page #154
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ आह्निकम् । १४९ ध्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवः । वार्णवः ॥
अपदातौ सात्त्वात् ॥ १३५ ॥ साल्वशब्दस्य कछादिपाठात् पूर्वेण वुनि सिद्ध नियमार्थ सूत्रम् । अपदातावेवेति । नेह । सात्वः पदातिव्रजति ।
गोयवाग्वोश्च ॥ १३६ ॥ साल्वाद् कुञ् स्यात् । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ।
गतॊत्तरपदाच्छः ।। १३७ ॥ देश इत्येव । अणोऽपवादः। वाहीकग्रामलक्षणौ तु ठञ् बिठौ परत्वादयं बाधते । वृकगीयम् । शृगालगीयम् । श्वाविद्गीयम् । उपरपदग्रहणं वहुचपूर्वनिरासार्थम् । त्रैगर्तक इत्यत्र तु वुअव भवति । तदवधिग्रहणादित्युक्तम् ।
गहादिभ्यश्च ॥ २३८ ॥ एभ्यश्छः स्यात् । माहिकपस्थशब्दात्पस्थपुरवहान्ताचेति बुधि प्राप्ते वाल्मीकिप्रभृतिभ्य इबश्चत्यणि प्राप्ते शेषेभ्य औ. त्सर्गकेऽणि प्राप्तेऽथमारम्भः । देशाधिकारेऽपि संनियोगेन मध्यममापद्यते । मध्यमीयः । चरणे तु प्रत्ययार्थेऽण् । माध्यमाः। तदेतद्विशेषे एव स्मर्यते । पृथिवीमध्यस्य मध्यमभावश्चरणसम्बन्धेन निवासलक्षणोऽणिति । पृथिवीमध्यवाचिन एव मध्यशब्दस्यादेशो न तु मध्यान्तरवाचिनः । चरणसम्बन्धेन योऽण् स निवासलक्षणो बोध्यः । सोऽस्य नि. वास इत्यत्रैवार्थे भवति नान्यस्मिन्नित्यर्थः । तथा च पृथि. वामध्ये जात एव मध्यमीयः न त्वन्यः । माध्यमास्तु पृथि
Page #155
--------------------------------------------------------------------------
________________
१५०
शब्दकौस्तुभे। धीमध्यनिवासिन एव चरणा न त्वन्येऽपि तेन पृथिवीमध्यादागताश्चरणा इत्यर्थे मध्यमीया इत्येव भवति । मुखपाशर्वतसोर्लोपश्च । मुखतीयम् । पार्श्वतीयम् । आधादित्वात्तसिः । अलोन्त्यस्येति सकारलोपे कृते यस्येतिचेति अकारलोपः । अव्ययानां भमात्रे टिलोप इत्यस्यानित्यतां ज्ञापयितुं चेदम् । तेनारातीयः सिद्धः। कुग् जनस्य परस्य च । जनकीयम् । परकी. यम् । देवस्य च । देवकीयम् । वेणुकादिभ्यश्छण् वक्तव्यः । वैणुकीयम् । वैत्रकीयम् । औसरपदकीयम् । प्रास्थकीयम् । आकृतिगणोऽयम् । तेन स्वशब्दात् स्वार्थकनन्ताच्छे स्वकीयम् । तथा च लुब्योगाप्रख्यानादित्यत्र नहि स्वकीय. स्यैव प्रत्याख्यानमिति न्यासः । केवलस्वशब्दात् सौवम् । द्वारादीनाश्चेति सूत्रे सौवं मुहूर्तम् । स्वीयमिति तु प्राक्क्रीताच्छः। चान्द्रास्तु स्वजनपरदेवराज्ञां कुक् चेति सूत्रयन्ति । तत्र राज्ञो नलोपे यवान्तरमन्वेषणीयम् । अन्तरशब्दाद्हादित्वाच्छे नशब्देन समासे नान्तरीयकमिति । अविनाभूतमित्यर्थः ।
प्राचां कटादेः ॥ १३९ ॥ प्राग्देशवाचिनः कटादेश्छः। अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्बलीयम् । राज्ञः क च । अस. म्भवादिह देशो न सम्बध्यते । वृद्धत्वाच्छे सिद्ध तत्सनियोगेन कादेशमात्रं विधीयते । राजकीयम् ।
वृद्धादकेकान्तरोपधात् ॥ १४ ॥ अक इक एतदन्तात् खोपधाच वृद्धाद्देशवाचिनश्छः । कोपधलक्षणस्याणो वाहीकग्रामलक्षणयोष्ठअिठोः रोपधेतोरिवि पुनश्चापवादः। ब्राह्मणको नाप जनपदः यत्र ब्राह्मणा आ
Page #156
--------------------------------------------------------------------------
________________
४ अध्याये २ पादे २ मलिकम् । १५१ युधजीविनः । ब्राह्मणकोष्णिके संज्ञायामिति विपातनात्साधुः। तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयम् । अत्र वार्तिकम् । अकेकान्तग्रहणे कोपधग्रहणं कर्त्तव्यं सौसुकाद्यर्थमिति । सूत्रे अकेकान्तग्रहणमपनीय कोपधादितिकर्त्तव्यं व्यापकत्वाल्लघुत्वाचेत्यर्थः । सौसुकीयम् । ऐन्द्रवेणुकीयम् ॥
कन्थापलदनगरग्रामहृदोत्तरपदात् ॥ १४१ ॥
कथादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । ठमिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दा. क्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहदीयम् ।
पर्वताच्च ॥ १४२॥ पर्वतीयः । कथं तर्हि तत्र जन्यं रघो?रं पार्वतीयैर्गणैरभूदिति कालिदासः । उच्यते पर्वतीयस्य राज्ञ इमे पार्वतीया इत्यर्थे तस्येदमित्यण् असरूपत्वाच्छैषिकादित्यादिना निषेधो न।
_ विभाषा ऽमनुष्ये ॥ १४३ ॥ मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीया. नि पार्वतानि वा फलानि | अमनुष्ये किम् । पर्वतीयो मनुव्यः । इह नित्यश्छः । अमनुष्यशब्द इह यौगिको गृह्यते न तु रक्षःपिशाचादौ रूढः । व्याख्यानात् ।
कृकणपर्णाद्वारद्वाजे ॥ १४४ ॥ भारद्वाजदेशवाचिभ्यां कुकणपर्णचन्दाभ्यां छ: स्यात् । कृकणीयम् । पर्णीयस् । भारद्वाजे किम् । कार्कणम् । पार्णम् ।
Page #157
--------------------------------------------------------------------------
________________
१५२
शब्दकौस्तुभे ।
इति श्रीशब्दकौस्तुभे चतुर्थाध्यायस्य द्वितीयेपादे द्वितीयमाह्निकम् । पादश्च द्वितीयः समाप्तः ॥ _युष्मदस्मदोरन्यतरस्यां खञ् च ॥१४५ ॥
इह योगविभागो बोध्यः । तेन यथासंख्यं न । युष्मदस्मदोरन्यतरस्याम् । आभ्यां छो वा । त्यदादीनि चेति वृद्ध. त्वानित्ये प्राप्ते विकल्पोऽयम् । पक्षे अण् । युष्माकमयं युष्मदीयः । यौष्माकः । अस्मदीयः । आस्माकः । ततः खञ्च । यौष्माकीणः । आस्माकीनः ॥
तस्मिन्नणि च युष्माकास्माकौ ॥ १४६ ॥ एतयोरेतावादेशौ स्तः खभि अणि च । योष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । खमणोः किम् । युष्मदीयः । अस्मदीयः । इहापि योगविभागो बोध्यः । ते. नादेशयोः खग्भ्यां यथासंख्यं न । तस्मिन् युष्माकास्माकौ। तस्मिन् रवत्रीत्यर्थः। ततः अणि च । स्पष्टम् । यद्वा लाघवार्थ खाणोरिति वक्तव्ये तस्मिन्नणि चेति गुरु. करणं वाक्यभेदं सूचयति । तेनेष्टसिद्धिः।
तवकममकावेकवचने ॥ १४७ ॥ एकार्थवाचिनी ये युष्मदस्मदी तयोस्तवकममको स्तः खभि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । खत्रणोः किम् । त्वदीयः । मदीयः ।
अाद्यत् ॥ १४८॥ अर्ध्यः । सपूर्वपदात ठञ् वक्तव्यः । वल्यर्थं वस्तु बाले. यं तस्याईमेकदेशः तत्र भवो वालेयार्धिकः ।
Page #158
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १५३ परावराधमोत्तमपूर्वान ॥ १४९ ॥ एतत्पूर्वादर्धाद्यत् । परायम् । अवरायम् । अधमार्यम् । सपूर्वादित्यौपसंख्यानिकस्य ठनोऽपवादोऽयं यत् । ननु सूत्रे परादिभ्य इति पञ्चम्येवास्तु किं पूर्वग्रहणेन । सत्यम् । शब्दाधिक्यादर्थाधिक्यमिति न्यायेन पूर्वविप्रतिषेधसूचनार्थ ग्रहणम् । तेन दिक्शब्दाभ्यां पूर्वावराभ्यामर्द्धशब्देन सह समासे परावपि ठब्यतो बाधित्वा यदेव भवति । पराय॑म् । अवराय॑म् ।।
दिक्पूर्वपदाट्ठञ्च ॥ १५० ॥ दिक्पूर्वपदादर्धान्तात् ठञ् स्याचाद्यत् । पौर्वार्षिकम् । पूर्वायम् । दाक्षिणार्षिकम् । दक्षिणाय॑म् ।
ग्रामजनपदैकदेशादौ ॥ १५१॥ ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादनौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौ. वर्धाः । पौर्वाधिकाः । दाक्षिणार्दाः । दाक्षिणाधिकाः । ग्रामस्य पूर्वस्मिन् अर्द्ध भवा इति तद्धितार्थे समासः । ततः प्र. त्ययः । अर्द्धशब्दस्य नित्यसापेक्षत्वात्समासतद्धितत्तिनिहिः । ठग्रहणं स्पष्टार्थम् । अञ् चेत्युक्ते हि यतोऽप्यनुकर्षः सम्भाव्येत ।
मध्यान्मः ॥ १५२ ॥ मध्यमम् । अत्र वृत्तिकारः । आदेश्च । अवोधसोर्लोपश्चे. ति पठित्वा । आदिप: । अवमः । अधम इत्युदाजहार । तत्रादिम इति रूपम् अग्रादिपवाडिमजितिवार्तिकेन सिद्धम् ।
Page #159
--------------------------------------------------------------------------
________________
१५४
शब्दकौस्तुभे।
अ सांप्रतिके ॥ १५३ ॥ मध्यशब्दादकारप्रत्ययः स्यान्मस्यावादः साम्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिइस्वं नातिदीर्घमित्यर्थः । सम्प्रतीत्यव्ययं प्रज्ञादौ पठ्यते । तच न्याय्ये वर्त्तते । तथाच प्रयुज्यते । अनाप्तश्चतूरात्रोतिरिक्तः पात्रः स वा एष सम्प्रति यज्ञो यत् पञ्चरात्र इति । न न्यूनो नातिरिक्तः सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिदमेव । ततोऽण् । सांप्रतं सम्प्रतीति पर्यायौ ततो विनयादेराकृतिगणत्वात् स्वार्थे ठगिति न्यासकारः ।
___ द्वीपादनुसमुद्रं यञ् ॥ १५४ ॥
समुद्रं समया अनुसमुद्रम् । अनुयत्समयेत्यव्ययीभावः । सप्तम्यन्तश्चेदं द्वीपविशेषणं विद्यमान इति क्रियाद्वारकम् । समुद्रसमीपे यो द्वीपस्तद्विषयात् द्वीपशब्दाद्यत् स्यात् । कच्छाधणो ऽपवादो मनुष्यवुनश्च । द्वैप्यम् । अनुसमुद्रं किम् । द्वैपमन्यत् ।
कालाट्ठञ् ॥ १५५ ॥ कालविशेषार्थकेभ्यष्ठञ् स्यात् । वृद्धाच्छं परत्वाद्वाधते । मासिकम् । आर्द्धमासिकम् । सांवत्सरिकम् । स्वरूपस्य पर्यायाणां चेह न ग्रहणम् । ज्ञापकात् । तथाहि । सन्धिवेला. त्रयोदशीप्रभृतिभ्योऽद्धेभ्योऽण् विधीयते तच्च ठनो बाधनार्थम् । अर्थग्रहणे च तेभ्यष्ठत्रः प्रसङ्गो न त्वन्यथा । गौणमुख्य. न्यायो नेहाश्रीयते। सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन न. क्षत्राणां विशेषणात् । ननु पुष्यादिशब्दाना कालो मुख्योऽर्थः। लुबविशेष इति व्युत्पादनादिति चेत् । मैवम् । पुष्यादिसमीप.
Page #160
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आदिकम् । १५५ स्थेन चन्द्रमसा योगाल्लक्षितलक्षणया हि काले वृत्तिः सैव लुप्द्वारान्वाख्यायते पौषादिनिवृत्त्यर्थम् । न त्वेतावता कालो मुख्योऽर्थः अनन्यलभ्यस्यैव शब्दार्थत्वात् । तेन कदम्बपुष्पसाहचर्यात् कदम्बः पुष्पकालः । व्रीहिपलालसाहचर्याद्रीहिपलालः । तत्र भवं कादम्बपुष्पिकम् । ढहिपलालिकमिति सिद्धम् । कथं तर्हि शार्वरस्य तमसो निषिद्धय इति कुमारः । अनुदितौ. पसरागतेति भारविश्च । प्रमाद एवायमिति प्रामाणिकाः । कश्चित्तु येषां च विरोधः शाश्वतिक इति निर्देशेन कचिदपवादविषयेऽप्युत्सर्गः प्रवर्तत इति सामान्यतो ज्ञाप्यत इ. त्याश्रित्य समादधौ । अथ कथं कालिकी व्याप्तिः कालिकः सम्बन्ध इति । कालविशेषवाचिनां हि ग्रहणमिति वृत्तिन्यासपदमञ्जर्यादिषु स्थितम् । उच्यते । कालवाचित्वाविशेषादिहापि ठञ् । विशेष एवं गृह्यत इत्यस्य मुनित्रयानुक्ततया निर्मूलत्वात् । सन्धिवेलादिभ्योऽविधानं हि विशेषग्रहणं ज्ञापकं न तु तन्मात्रग्रहणे । तथा च नस्तद्धित इति सूत्रे सायंमातिकः पौनःपुनिक इति भाष्यं व्याचक्षाणः कैयट आह । यथा कथंचित् कालशब्दात् ठनिति । एतेनाकालिकेप्सतिसूत्रेऽकालिकेति इस्त्रपाठपक्षे कालाहनिति कालिकमिति भट्टवार्त्तिकमपि व्याख्यातम् । वृत्तिमते तु कालात् कालशब्दानिति । कालाधन प्रकृष्टे ठभिति पाश्चमिकसूत्रेणेति भाव इति भक्त्वा व्याख्येयं स्यात् । समानकालीनं प्राकालीनमित्यादयस्तु प्रयोगा अमुकः पुरतः परेधुरित्यादिवनिरूढा एवापभ्रंशाः । तत्र जात इत्यतः प्राक् कालाधिकारः।
श्राद्धे शरदः ॥ १५६ ॥ ठञ् स्याहत्वणोऽपवादः। श्राइमिति कर्मनामधेयम् ।
Page #161
--------------------------------------------------------------------------
________________
१५६
शब्दकौस्तुभे ।
श्रद्धावान् पुरुषस्तु नेह गृह्यते । व्याख्यानात् रुढियोगमपहरतीति न्यायाच । शारदिकं श्राद्धं शारदमन्यत् ।
विभाषा रोगातपयोः ॥ १५७ ॥ शारादिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ।
निशाप्रदोषाभ्यां च ॥ १५८ ॥ चात् ठञ् । कालाहमिति नित्ये प्राप्ते । नैशिकम् । नैशम् । पादोषिकम् । मादोषम् ।
श्वसस्तुट् च ॥ १५९ ॥ श्वःशब्दाठञ् वा स्यात् तस्य तुडागमश्च । ऐषमोह्यःश्वस इत्यादिना त्यबपि विकल्पितः । ट्युट्युलौ । शौवस्तिकः । द्वारादित्वान्न वृद्धिः ऐजागमश्च । श्वस्त्यः । श्वस्तनम् । स्यादेतत् । तुटः प्रत्ययभक्ततया उस्यादित्वाभावादादेशो दुर्लभः कर्मठ इत्यठचो यथा । न च परत्वादिकः आङ्गतया तस्य बहिरङ्गत्वात् । तुटः प्रत्ययसनियोगशिष्टतयान्तरङ्गत्वात् । न च सूत्रभङ्गेन तुक् सुकरः इसुसुक्तान्तादिति कादेशप्रसङ्गात् । मैवम् वुञ्छणादिसूत्रे बढचो मनुष्यनाम्नष्ठज्वेत्यत्र च ठचश्चित्वेन इकादेशोऽन्तरङ्गेभ्योऽपि बलवानिति ज्ञापितत्वात् । अन्यथा प्रत्ययाद्युदात्ते कृते इकादेशः स्यादिति किं ठचश्चित्वेन । कृते विकादेशे प्रत्ययस्वरं बाधितुं चित्वं युज्यते ।
सन्धिवेलातुनक्षत्रेभ्योऽण् ॥ १६ ॥ सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण
Page #162
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् ।
१५७
स्यात् । ठमोऽपवादः । सन्धिवेला । मन्ध्या । तिष्याद् भवादौ प्रत्ययः जातार्थे तु श्रविष्ठाफल्गुनीति लुक् स्यात् । मूर्यतिष्येत्यत्र तिष्यपुष्ययोर्नक्षत्राणीत्युक्तर्यलोपः । सन्धिवेला सन्ध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् । संवत्सरात् फलपर्वणोः । सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् । अण्ग्रहणं छवाधनार्थम् । .सन्धिवेलादिभ्यो यथाविहितमितियुच्यमाने सन्धिवलादिषु पठितात्पौर्णमासीशब्दात वृद्धाच्छः स्यात् । वचनं तु ठबो बाधनार्थ स्यात् ।
प्रावृष एरायः ॥ १६१ ॥ ऋत्वणो ऽपवादः । प्रवर्षतीति प्राट् किशब्दे नहितीत्यादिना दीर्घः । तत्र भवः प्रावृषेण्यः । जाते तु ठञ् वक्ष्यति । रषाभ्यामिति सिद्धे प्रक्रियालाघवार्थ णकारोच्चारणम् । किञ्च । प्रावषेण्यमाचक्षाणः प्रावृषेण इत्यत्र णकारश्रवणार्थ तत् । ण्यन्तात् किम् । णिलोपाल्लोपयलोपाः ।
वर्षाभ्यष्ठक् ॥ १६२ ॥ ऋत्वणोऽपवादः । वर्षासु साधु वार्षिकं वासः । कालासाधुपुष्प्यत्पच्यमानेषु इति साध्वर्थे ठक् ।
छन्दसि ठञ् ॥ १६३ ॥ पूर्वसूत्रापवादः स्वरे भेदः । नभश्च नभस्यश्च वार्षिका. वृतू । तस्येदमर्थे ठञ् । ऋतुशब्दस्य मासे लक्षणा । वर्षावयवभूताविमौ मासावित्यर्थः । नभ इति लिङ्गव्यत्ययात् ल्कीबता । लोके तु पुंस्त्वमेव । नभः खं श्रावणो नभा इत्यमरः।
Page #163
--------------------------------------------------------------------------
________________
१५८
शब्दकौस्तुभे ।
वसन्ताच्च ॥ १६४ ॥ ठञ् स्याच्छन्दसि । मधुश्व माधवश्व वासन्तिकातू ।
हेमन्ताच्च ॥ १६५ ॥ छन्दसि ठञ् स्यात् । हैमन्तिकः । योगविभाग उचरार्थः।
सर्वत्राण च तलोपश्च ॥ १६६ ॥ हेमन्तादण् स्यात् तकारलोपश्च वेदलोकयोः । हैमनं वासः । नस्तद्धित इति टिलोपस्तु न भवति । तलोपस्य समुदायलोपत्वपक्षे अन्नितिप्रकृतिभावात् । अवयवत्वपक्षे तु यस्येति. लोपे तस्याभीयत्वेनासिद्धत्वात् स्थानिवत्वाद्वा । अण् चेति चकाराहत्वणपि । तत्र तकारलोपाभावाद्वैमन्तम् । वृत्तिकारास्तु सर्वत्र ग्रहणस्य पूर्वसूत्रेऽप्यनुकर्षाद्भाषायामपि हैमन्तिकमिति तृतीयं रूपमाहुः । तत्तु भाष्यविरुद्धम् । भाष्ये हीदं मू. त्रं प्रत्याख्यातम् । तच्चेत्थम् । हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति । हेमन् हेमन्नागतीगतिकौँ । तस्मादेतौ हेमनशुष्यतः इत्यादिप्रयोगात् । तत्र भाषायां हेमन्हेमन्तशब्दाभ्यां त्वणि हैमनं हैमन्तामिति रूपद्वयम् । छन्दसि तु ठबा तृतीयं रूपम् । न च ठनाऽणो बाधः । छन्दप्ति सर्वविधीनां वैकल्पिकत्वादिति तस्य नियतविषयतां ज्ञापयितुं सूत्रमारेभे । अनभिधानादेवातिप्रसङ्गपरिहारं मत्वा प्रत्याख्यानम् । सायंचिरंप्राओँप्रगेऽव्ययेभ्यष्टद्युलौ तुट् च ॥१६७॥ सायमित्यादिभ्यश्चतुभ्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुद्युलो
Page #164
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १५९ स्तस्तयोस्तुद् च स च कृतादेशयोः घकालतनेषु अनद्यतन इत्यादिनिर्देशात् अन्तरङ्गत्वाद्धि प्रथमं तुटि भुज्युमृत्युरित्यादाविव त्युशब्दस्य प्रत्ययतयाङ्गसंज्ञानिमित्तं यो युस्तस्य विधी. यमानो ऽनादेशो न स्यात् । तुगेव तु न कृतस्तस्य पूर्वान्ततया प्रातस्तनमित्यादौ विसर्जनीयासिद्धिप्रसङ्गात् । सायन्तनम् । प्राङ्केतनम् । प्रगतनम् । दोषातनम् । दिवातनम् । सायमिति मान्तमव्ययम् । स्वरादिषु पाठात् । ततोऽव्ययत्वादेव सिद्धः प्रत्ययः । यस्तु स्यतेविसायशब्दो दिवसावसाने रूढः । तस्य प्रत्ययसन्नियोगेन मान्तत्वं निपात्यते । अन्यत्र त्वकारान्त एव सायाह्नः । आह च संख्याविसायपूर्वस्याहस्येति । भारविश्च सायमण्डनमभित्वरयन्त्य इति । इदं च वार्तिकमतम् । आह हि । सायचिरयोर्मान्तत्वं प्रत्ययसनियुक्तमिति । भाष्ये तु । सायंशब्दस्य पाठ इह सूत्रे प्रत्याख्यातः। घनन्तस्य सायशब्दस्य पाकादिशब्दवदकालवाचित्वात् । कथं तर्हि सायाह्नः सायमोऽढे मलोप इति वचनात् । तरे वा । सायतरे । सायन्तरे । वा सप्तम्याम् । साये सायम् । एवं च भाष्यमते सायमण्डनमित्यादयोऽपप्रयोगा एवेति बोध्यम् । पाहेप्रगे इत्यनयोरेदन्तत्वं निपात्यते । प्राह्नः सोढोऽस्य प्राङ्केतन इत्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जाताद्यर्थे तु घकालतनेवित्यलुकापि सिद्धम् । अत्र वार्तिकानि । चिरपरुत्परारिभ्य. स्त्रो वक्तव्यः । चिरवम् । परुनम् । परारित्रम् । चिरशब्दस्य सूत्रे उपादानात् युट्युलावपि भवतः न तु किंय. चहषु कृमो ऽविधानमित्यत्रेव सूत्रस्य बाधः । सायश्चिरमो मकारान्तत्वमिति वार्तिके चिरन्तनमितिभाष्योदाहरणात् । परुव । पूर्वस्मिन्वर्षे । परारि पूर्वतरे वर्षे । प्रगस्य छन्दसि गलोप
Page #165
--------------------------------------------------------------------------
________________
शब्दकोस्तुभे ।
श्च । प्रनमात्मानम् । प्रनशब्दः पुराणवचन इति हरदत्तः । भाषायामप्य सौ पञ्चमे साधयिष्यते । एवं चास्य वचनस्य यथा न वैययं तथा तत्रैव वक्ष्यामः । अग्रादिपश्चाडिमच् । अग्रिमम् । पश्चिमम् । डित्वं शक्यमकर्तुम् । अन्ताच्च । अन्तिमम् ।
विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ १६८ ॥
आभ्या ट्युट्युलो वा स्तस्तयोस्तुद् च । पक्षे कालाहञ् । पूर्वाह्नेतनम् । अपराह्नेतनम् । घकालतनेष्वित्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्नतनं अपराह्नतनमित्येव । ठबा पौवाह्निकम् । आपराह्निकम् ॥
तत्र जातः ॥ १६९ ॥ अणादयो घादयश्च प्रकृताः तेषामर्थाः समर्थविभक्तयश्चे. तः परं निर्दिश्यन्ते । सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्त्रुन्ने जातः स्रोन्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि । ननु शेष इत्यस्य लक्षणतया चाक्षुषं रूप. मित्यादाविव जातादिष्वप्यणादयः सिद्धाः । अधिकारतया च घादयः । तस्मादास्तावन्न निर्देष्टव्याः समर्थविभक्तयोऽप्याक्षे. पादेव लप्स्यन्ते । चाक्षुषं रूपमित्यत्र तृतीया यथा । अत एव नियमार्थत्वमपि न शक्यम् । जातादिष्ववेत्यादिनियमे चाक्षुषमित्याद्यसिद्धिप्रसङ्गात् । तत्रास्ते शेतेऽत्यादौ त्वनभिधानान्न भविष्यति अङ्गुल्या खनति वृक्षमूलादागत इत्यादौ यथा । अत्राहुः प्रापष्ठवित्यादीनपवादास्तत्र तत्र विशेषे वक्तुं जाताद्यर्था अवश्यं वक्तव्यास्ते योगविभागेन विभक्तिविशेषसमभिव्याहारेण वोक्ताः स्पष्टत्वार्थम् । यानि तु निरपवादान्यर्थादेश.
Page #166
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १६१ नानि कृतलब्धक्रीतकुशला इत्यादीनि स्पष्टत्त्वार्थान्येवेति ।
प्रावृषष्ठप् ॥ १७ ॥ एण्यस्यापवादः। पित्वादनुदात्तः। प्राषि जातः प्रावृषिकः ।
संज्ञायां शरदो वुञ् ॥ १७१ ॥ ऋत्वणोऽपवादः । शारदकाः । दर्भविशेषाणां मुद्गविशेषाणां च । संज्ञायां किम् । शारदं सस्यम् । केचित्संज्ञायामित्येतत्कृतलब्धेत्येतत्पर्यन्तमनुवर्तयतीति वृत्तिकारः । पूर्वाह्नापराह्ना मूलप्रदोषावस्कराद् वुन् ॥ १७२ ॥
पूर्वाह्नकः । अपरान्हकः । विभाषा पूर्वाह्नापरालाभ्यामित्यस्यापवादः । आर्द्रकः । मूलकः । नक्षत्राणोऽपवादः । प्रदोषकः । निशाप्रदोषाभ्याश्चेत्यस्यापवादः । अवस्करकः। औत्सनिकस्याणोऽपवादः । असंज्ञायां तु यथामाप्तं ठबादय एवेत्येके ।
पथः पन्थ च ।। १७३ ॥
पथि जातः पन्थकः । अमावास्याया वा ॥ १७४ ॥ सन्धिवेलाधणोऽपवादः । अमावास्यकः । आमावास्यः । अमावस्यदन्यतरस्यामिति सूत्रेणामापूर्वावसेर्ण्यति वृद्धौ पक्षे इस्वो निपात्यते । तेन हस्वपक्षे एकदेशविकृतस्या. नन्यत्वादण्वुनौ स्त एव । आमावास्यः । अमावस्यकः । ये तु सन्धिवेलादिष्विह सूत्रे च हस्वोपधमधीयते तेषां दो?पधान स्यात् । विकृत्या प्रकृतेरग्रहणादिति न्यासकार: हरदत्तोऽप्येवम् । अकृतद्देदृद्धिप्रकृतिभूतस्येदं ग्रहणमित्या. श्रित्य इस्वपाठोऽपि समर्थयितुं शक्यते ।
शब्द. तृतीय. 11
Page #167
--------------------------------------------------------------------------
________________
१६२ शब्दकौस्तुभे।
अ च ॥ १७५ ॥ अमावास्याशब्दादकारः प्रत्ययः स्यात् । अमावास्यः । अमावस्यः । पक्षेऽणवुनावुक्तौ । तथा चामावास्यायां जाते षड् रूपाणि । सकारद्वित्वविकल्पातु द्वादशेत्यवधेयम् ।
सिन्ध्वपकराभ्या कन् ॥ १७६ ॥ सिन्धुशब्दात कच्छाद्याणि मनुष्यवुनि च प्राप्तेऽपकरशब्दात्तु औत्सर्गिकेऽणि प्राप्ते । सिन्धुकः । अपकरकः ।
अणौ च ॥ १७७॥ क्रमात् स्तः । सैन्धवः। आपकरः । श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तवि
शाखाषाढाबहुलाल्लुक ॥ १७८ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्या. त् । लुकतद्धितलुकीति स्त्रीप्रत्ययनित्तिः। श्रविष्ठासु जातः श्र. विष्ठः । फल्गुनः । अनुराधः । स्वातिः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । कृत्तिकापर्यायस्य बहुलाशब्दस्य समाहारद्वन्द्वे नपुंसकहस्वत्वेन सूत्रे निर्देशः न तु बहादाननिमित्तकस्य बहुलशब्दस्य अविष्ठादिमिः साहचर्यात् । कथं तर्हि अव्ययात्यबिति सूत्रे भौषिकाणां विप्रतिषेधनिरूपणप्रस्ता. वे भाष्यं सौवात इति । न च कदिकारादिति लीषन्तात् स्वा. तीशब्दाजातार्थे इदं रूपमस्त्विति वाच्यम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । अत्र कैयटः । भवार्थेऽण् जा. ते तु श्रविष्ठेत्यादिना लुक् स्यादिति । संधिवेलादिसूत्रे हरदत्तोऽप्येवम् । माधवस्तु सूत्रे स्वातीतिष्यतिङीषन्तं पठन् नातार्थेऽप्यडीपन्तस्य सौवात इति रूपमिच्छति । एतचात सा.
Page #168
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आढिकस् । १६३ तत्यगमने इत्यत्र धातुवृत्तौ स्पष्टम् । लुक्झकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् । चित्रायां जाता चित्रा । रेवती । रोहिणी । यद्यपि गौरादिषु रेवती नक्षत्रे रोहिणी न. क्षत्र इति पठ्यते । तत्रेमौ नक्षत्रवाचिनौ । जातार्थवृत्तित्वा
। तथा पिपल्यादेराकृतिगणत्वादाभ्यां ङीष् । प्रथमो. त्पन्नस्तु लुक् तद्धितलुकीति लुप्यते । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। खियामित्येव । टो कीवर्थः । नकारः स्वरार्थः । विधानसामर्थ्यादनयोने लुक् । फल्गुनी । अषाढा । श्रविष्ठापाढाभ्यां छण् वक्तव्यः। नियामितीह नापेक्ष्यते । श्राविष्ठी. यः। आषाढीयः ॥
स्थानान्तगोशालखरशालाच ॥ १७९ ॥ एभ्यो जातार्थस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः। अपूर्वस्थानः । गोशालः । रवरशालः। गोशालशब्दस्य विभाषासेनेति नपुंसकत्वे हस्वत्वम् । तत्साहचर्यात् ख. रशालेऽप्येवमेव न तु द्वन्द्वकत्वपयुक्तम् । एकादेशस्य पूर्व प्र. त्यन्तवद्भावाल्लिङ्गविशिष्टपरिभाषया वा त्रिपामपि लुग्भवत्येव । यद्यपि टाबन्तयोः पाठे एकदेशविकृतस्यानन्यत्वानपुंसकाभ्यां लुक् सिद्धत्येव तथापि लाघवार्थ इस्वपाठ इतिहरदत्तः। वत्सशालाभिजिदश्वयुकशतभिषजो वा ॥ १८०॥
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले. जातः वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । पक्षे शातभिषः। अण् डिद्वा विधीयत इति डित्वम् । एत. च दृष्टं सामेत्यधिकारे उक्तम् । अभिजिनामकं हि मुहूर्तम.
Page #169
--------------------------------------------------------------------------
________________
१६४
शब्दकौस्तुभे ।
प्यस्ति । अश्वयुक्शतभिषजोस्तु प्रपञ्चार्थे ग्रहणम् । इह वत्सशालेति ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् ।
नक्षत्रेभ्यो बहुलम् ॥ १८१ ॥
नक्षत्रेभ्यः परस्य जाते प्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः । चित्रारेवती रोहिणीभ्यः स्त्रियामुपसंख्यानमित्येतत्तु स्त्रियां लुगेव यथा स्यादित्येतदर्थं न तु स्त्रियामेव लुगर्थम् । वाग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणादेव लुग्व्यवस्थायां सिद्धायां बहुलग्रहणं कचिदन्यदेवेत्यर्थम् । तेन टानौ वक्तव्यावित्यादि सिद्धम् ।
कृतलब्धक्रीतकुशलाः ॥ १८२ ॥
तत्रेत्येव । स्रुम्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः । राष्ट्रियः । यद्यपि कृतक्रीतत्वे जातलब्धत्वयोर्व्याप्ये तथापि पृथगुपादानं कृतत्वप्रकारकेऽपि बोधे शैषिकाः साधका इति बोधयितुम् । अत एव जाते लुग्भाजामपि कृते लुङ् नेत्यवधेयम् । प्रायभवः ॥ १८३ ॥
तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवतीति स्रौघ्नः । न च तत्र भव इत्यनेन गतार्थता भवमायभवयोर्लब्धक्रीतयोरिवाविशिष्टत्वविशिष्टत्वाभ्यां भेदात् ।
उपजानूपकर्णोपनीवेष्ठक् ॥ १८४ ॥
औपजानुकः । औपकर्णिकः । औपनीविकः । उपजान्वादयः सामीप्येऽव्ययीभावः । समाहारद्वन्द्वात्सौत्र पुलिङ्ग निर्देशः । सम्भूते ॥ १८५ ॥
यत्रेत्येव । स्रुने सम्भवति स्रौघ्नः । इदानीं बुने स
Page #170
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १६५
म्भाव्यते तत्प्रमाणान्नातिरिच्यते वा यः सेनादिरर्थ स एवमुच्यते । सूत्रे तन्त्राद्याश्रयणादनवक्लृप्तिराधेयस्याधारात् परिमाणानतिरेकश्चेत्यर्थद्वयमपि विवक्षितम् ।
कोशाड़्ढञ् ॥ १८६ ॥
कौशेयं वस्त्रम् । रूढीयम् । कोशे सम्भवस्तु सत्कार्य। । वादाश्रयणात् । मतान्तरे तु विकारप्रकरणे एण्या ढमित्यस्यानन्तरं कोशाच्चेति पाठ्यम् । तथा च वार्त्तिकम् । विकारे कोशाढव् सम्भूते ह्यर्थानुपपत्तिरिति ।
कालात्साधुपुष्प्यत्पच्यमानेषु ॥ १८७ ॥
हेमन्ते साधुमन्तः प्रकारः । शैशिरमनुलेपनम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः । त्रैष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । ग्रैष्मा यवाः ।
उप्ते च ॥ १८८ ॥
कालविशेषार्थात् सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । हेमन्ते उप्यन्ते हैमन्ता यवाः । ग्रैष्मा व्रीहयः । सूत्रे भूतकाळो ऽतन्त्रः । योगविभाग उत्तरार्थः
L
आश्वयुज्या वुञ् ॥ १८९॥
उप्तेऽर्थे । ठञोऽपवादः । नकारः स्वरार्थ उत्तरत्र वृद्ध्यर्थश्व | आश्वयुज्यामुप्ता आश्वयुजका माषाः ।
ग्रीष्मवसन्तादन्यतरस्याम् ॥ १९० ॥
आभ्यां वुञ् वा स्यादुप्ते । पक्षे ऋत्वणू । त्रैष्मकं ग्रैष्मं वा शस्यम् । वासन्तकम् । वासन्तम् ।
Page #171
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
देयमृणे ॥ १९९ ॥ कालादित्येव । मासे देयमृणं मासिकम् । ऋणे किम् ।
मासे देया भिक्षा |
१६६
कलाप्यश्वत्थयत्रबुसाद वुन् ॥ ९९२ ॥
यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात् कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलं अश्वत्थः फले लुकू । तद्युक्तः कालोऽश्वत्थः । यस्मिन् कालेऽश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । पस्मिन्यव - समुत्पद्यते तत्र देयं यवबुसकम् ।
ग्रीष्मावरसमाद वुञ् ॥ १९३ ॥
ग्रीष्मे देयमृणं प्रैष्मकम् । आवरसमकम् । समाशब्दो वर्षपर्याय: अवरा चासौ समा चेति कर्मधारयः । न च दिक्संख्ये संज्ञायामेवेति नियमः अपरशब्दस्यादिक्शब्दत्वात् । आगामिनां वत्सराणामाद्ये संवत्सरे देयमावरसमकम् । अतीते वत्सरे देयं यदद्यापि न दत्तं तदित्यन्ये ।
संवत्सराग्रहायणीभ्यां ठञ् च ॥ १९४ ॥
चाद् वुञ् । संवत्सरे देयमृणं सावत्सरिकं सांवत्सरकम् । आग्रहायणिकं आग्रहायणकम् । सन्धिवेलादिषु संवत्सराव फळपर्वणोरिति पठितम् । तत्र फले ॠणत्वेन विव क्षितेऽण् प्राप्तः । सोऽनेन ठञा बाध्यते । एतदर्थमेव हि ठब्ग्रहणम् । अन्यथा वेत्येव ब्रूयात् ॥
व्याहरति मृगः ॥ १९५ ॥
कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे यथाविहितं
Page #172
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् ।
१६७
स्युः प्रत्ययाः यो व्याहरति स मृगश्रेत् । निशार्या व्याहरति नैशो मृगः । नैशिकः । प्रादोषः । प्रादोषिकः । मृगः किम् । निशायां व्याहरत्युल्लकः ॥ तदस्य सोढम् ॥ १९६॥
प्रथमान्तात् कालार्थात् सोढोपाधिकादस्येति षष्ठ्यर्थे प्रत्ययः स्यात् । अस्येति नेयं कर्त्तरि षष्ठी । न लोकेति निषेधात् । किन्तु कर्त्तुरेव शेषत्वविवक्षायां षष्ठी । सोढमभ्यस्तम् । कालस्य स्वरूपेणाभ्यासायोगात् तत्सहचरित क्रियानुत्तरयं प्रत्ययः । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैश: । नैशिकः ।
तत्र भवः ।। १९७ ॥
कालादिति निवृत्तम् । कालसम्बद्धस्य तत्रेत्यस्य निवृत्तये पुनस्तत्रग्रहणात् । न च पूर्वसूत्रस्थस्य तदित्यस्य व्यावृत्तये तत्र ग्रहणमिति वाच्यम् । तदस्येति सूत्रस्येति सूत्रस्येत उतरत्रापि सुपठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्त्तते तथापीह सत्तार्थ एव गृह्यते । तत्र जात इति पृथग्ग्रहणात् । खुने भवः स्रौघ्नः । राष्ट्रियः ।
दिगादिभ्यो यत् ॥ १९८ ॥
दिश्यम् । वर्ग्यम् । दिश् | वर्ग । पूग | पक्ष । धाय्य । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । सुखा । जघन । मेष । यूथ उदकात्संज्ञायाम् । न्याय | वंश | अनुवंश | वेश । काल । आकाश | दिगादिः । मुखजघन शब्दयोरिह पाठः शरीरावयवार्थः । सेनाया मुखे जघने च भवं मुख्यं जघन्यम् ।
Page #173
--------------------------------------------------------------------------
________________
१६८
शब्दकौस्तुभे ।
शरीरावयवाच ॥ १९९ ॥ दन्त्यम् । कण्ठ्यम् ।
दतिकुक्षिकलशिबस्त्यस्त्यहेर्दन ॥२०॥ दृतिश्चमविकारः शरीरावयवश्च । तत्र भवं दार्तेयम् । कुक्षिशब्दो धूमादिः ततो धूमादिभ्यश्चेति वुनि प्राप्तेऽनेन ढञ् । कौक्षेयम् । कालशेयम् । कलशस्तु त्रिषु द्वयोः । घटः कुठनिपावस्त्रीत्यमरः स्त्रियां कलशिः कलशी चेति तद्याख्यातारः। तालव्या अपि दन्त्याश्च । शंवशूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथेति शब्दभेदः । तथा दण्डाहतं कालशेयमरिष्टमपि गोरस इत्यमरस्य व्याख्यावसरे सेचपात्रं कलाशः ।बस्ति भेरधस्तत्र भवं बास्तेयम् । अस्तिशब्दः प्रातिपदिकविभक्तिप्रतिरूपकनिपातसंज्ञम् । तच तिङन्तेन समानार्थ भिन्नार्थ च । आद्यं यथा । अस्तिक्षीरा गौः । द्वितीयं यथा । अस्तिमान् । धनवानित्यर्थः । तदिहाविशेषादुभयोर्ग्रहणम् । आस्तेयमिति न्यासकारहरदत्तौ । मतुबिधौ भाष्यकैयटपर्यालोचनया तु नायं धनवाची किन्तु वृत्तौ धनकका स. तामाहेति लभ्यते । अत एवास्तिसामानाधिकारण्याभावान्मत्वर्थ तत्र यत्रः कृतः । आहेयम् ।।
ग्रीवाभ्योऽण् च ॥ २०१॥ चात् ढन् । शरीरावयवाचेति यतोऽपवादः। ग्रीवाशब्दो धमनीसङ्के वर्त्तते । तत्रोद्भूतावयवसङ्घविवक्षायां बहुवचनातात्प्रत्यय इति सूचयितुं सूत्रे बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्डबौ स्त एव । ग्रैवेयम् । अवम् ॥
Page #174
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १६९ गम्भीरायः ॥२०२॥ गम्भीरे भवं गाम्भीर्यम् ।
अव्ययीभावाच्च ।। २०३ ॥ परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । परिमुखादिभ्य एवेष्यते। नेह । औपकूलः । औपशालः । दिगादिगणानन्तरं परिमुखादिगणः पठ्यते । तत्सामर्थ्यादिह सूत्रे ऽव्ययीभा. वपदं तन्मात्रपरमिति निर्णीयते । नहि परिमुखादीनामष्टाध्या. य्यां कार्यान्तरविहितमस्ति । परिसुखादिभ्य इत्येव तु न सूत्रितम् । बहुव्रीहितत्पुरुषयोरपि प्रसङ्गात् । अव्ययीभावग्रहणस्योत्तरत्रोपयोगाच । परिमुख । परिहनु । पर्योष्ट । पर्युलूखल। परिसीर । अनुसीर । उपसीर । उपस्थल । उपक. लाप । अनुतिल । अनुशीत । अनुभाव । अनुपूप । अनुवंश । इह ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततोऽपपरि. बहिरञ्चवः पञ्चम्येति समासः । अथ सर्वतो भावस्ततो. ऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्ये । अनुपूर्वेष्वनुर्यत्समया । यस्य चायामः । पश्चादर्थे यदव्ययमिति च यथाभिधानसमासः । परिमुखादिगणे प्रतिशाखशब्दो. ऽपि बोध्यः । तथा च शाख व्याप्ताविति धातौ प्रतिशाखं भवं प्रातिशाख्यम् । अव्ययीभावाचेति भवार्थे ज्य इति माधवः ।
अन्तःपूर्वपदाकृञ् ॥ २० ॥ अव्ययीभावादित्यनुवर्तते । वेश्मनि अन्तर्वेश्मम् । विभत्यर्थेऽव्ययीभावः । तत्र भवमान्तश्मिकम् । आन्तर्गणिकम् । अत्र श्लोकवार्तिकम् ।
Page #175
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे। समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । उर्ध्व दमाच्च देहाच लोकोत्तरपदस्य च । मुखपार्वतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योथ मध्यस्य मण्मीयौ चापि प्रत्ययौ ॥ मध्यमध्यन्दिनश्चास्मात् स्थाम्नो लुगजिनात्तथा । वाह्यो दैव्यः पाञ्चजन्यो गाम्भीर्य चत्र्य इष्यते ॥
सामानिकः । सामानग्रामिकः । आत्मनि अध्यास्मम् । विभक्त्यर्थेऽव्ययीभावः । अनश्चेति टच् समासान्तः । आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादुभयपदद्धिः । अध्यात्मादिराकृतिगणः । एवं च समानस्य तदादेरित्यादिरस्यैव प्रपश्चः । उर्वशब्देन समानार्थ उर्व शब्दो मान्तः । स च एतवृत्तिविषय ए. वेति वृत्तिमतम् । कैयटस्तु दम उत्तरपदे ठसंनियोगेनोर्ध्वशब्दस्य मान्तत्वं निपात्यत इत्याह । ओवंदमिकः । देहचेति । उर्वशब्दपूर्वादेव । मान्तत्वं तु नेह निपात्यते । औलदेहिकम् । ऐहलौकिकम् । पारलौकिकम् । एतयोरनुशतिकादित्वादुभयपदवृद्धिः । १। मुखेत्यादिश्लोका गहादिठस्यैव प्रपश्चः । उत्तरार्धेन तु मध्यादीयमणमीयाः । मध्यीयः । मा. ध्यमः । मध्यमीयः । ननु मण्मीययोरिह किं फलम् | गहादिषु मध्यमध्यमं चाण चरण इत्यनेन मध्यममध्यमीययोः सिद्धत्वात् । सत्यम् । तत्र पृथिवीमध्यसाचिन एव ग्र. हणमित्युक्तम् । जातादिषु पृथिवीमध्यवाचिन एव म. ध्यमीय इति यथा स्यात् । मध्यान्तरवाचिनो मा भूदिति । इह तु मध्यान्तरवाचिनोऽपि भवार्थे मीयप्रत्ययो विधीयते । तथा गहादिपाठेन पृथिवीमध्यं निवास एषामित्यस्मि
Page #176
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् ।
१७१
अवार्थे माध्यमा इति सिद्धम् । चरणसम्बन्धेन निवासल. क्षणोऽणित्युक्तत्वात् । इह तु मध्यान्तरवाचिनो भवार्थे मणप्रत्ययो विधीयत इति शेषः ॥ २ ॥ मध्येत्यनुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । मध्यशब्दो मध्यमभावं लभते दिनञ् च प्रत्ययः । बित्वादाादाचता । माध्यन्दिनं सवनं चारुपते । माध्यंदिनस्य सवनस्य दधनः । स्थाम्न इति । स्थामन् शब्दान्तादित्यर्थः । एवमजिनान्तात् । उभयत्रापि भाष्यकारीयमुदाहरणं तदन्तविधौ प्रमाणम् । अश्वस्येव स्थाम बलं यस्येति बहुव्रीहिः । पृषोदरादित्वात्सस्य तः । ततो भवार्थे अकारः । दित्यादित्येति. सूत्रे स्थाम्नोऽकार इति वार्तिकात् तस्यानेन लुक् । अश्वत्थामा । सिंहाजिने भवः सिंहाजिनः। अणो लुक् । वाह्यो दैव्य इति श्लोकार्थे पञ्चजनाभ्यो विधीयते । गम्भीराज्य इत्यत्र पञ्चजनादुपसंख्यानं कर्त्तव्यमिति फलितोऽर्थः । अन्यः सर्वोऽप्यनुवादः प्राग्दीव्यत इत्यत्र पठितेन जाताद्यर्थान्तरानुरोधादवश्यादर्तव्येन देवस्य यबसौ बहिषष्टिः लोप इत्यनेन गम्भीराज्य इति सूत्रेण च गतार्थत्वात् ।
ग्रामात्पर्यनुपूर्वात् ॥ २०५॥ ग्रामान्तादव्ययीभावाहन स्यादणोऽपवादः । पारिग्रा. मिकः । आनुग्रामिकः।
. जिह्वामूलाङ्गुलेश्छः ॥ २०६ ॥ यतोऽपवादः । निहामूलीयम् । अङ्गुलीयम् ।
वर्गान्ताच ॥ २०७॥ कवर्गीयम् ।
Page #177
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
अशब्दे यत्वात्रन्यतरस्याम् ॥ २०८ ॥ पूर्वेण पक्षे छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ।
१७२
कर्णललाटात्कनलङ्कारे ॥ २०९ ॥
यतोऽपवादः । कर्णिका । ललाटिका । अलङ्कारे किम् । कर्ण्यम् । ललाट्यम् |
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ २१० ॥
इति शब्दो वाक्यार्थे परामृशति तत्समीपे चकारस्तत्र भव इति वाक्यार्थमाक्षिपति । व्याख्यातव्यस्य ग्रन्थस्य नाम प्रतिपादकम् । तच्च शक्त्या लक्षणया वेत्यत्र नाग्रहः । तस्मात्षठ्यन्ताद्व्याख्यानकरणे सप्तम्यन्तात्तु भवार्थे प्रत्ययाः स्युः । यद्यपि तस्येदं तत्र भव इति सूत्राभ्यां गतार्थता तथापि ठञादिकानपवादान्वक्तुमिमावर्थौ निर्देष्टव्यावेव प्रसङ्गास्वणादिकं विधीयते । सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्त्तः । सुप्सु भवं सौपम् । व्याख्यातव्यनाम्नः किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रं हि तया व्याख्यायते इदृक्सन्निवेशविशिष्टमिति । नत्विदं व्याख्यातव्यस्य नाम ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात् । नामग्रहणस्य च प्रसिद्ध्युपसंग्रहार्थत्वात् ।
बह्वचोन्तोऽदात्ताट्ठञ् ॥ २११ ॥
अणोऽपवादः । षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वं तस्य व्याख्यानस्तत्र भवो वा पात्वणत्विकः । बह्वचः किम् । व्यचष्ठकं वक्ष्यति । एकाच् प्रत्युदाहार्यः । सौपम् । तैङम् । अन्तोदात्तात्किम् । संहितायाः । सांहितम् । गति
Page #178
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १७३ स्वरेणाद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टार्थम् । उदात्तादित्युतेऽपि वर्णग्रहणे तदन्तग्रहणात् । वर्णादनुदात्तादित्यत्र यथा ।
क्रतुयज्ञेभ्यश्च ॥ २१२ ॥ क्रतुयज्ञशब्दौ सोमसाध्येषु यागेषु प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमाद्यर्थेषु मन्त्रब्राह्मणकल्पेषु वर्तमाना आग्निष्टोमादिशब्दा इहोदाहरणम् । ग्रन्थानामेव व्याख्येयताया उक्तत्वात् । आग्निष्टोमिकः । वाजपेयिकः । राजमूयिकः। असोमकेभ्यः पाकयज्ञिकः । नावयज्ञिकः । बहुवच. नं स्वरूपविधिनिरामार्थम् । पाश्चौदनिकः । अनन्तोदात्तार्थ आरम्भः । तथाहि राजसूयवाजपेयशब्दौ कृदुत्तरपदमकृतिस्वरेण मध्योदात्तौ। राज्ञा क्षत्रियेण सूयते राजा सो. मः सूयतेऽत्रेति वा । राजसूयेति क्यप् तत एव निपातनासमासः षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः बाहुलकादधिकरणे यत् । वाजो यवागूभेदः । तस्य पेयो वाजपेयः । नन्वस्तूभयोरुदाहरणता अग्निष्टोमादीनां तु कथम् । ते ह्यन्तोदात्ताः तथा हि स्तुतिः स्तोमः अग्नेः स्तोमोऽस्मिन्निति बहुव्रीहिः । परादिश्च परान्तश्चेत्यन्तोदात्तः पाकशब्दोल्पपर्यायः प्रशस्तपर्यायो वा । योमा पाकेन । तं पाकेन म. नसेत्यादौ तथा दर्शनात् । पाकश्चासौ यज्ञश्चेति कर्मधारयः। नवै:हिभिर्यजनं नवयज्ञः । आग्रयणम् । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । तस्माद् वृत्तिकारोक्तान्युदाहरणानि असतानीति चेत् । सत्यम् । अन्यार्थमस्मिन्नारब्धे सति अन्तोदाचादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्य
Page #179
--------------------------------------------------------------------------
________________
१७४
शब्दकौस्तुभे । मिति वृत्तिकृत आशयो बोध्यः ॥
अध्यायेष्वेवर्षेः ॥ २१३ ॥ ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् ऋषिश्वेह प्रवृतः सच भृ. वादिः । होत्राध्वर्युणा च प्रत्रियत इति प्रवर इति व्युत्पतेः । ग्रहदृनिश्चिगमश्चेत्यप् । उक्तश्च । भार्गवच्यावनाप्रवानौजामदग्न्येति । होताजमदग्निवदूर्ववदवानवच्च्यवनबद्भृगुवदित्यध्वर्युरिति । योगरूढश्चायं गोत्रसपिण्डादिशब्दवद । गीयन्ते कीय॑न्ते येन वंश्यास्तद्गोत्रम् । समानः पिण्डो ऽस्येति सपिण्ड इत्यपि हि योगोऽतिप्रसक्तः । ऋषिशब्दो यघप्यन्यत्र मन्त्रदृष्टरि प्रसिद्धस्तथापीह लक्ष्यानुरोधादसमानार्षगोत्रजामित्यादौ दृष्टत्वाच्च प्रवरपर इति दिक् । वसिछेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वासिष्ठिकोऽध्यायः। अध्यायेष्विति किम् । वासिष्ठी ऋक् । भवार्थेऽण् । एवकारः सर्व वाक्यं सावधारणमिति ज्ञापयति । न्यायसिद्धं चेदम् । उद्देश्यतावच्छेदकावेच्छदेन विधेयान्वयात् ।
__पौरोडाशपुरोडाशात्ष्ठन् ॥ २१४ ॥
पुरोडाशसहचरितो मन्त्रः पुरोडाशः । स एव पौरोडाशो. ऽपि । आभ्यां छन् स्यात् । पौरोडाशिकः । पुरोडाशिकी । षित्वान्डीए । पुरो दाश्यते पुरोडाशः । दाश दाने कर्मणि घन् । इहैव निपातनादस्य डत्वम् ।
__छन्दसो यदणौ ॥ २१५ ॥ यज्लक्षणस्य ठकोऽपवादः । छन्दस्यः । छान्दसः । इ. हार्ययोः प्रत्ययाभ्यां यथासंख्यं न । अस्वरितत्वात् ।
Page #180
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १७५
द्व्यनृब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामा
ख्याताट्ठक् ॥ २१६ ॥
।
व्यचः । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होर्तृकः । ब्राह्मणिकः । आर्चिकः । प्राथमिकः आध्वरिकः । णौरश्वरणिकः । नामाख्यातग्रहणं संघातविगृहीतार्थमिति वार्त्तिकम् । आख्यातार्थं विगृहीतग्रहणं नामशब्दात्तु द्व्यचत्वादेव सिद्धम् । नामिकः । आख्यातिकः । नामाख्यातिकः । अशृगयनादिभ्यः ॥ २१७ ॥
1
एभ्योऽण् स्याद्भवे व्याख्याने च । ठञादेरपवादः । आगयनः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्यः । इह ठञा मुक्ते छो मा भूत् । ऋगयन । अयनशब्दो भावसाधनोऽप्यभेदोपचाराद्रन्थे वर्त्तते । अनो भावकर्मवचन इत्यन्तोदात्तः । पदव्याख्यान । इह मक्तिन्व्याख्यानेत्यन्तोदात्तः । छन्दोमान अयमृगयनवत् । मनेर्घनि तु थादिस्वरः । छन्दोभाषा । कृत्स्वरेणान्तोदात्तः । गुरोश्च हल इसकारे भाषाशब्दनिष्पतेः । छन्दोविचिति । मक्तिन्नित्यन्तोदात्तः । पुनरुक्तशदस्थाथादिस्वरेण । निरुक्तशब्दः संज्ञायामनाचितादीनामिति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितः । वास्तुविद्यानक्षत्रविद्याङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरः वसेः संपूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदात्तः । मुहूर्त्तनिमित्तशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः किप् उपनिषत् कृत्स्वरः । विद्यान्यायशिक्षाशब्देभ्यो व्यष्ठक् प्राप्तः । व्याकरणशब्दाद् वृद्धाच्छः प्राप्तः तदिह यथासम्भवं ठञ्ठक्छा बाध्याः । इत्यृगयनादिः ।
Page #181
--------------------------------------------------------------------------
________________
१७६
शब्दकौस्तुभे ।
तत आगतः ॥ २१८ ॥ स्नादागतः सौनः।
ठगायस्थानेभ्यः ॥ २१९ ॥ एत्येनं स्वामी । स्वामिनमयमेतीति वा आयः स्वा. मिग्राह्यो भागः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिः भ्यष्ठक स्यादणोऽपवादः। शुक्लशालाया आगतः शौक्लशा. लिकः । वृद्धाच्छं परत्वाद्भाधते । आपणिकः । आकरिकः । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः ॥
शुण्डिकादिभ्योऽण ॥ २२० ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । कृकणपर्णाद् भारद्वाज इति छ प्राप्ते । तीर्थशब्दस्य धूमादित्वादभि प्राप्तेऽण् । तैर्थः । औदपानः । उदपानशब्दस्योत्सादित्वाद प्राप्तः । पुनरण्ग्रहणान भव. ति । यथाप्राप्तविधाने हि आयस्थानठक् मा भूत् । अञ् तु स्यादेव । तदिह ठक्छबुत्रो बाध्याः । स्थण्डिल उपल भूमि तृण पर्ण शुण्डिकादिः।
विद्यायोनिसम्बन्धेभ्यो कुञ् ॥ २२१ ॥ विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो बुञ् रयादणोऽपवादः । छं तु परत्वाद् बाधते । उपाध्यायादागत औपाध्यायकः । शैष्यकः । आचार्यकः। मातामहकः । पैतामहकः । मातुलकः ।
ऋतष्ठञ् ॥ २२२ ॥ वुनोऽपवादः । विद्यायोनिसम्बन्धेभ्य इत्येव । होतक
Page #182
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १७७ म् । मातृकम् । भ्रातृकम् । उष्कबिति वक्तव्ये तपरकरणं ठग्रहणं च चिन्त्यप्रयोजनमिति पाश्चः । पौतकी विद्येत्यत्र डीबर्थ ठजिनि तु तत्वम् । कञ्ग्रहणेन सिद्धमिति चेत् तर्हि यादृशीत्यादि न स्यात् । तदनुबन्धकग्रहणेऽतथाभूनाग्रहणात् ।
पितुर्यच्च ॥ २२३ ॥ चाट्ठम् । रीङ् ऋतः। यस्येतिलोपः । पित्र्यम् । पैतृकम् ।
गोत्रादङ्कवत् ॥ २२४ ॥ लौकिकं गोत्रमित्युक्तम् । अपत्यप्रत्ययान्तादात्प्रत्ययाः स्युः अङ्के दृष्टस्य सर्वस्यायमतिदेशो न तु साक्षाद्विहितस्येत्याग्रहः । तेन गोत्रचरणाद् बुभिति वुअपि लभ्यते । स हि तम्येदमिति सामान्येन विधीयमानोऽपि अभ्यविनन्तादन्यत्रा. केऽपि दृष्टः । वतिः सर्वसादृश्यार्थः । कालेभ्यो भववचरणेभ्यो धर्मवदिति यथा । विदेभ्य आगतं वैदम् । गार्गम् । दाक्षम् । सकात्युक्तेरमाद्यन्तादिहाप्यण् । औपगवेभ्य आगतमौपगवकम् । गोत्रचरणादिति वुन् ।
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ २२५ ॥ मनुष्यग्रहणमहेत्वर्थम् । हेतुभ्यस्तावत् समादागतं समरू. प्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच्छः । विभाषात्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे च व्याख्यानमेव शरणम् । बाहुलकं प्रकृतेस्तनुदृष्टेरिति लिङ्गमप्यस्ति । ननु तत आगत इत्यधिकारे हेतु. मनुष्येभ्य इति निर्देश एव लिङ्गगस्त्विति चेत्र । जाड्यादागत इत्यादिगुणपरतयाऽप्यस्य गतार्थत्वात् । मनुष्येभ्यः । देवदत्तरूप्यम् । देवदत्तम् । वहुवचनं स्वरूपविधिनिरासार्थम् ।
शब्द. तृतीय. 12.
Page #183
--------------------------------------------------------------------------
________________
१७८
शब्दकौस्तुभे।
मयट् च ॥ २२६॥ योगविभागो यथासंख्यनिरासार्थः । सममयम् । वि. षममयम् । देवदत्तमयम् । टकारः स्त्रियां ङीवर्थः ।
प्रभवति ॥ २२७ ॥ तत इसेव । हिमवतः प्रवति हेमवती गङ्गा । दारदी सिन्धुः । प्रभवति प्रकाशते तत्र प्रथमं दृश्यत इत्यर्थः । उ. त्पत्तिवचनस्तु प्रभवतिर्न गृह्यते । तत्र जात इत्यतो भेदेन निर्देशात् ।
___ विदूरायः ॥ २२८ ॥ अणोऽपवादः । विदूरात्प्रभवति वैर्यो मणिः । दन्त्यमध्योऽयं शालवत् न तु नवलवन्मूर्धन्यमध्यः । स्यादे. तत् । इह नार्थः सङ्गच्छते । बालवायाद्धि असौ प्रभवति विदरे तु संस्क्रियते । सत्यम् । अत एव समाहितं भाष्ये ।
बालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेद् ब्रूयाजित्वरीवदुपाचरेत् ॥ दिति ।
अस्यार्थः । बालवायशब्दः प्रत्ययं लभते विदूरादेशं च । सूत्रे पठितेनादेशेनानुरूपस्य स्थानिन आक्षेपात् । यथा पदन इत्यादौ । अत एव शिवादिषु पठिताभ्यां विश्रवणरवणाभ्यामनुरूपो विश्रवाः स्थानितयाऽऽक्षिप्यत इत्युक्तम् । प्रकृत्यन्तरमेव वा । विदूरशब्दो नगरस्येव पर्वतस्यापि वाच. कोऽस्तीत्यर्थः । न वा इति । वैशब्दोऽक्षमा द्योतयति । सत्र पर्वतेऽयं शब्दो न प्रसिद्ध इति चेज्जित्वरीवयवहरेत् । नियतपुरुषापेक्षोऽपि हि व्यवहारो दृश्यते । यथा वणिज एव वाराणसी जित्वरीति व्यवहरन्ति । एवं वैयाकरणा एव अ.
Page #184
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १७९ दि विदूर इति । एतद्भाष्यं दृष्ट्वेदानी काव्येष्वपि तथा व्य. वहारः । तथा च श्रीहर्षः । तथा विहरादिरहरतांगमीनि ।
तद्गच्छति पथितयोः ॥ २२९ ॥ द्वितीयान्ताद् गच्छतीत्यर्थे प्रत्ययः स्यात् स चेद् गन्ता पन्था दूतो वा । सुघ्नं गच्छति सौनः पन्था दूनो वा । साध्वसिश्छिनत्ति । काष्ठानि पचन्तीत्यादाविव करणस्य स्वा. तव्यविवक्ष या पन्थाः कर्ता ।
अभिनिष्क्रामति द्वारम् ॥ २३० ॥ ___ तदित्येव । स्त्रघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् । स्रौनाभिमुखनिष्क्रमणे करणीभूतमिति फलितोऽर्थः । पूर्ववस्करणस्य कर्तृत्वे प्रत्ययः ।
अधिकृत्य कृते ग्रन्थे ॥ २३१ ॥ तदित्येव । अधिकृत्येत्येतदपेक्षया च द्वितीया। शारी. रक आत्मा तमधिकृत्य कृतो ग्रन्थः शारीरकीयः । चतुलक्षणीसूत्रसंदर्भः । वृद्धाच्छः । वेदान्तग्रन्थेषु तु शारीरकमिति प्रचुरो व्यवहारः । स चौपचारिकः । न तु शैषिकप्रत्ययान्तः । अद्धादण् । यथा ययातिमधिकृत्य कृनो ग्रन्थः यायातः । अत्र वार्तिकम् । लुवाख्यायिकाभ्यो बहुलमिति तादर्थ्य एषा चतुर्थी आख्यायिका नाम गद्यरूपोऽयं ग्रन्थविशेषः । अत एवाख्यानाख्यायिकयोस्तत्र तत्र भेदेनोपादानम् । आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुबि. त्यर्थः । वासवदत्ता । सुमनोत्तरा। कचिन । भैमरथी । अभेदोपचारेण गतार्थत्वान्नेदं वार्तिकमावश्यकम् ।
Page #185
--------------------------------------------------------------------------
________________
१८०
शब्दकौस्तुभे।
शिशुक्रन्दयमसभहन्द्वेन्द्रजननादिभ्यश्छः ॥२३२॥
शिशूनां क्रन्दनं शिशुक्रन्द्रः तमधिकृत्य कृतो ग्रन्धः । शिशुक्रन्दीयः । यमस्य सभा यमसभम् । यमसभीयः । द्वन्द्वात् । अग्निकाश्यपीयः । वाक्यपदीयन्तु वृद्धाच्छेनापि सिद्धम् । इन्द्रजननीयम् । इन्द्रजननादिराकृतिगणः तेन च वि. रुद्धभोजनीयमध्यायं व्याख्यास्याम इत्यादि सिद्धम् । अत्र वार्तिकम् । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । वृत्तिकारस्त्वाह इन्द्रजननादेराकृतिगणवाद्य. याभिधानं छः सिद्धः । तथा च शिशुक्रन्दादित्रयं न कर्त्तव्यं वार्तिकं च नतरामिति ।
सोऽस्य निवासः ॥२३३ ॥ तुम्नो निवासो वासाधिकरणमस्य सौनः । नन्वस्येति कृद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यभा. वव्यत्यासात् त्रुघ्नाधिकरणकवासकर्ता वृत्त्यर्थः । तथा च तत्र भव इत्येव सिद्धम् । सत्यम् । वासस्य चेतनमात्रकर्टकतया प्रसिद्धत्वात् । प्रकारकृतो भेदो बोद्धव्यः । वसन्ति हि प्रेम्णि गुणा न वस्तुनीत्यादौ तूपचारो बोध्यः ।।
अभिजनश्च ॥ २३४ ॥ ___ अभिजनवचनाः पूर्वबान्धवा इति वृत्तिः । अभिजायते एभ्य इति व्युत्पत्तेरिति भावः। पूर्वबान्धवाः पित्रादयः। बन्धुशब्दः प्रज्ञादिः । पूर्वसूत्रादिह निवास इत्यनुवृत्तम् । तत्स. मानाधिकरण्यादभिजनशब्दस्य तत्सम्बन्धिनि लक्षणा । सुनोभिजनोऽस्य सौनः। यत्र यो वसति स तस्य निवासः। यत्र तु पूर्वैरुषितं सोऽभिजन इति विवेकः। योगवि.
Page #186
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १. आह्निकम् । १८१
भाग उत्तरार्थः ।
आयुधजीविभ्यश्छः पर्वते ॥ २३५ ॥
पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येति षष्ठ्यर्थे छः स्यात् । सूत्रे तादर्थे चतुर्थी । आयुधजीविम्य आयुधजी: व्यर्थम् । आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । हृद्गोल: पर्वतोऽभिजन एषामायुधजीविनां ते हृङ्गोलीयाः । आयुवजीविभ्यः किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ब्राह्मणानां ते आक्षदाः ।
शण्डिकादिभ्यो ञ्यः ॥ २३६ ॥
शण्डिकोsभिजनोऽस्य शाण्डिक्यः । सिन्धुतक्षशिलादिभ्यो ऽणौ ॥ २३७ ॥
सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । वार्णवः । सिन्धु वर्णु गन्धार मधुमत् कम्बोज कुलूत कश्मीर शाल्व किष्किन्ध गन्धिक उर दरत् । सिन्ध्वादयः प्रायेण कच्छादिष्वपि पठ्यन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुको बाधनार्थं वचनम् । तक्षशिला नगरी अभिजनोऽस्य तक्षशिलः । वार्वर इति । तूदीशलातुरवर्मतीकूचवारात ठक्छण्ढव्यकः ॥ २३८ ॥
तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ।
भक्तिः ॥ २३९ ॥ मोsस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुनो भक्तिरस्य स्रौघ्नः । माथुरः ।
Page #187
--------------------------------------------------------------------------
________________
१८२
शब्दकौस्तुभे ।
अचित्ताददेशकालाढा ॥ २४ ॥ अणोऽपवादः । वृद्धाच्छं परत्वाद्धाधते । अपूपा भक्ति. रस्य आपूपिकः । शाष्कुलिकः । पायसिकः । अचित्तात्किम् । देवदत्तः । अदेशात् किम् । स्रौनः । अकालाकिम् । प्रैष्मः ।
महाराजात ठञ् ॥ २४१ ।। माहाराजिकः ।
वासुदेवार्जुनाभ्यां वुन् ॥ २४२ ॥ छाणोरपवादः । वासुदेवकः । अर्जुनकः । अल्पान्तर• मजाद्यदन्तमितिमूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयति सर्वतोऽभ्यर्हितं पूर्व निपततीति । स्यादेतत् । वसुदे. वस्यापत्यं वासुदेवः । ऋष्यन्धकेत्यण् । तत्र गोत्रत्वात् क्षत्रियत्वाच्चोत्तरसूत्रेण वुञवास्तु किमनेन वुना । न ह्यत्र वृद्धौ विशेपः प्रागेव वृद्धत्वात् । न च द्धिनिमित्तस्यति पुंवद्भावनिषेधो दोषः वुन्यपि न कोपधाया इति निषेधस्येष्यमाणत्वात् । न चाभ्यर्हितं पूर्वमित्येतज्ज्ञापनमेव फलम् । तथात्वे हि पूर्वनिपातप्रकरण एवाभ्यर्हितग्रहणमानं लाघवात्कुर्यादिति । अ. व भाष्यम् । संज्ञैषा तत्र भवत इति । अयं भावः ।
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥
इति स्मृतेः परमात्मेह वासुदेवः । सर्वत्रैवासौ वसत्यन्त. योमित्वात सर्वमत्र वसति वा सर्वस्य ब्रह्मविवर्त्तत्वादिति वासुः । बाहुलकादुण् । कोकः पुराणपुरुषो नलिनेशयश्च वासुर्नरायणपुनर्वसुविश्वरूपा इति त्रिकाण्डशेषः । वासुश्चासौ देवश्चेति विग्रहः। तथा च नेयं गोत्राख्या नापि क्षत्रियाख्ये.
Page #188
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आहिकम् । १८३ ति युक्त एव बुन्विधिः । अभ्यहितं पूर्वमिति तु प्रसङ्गाज्ज्ञापितम् । तदप्यनित्यम् । श्वयुवमघोमामिन्यादिलिङ्गादित्यवधेयम् ।।
गोत्रक्षत्रियाख्यभ्यो बहुलं वुन् ।। २४३ ॥
अणोऽपवादः । परत्वाद्धाच्छं बाधते। ग्लुचुकायनिर्भक्ति रस्य ग्लौचुकायनकः । औपगयकः । क्षत्रियाख्येभ्यः । नाकुलकः । साहदेवकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः। जनपदिना जनपदवत्सर्व जनपदेन समानशब्दा.
नां बहुवचने ॥ २४४ ॥ जनपदिनो जनपदस्वामिनः तद्वाचिनां शब्दानां बहुवचने जनपदवाचिना शब्देन समानश्रुतीनां जनपदवत्सर्व स्यास्पत्ययः प्रकृतिश्चेत्यर्थः । जनपदतदवध्योश्चेतिप्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गा नाम जनपदो भक्तिरस्य आजकः । वाङ्गकः । सौपौण्डकः । अङ्गाः क्षत्रिया भ. क्तिरस्य सोऽप्येवम् । जनपदिनां किम् । पश्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । अभेदोपचाराद्राह्मणेषु पञ्चालशब्दस्य वृत्तिः । तत्रातिदेशाभावादणेव भवति । सर्वमित्यस्य प्रयोजनमाह वार्तिककारः । सर्ववचनं प्रकृतिनिहासार्थम् । तच्च मद्रज्यर्थमिति । अयं भावः । वृद्धिनिमित्तेषु बुनादिषु वि. शेषस्य दुर्लभत्वान्मज्योः कनि विशेषो बोध्यः। सोऽप्यबहुत्व एवेति निहासोऽपचयोऽल्पता । तथाहि मद्राणां राजा । बमगधकलिङ्गमरमसादण् । माद्रः । वृजिशब्दात्तु वृद्धत्कोसलाजादाज्यङ् । वार्यः । स भक्तिरस्येति प्रकृतिनिहासे म. द्रकः । वृजिकः । जनपदेन समानशब्दानां किम् । पौरवो
Page #189
--------------------------------------------------------------------------
________________
१८४
शब्दकौस्तुभे ।
राना भक्तिरस्य पौरवीयः । बहुवचनग्रहणं किम् । एकव. चनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो यथा स्यात् ।
तेन प्रोक्तम् ॥ २४५ ॥ प्रकर्षणोक्तं प्रोक्तं प्रध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । पाणिनिना प्रोक्तं पाणिनीयम् । आपिशलम् । काशकृत्स्नम् । प्रकणेति वचनान्नेह । देवदत्तेनाध्यापितम् ।
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ २४६ ॥
अणोऽपवादः । छन्दसि वाच्येऽयमिष्यते । तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र तु न भवति । शौनकादिभ्यश्छन्दसीत्यत्रास्यानुवर्तनात् । छन्दो ब्राह्मणानीति तद्विषयता । यद्यपीमे कल्पाः न तु छन्दो नापि ब्राह्मणम् । तथापि छन्दा ब्राह्मणानीत्यत्र छन्दोग्रहणं स्वर्यते । तेन छन्दःप्रकरणमध्यवर्तिनोऽस्यापि तद्विषयता सिध्यति । स्वरितेनाधिकारगति. व्याख्यानात् । यद्वा छन्दो ब्राह्मणानीत्यत्र चकारोऽनुक्तसमुच्चयार्थस्तेन कल्पादेरपि यथाभिधानं तद्विषयता एटव्या तित्तिरिणा प्रोक्तं कल्पमधीयते तैत्तिरीयाः । वारतन्तबीयाः। खाण्डिकीयाः। औखीयाः । इलोकेषु तु अण ने भवति । अनभिधानात् ।
काश्यपकौशिकाभ्यामषिभ्यां णिनिः ॥ २४७ ।।
छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । इह तु वृद्धिः सिदैव । न च वृद्धिनिमित्तस्येति पुंवद्भावनिषेधोऽत्र फलम् । णिन्यन्तस्याध्यतृवोदिताविषयत्वेन स्त्रियामप्रवृत्तेः । वृत्तावपि जातेश्चेति सिद्धत्वात् । चरणत्वेन जानिन्वान । काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः । ऋषिभ्यापि .
Page #190
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् । १८५ ति किम् । इदानीन्तनेन गोत्रकाश्यपेन प्रोक्तं का. श्यपीयम् ॥
कलापिवैशंपायनान्तेवासिभ्यश्च ॥ २४७ ॥ कलाप्यन्तेवासिनां वैशंपायनान्तवासिनां च ये वाचकाः शब्दाः तेभ्योः णिनिः स्यात् ॥ प्रोक्तार्थेऽणोऽपवादः । छ तु परत्वाद्वाधते । तत्र कलाप्यन्तेवासिनश्चत्वारः । हरिदुः । छगली । तुम्बुरुः । उलप इति । वैशंपायनान्तेवासिनस्तु नव । आलम्बिचरकः । कलिङ्गः । कमलः । ऋचाभः । आरुणिः । ताण्ड्यः । श्यामायनः । कठः । कालापीति । उक्तं च । हरिदुरेषां प्रथमस्ततः छगलितुम्बुरू । उलपेन चतुर्थेन का. लापकमिहोच्यते । आलम्बिश्चरकः प्राचां कलिङ्गकमलायुभौ । ऋचाभारुणिताण्ड्याश्च मध्यमीयास्तयः परे । श्यामायन उदी. ज्येषु उक्तौ कठकलापिनाविति । चरक इति वैशंपायनस्याख्या तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरका उच्यन्ते । इह साक्षाच्छिष्या एव गृह्यन्ते न तु प्रशिष्या अपि । कलापिखाडायनग्रहणात् । तथाहि वैशंपायनान्तेवासी कठः । तदन्ते-. वासी खाडायनः । तस्कि शौनकादिषु खाडायनस्य पाठेन । हारिद्रविणः । तौवुरविणः । औलपिनः । छगीलनो दिनुकं वक्ष्यति । आलम्बिनः । कालगिनः । कामलिनः । आर्चामिनः । आरुणिनः । ताण्डिनः । श्यामायनिनः । कठाल्लु. के वक्ष्यति । कलापिनश्चाणम् ।
पुराणोक्तेषु ब्राह्मणकल्पेषु ॥ २४८ ॥ तृतीयान्तात्मोक्तार्थे णिनिः स्यात् यत्तत्प्रोक्तं पुराणपोकाश्चत् ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मु
Page #191
--------------------------------------------------------------------------
________________
१८३
शब्दकौस्तुभे। निना प्रोक्ताः । ब्राह्मणेषु तावत् । भल्लुशाव्यायनऐतरेय ए. भ्यो णिनिः । भाल्लविनः । शाट्यायनिनः । ऐतरोयिणः । कल्पेषु । पिङ्ग अरुणपराज । पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेषु किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । यज्ञवल्काश्मरथशब्दौ करावादी ताभ्यां यान्ताभ्यामणि । तद्विषयता तु नेह प्रतिपदं ब्राह्मणोक्तस्य णिनेरेव त. विधानात् । एतदर्थमेव हि तत्र ब्राह्मणग्रहणं छन्दस्त्वादेव तद्विषयत्वसिद्धेः। कल्पेषु तर्हि काश्यपिनः कौशिकिन इत्य
व स्यादिति चेन । अस्य योगस्य छन्दोऽधिकारेऽननुवृत्तेः । स तु अनुवर्तत इत्युक्तम् । पुराण इति निपातनात् तुडभावः । न चात्यन्तं राधः । सिद्धशुष्कपकबन्धैश्चेति निपातनादेव सिद्ध शुषः कः पचो व इति सूत्राभ्यामबाध. कान्यपि निपातनानीति ज्ञापितत्वात् । तेन पुरातनमिति सिद्धम् । सर्वादिसूत्रे भाष्ये तु बाधकान्येव निपातनानीति स्थितम् । तत्र पृषोदरादित्वात्पुरातनशब्दः साधुः ॥
शौनकादिभ्यश्छन्दसि ॥ २४९ ॥ एभ्यो णिनिः स्यात् प्रोक्ते । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा | कठशाठ इति पठ्यते । तत्सङ्घातार्थम् । के. वलाद्धि लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते काठशा. टिनः । खाडायनोऽत्र पठ्यते । तत्पाठो ज्ञापनार्थ इत्युक्तमेव । कलापिग्रहणादेव तसिद्धिरिति चेत् तन्यितरेण साक्षाच्छि. ष्यग्रहणे ज्ञापिते सामर्थ्यादधिकविधानार्थ सत् इतरोपादानं परम्पराशिष्ये अप्राप्तस्य विध्यर्थमिति गृहाण ।
Page #192
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १ आह्निकम् ।
१८७
कठचरकाल्लुक् ॥ २५०॥ आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात् । कठशब्दाद्वैशम्पाय. नान्तेवासित्वात् णिनिः । चरकादण् । तयोर्लुक् । कठेन प्रोक्तमधीयते ये ते कठाः । छन्दसीत्येव । काठाः चारकाः श्लोकाः।
कलापिनोऽण ॥ २५१॥ णिनेरपवादः । वैशंपायनान्तेवासिवात्माप्तिः । कलापिना प्रोक्तमधीयते कालापाः । इनरायनपत्य इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्याधुपसंख्यानाहिलोपः । अण्ग्रहणसामर्थ्यादधिकविधानार्थ सत् बाधकबाधनार्थम् । तेन माथुरेण प्रोक्ता माथुरी वृत्तिः । सौलभानि ब्राह्मणानि । मौदाः । पैप्यलादाः शाकला इति सिद्धम् । मुद पिप्यलाद शाकल्य एभ्यः पुराणप्रोक्तेष्विति णिनेरपवादोऽण् ।
छगलिनो ढिनुक् ॥ २५२ ॥ कलाप्यन्तेवासित्वात् णिनेरपवादः । छगलिना प्रोक्तमधीयते छागलेयिनः।
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ २५३ ॥ ___ मण्डूकप्लुत्या णिनिरिह संबध्यते । तद्विषयतेहेष्यते । तदर्थ छन्दोग्रहणमनुवर्त्य सूत्रयोश्छन्दस्त्वं तु गौणं बोध्यम् । पाराशर्येण प्रोक्तं भिक्षसूत्रं चतुर्लक्षणीरूपमधीयते पाराशरिणो भिक्षवः । शिलामलते शिलालाः । अल भूषणपर्याप्तिवारणेषु सुप्यजाताविति णिनिः । ततोऽस्मिण्णिनौ टिलोपः। शैलालिनो नटाः। भिक्षुनटसूत्रयोः किम् । पाराशरम् । शैलालम् ।
Page #193
--------------------------------------------------------------------------
________________
शब्द कौस्तुभे ।
कर्मन्दकृशाश्वादिनिः ॥ २५४ ॥
आभ्यां प्रोक्ते इनिः स्यात् । कर्मन्दिनो भिक्षवः । कृशाविनो नटाः । भिक्षुनटसूत्रयोरित्येव । कार्मन्दम् । कार्शाश्वम् । तेनैकदिक् ।। २५५ ॥
१८८
सुदान्नादिणा एकदिक | सौदामनी ।
तसिश्च ॥ २५६ ॥
पीलुमूलतः ।
उरसो यच्च ॥ २५७ ॥
चात्तसिः । अणो ऽपवादः । उरसो एकदिक् उरस्यः । उरस्तः ।
उपज्ञाते ॥ २५८ ॥
तेनेत्येव । विनोपदेशं ज्ञातमुपज्ञातम् । पाणिनिनोपज्ञातं
पाणिनीयम् ।
कृते ग्रन्थे ॥ २५९ ॥
तेनेत्येव । वररुचिना कृतो वाररुचो ग्रन्थः । संज्ञायाम् ॥ २६० ॥
तृतीयान्तात् कृतेऽर्थे प्रत्ययाः स्युः संज्ञायाम् । अग्रन्थार्यमिदम् । मक्षिकाभिः कृतं माक्षिकम् । गार्हुतम् । पैचिकम् । मधुनः संज्ञा एताः ।
कुलालादिभ्यो वुञ् ॥ २६१ ॥
तेन कृते संज्ञायामित्यनुवर्त्तते । कुलाळेन कृतं कौलालकम् । वारुडकम् |
Page #194
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे १. आह्निकम् ।
क्षुद्राभ्रमरवटरपादपादञ् ॥ २६२ ॥ तेन कृते संज्ञायामित्यनुवर्त्तते । क्षुद्राभिः कृतं क्षौद्रम् | भ्रामरम् | वाटरम् | पादपशब्दाच्छे प्राप्ते अन्येभ्योऽणि अविधीयते । केचित्तु पादपशब्दस्थाने पदपशब्दं पठन्ति तन्मतेऽण एवायमपवादः ।
1
इति श्रीशब्द कौस्तुभे चतुर्थस्य तृतीयपादे प्रथममाह्निकम् । तस्येदम् ॥ २६३ ॥
१८९
अणादयः पञ्च महोत्सर्गाः घादयश्च षष्ठयन्तात्संवन्धिनि स्युः । उपगोरिदमौपगवम् । राष्ट्रियमित्यादि । अनन्तरादिध्वनभिधानान्न | कहेस्तुराणि च । संवादुः स्वं सांवहित्रम् । तुरिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिकप्रक्रियावाक्ये पूर्वमिट् । ततो निमित्ताभावान्न दत्वा - दि । सिद्ध एवात्राणू इडर्थमुपसंख्यानम् । अग्नीधः शरणे रण् भं च । अग्निमिन्धे इत्यग्नीत् किपू । ऋत्विग्विशेषोऽयम् । त्वमग्निहतीयत इत्यत्र तु छान्दसं ह्रस्वत्वम् । शरणं गृहं स्थानं तत्राग्नीधम् । तास्थ्यात् मञ्चाः क्रोशन्ति इति वदृत्विज प्रयोगः कल्पसूत्रकाराणम् । प्रत्याश्रावयेदाशीधमिति । ततः शरणे छः आग्नीधीयं धिष्ण्यं परीत्येति रञो वित्वमायुदात्तार्थम् । तथ च प्रयुज्यते । पिवाग्रीघ्रातव भागस्य तृणुहीति कश्चित् । तन्न । रण् भं चेति सांप्रदायिकणित्वपाठविरोधात् । पाश्चमिकभाष्यविरोधाच । आग्नीध्रसाधारणादञितिवार्त्तिके हि आग्नीधमिति भाष्ये उदाहृतम् । अश्रू प्रयुक्त आयुदाच इति हि तस्याशयः । रञिति पाठे तु तब सङ्गछेतेति दिकू । समिघामाघाने पेण्यण् । सामिवेन्यो
Page #195
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
मन्त्रः । षित्वान्ङीष् । सामिधेनी । हलस्तद्धितस्येति यलोपः । इह ययाग्निः समिध्यते सा समित् । संपदादित्वात् करणे किप् । ततः कर्मणि षष्ठयन्तादाधानकरणे तद्धितः । पाय्यसान्नाय्यति सूत्रे सामिधेनीष्विति निपातनादेतत्सिद्धम् ।
रथाद्यत् ॥ २६४ ॥ अणोऽपवादः । रथाद्रथाङ्गे इति वार्तिकम् । रथस्येदं रथ्यं चक्रं युगं वा । कथं तर्हि रथस्य वोढा रथ्य इति तद्वहतीति । यद्येवं । अयमेव तद्वोढर्यपीष्यताम् । तद्वहतीत्यत्र तु रथग्रहणं मा कारि । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र द्विगोलुंगनपत्य इति प्राग्दीव्यतीयलुप्रसङ्गात् । यत्तु द्वयो रथयोरङ्ग तत्र द्विरथ इत्येव भवति । रथसीताहलेभ्यो यद्विधाविति तदन्तविधेरुपसंख्यानात् । अत एव परमरथ्यमिति सिद्धम् । ननु द्विगोलुंगनपत्य इत्यत्राचीत्यस्यापकर्षपक्षे कथमत्र यतो लुगिति चेत् सत्यम् । तद्वहतीत्यत्रस्थग्रहणमेव ज्ञापकमे. तस्य यतो हलादेरपि लुग्भवतीति अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यादिति ।
पत्रपूर्वाद ॥ २६५ ॥ रथादित्येव । पूर्वस्य यतोऽपवादः । पतन्त्यनेन पत्रं वाहनम् । दाम्नीत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः तस्यास्याङ्गमाश्वरथम् ।
पत्राध्वर्युपरिषदश्च ॥ २६६ ॥ एभ्योऽञ् स्यादणोऽपवादः । पत्राद्वाह्य इति वार्चिकम् । अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् । इह पत्रेत्यर्थग्रहणे इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।
Page #196
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे २ आह्निकम् । १९१
हलसीराट्ठक् ॥ २६७॥
हलस्येदं हालिकम् । सैरिकम् । द्वन्द्वाद् वुन् वैर मैथुनिकयोः ॥ २६८ ॥
अणोऽपवादः । छं तु परत्वाद्वाधते । काकोलूकिका | काकोलूकस्य वैरमित्यर्थः । कुत्स कुशिक योमैथुनिका । विवा हरूपः सम्बन्ध इत्यर्थः । मिथुनं दम्पती तस्य कर्म क्रिया निष्पादनम् । मनोज्ञादित्वाद् वुञ् । वुमन्तञ्चह स्त्रियां स्वभा वात् । वैरे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । गोत्रचरणाद् वुञ् ॥ २६९ ॥
1
तस्येदमित्यर्थे । अणोऽवादः । छं तु परत्वाद्बाधते । ग्लौचुकायनकम् । औपगवकम् | चरणाद्धर्माम्नाय योरिबि वार्त्तिकम् | काटकम् | कालापकम् । वुनि प्रकृते वुब्बिधिरतृद्धेषु वृद्ध्यर्थः । पुंवद्भावनिषेधस्तु कोपधत्वादेव सिद्धः ।
1
सङ्घाङ्कलक्षणेष्यत्र्यञिञामण् ॥ २७० ॥
·
तस्येदमित्यर्थे । पूर्वस्य वुञोऽपवादः । सङ्गादिषु घोपग्रहणमिति वार्त्तिकम् । अत एव यथासंख्यमपि न वैषम्यात् । तिस्रः प्रकृतयः प्रत्ययार्थविशेषणानि चत्वारि तत्र द्वादशोदाहरणानि । अञ् । बैदः सङ्गोऽङ्को घोषो वा । बैदं लक्षणम् । यञ् । गार्गः । गार्गम् । इञ् । दाक्षः । दा क्षम् । अङ्कलक्षणयोर्निघण्टुपर्यायत्वं प्रसिद्धम् । कलङ्काङ्कौ लाञ्छनं च चिन्हं लक्ष्म च लक्षणमित्यमरः । तथापि पृथग्रहणसामर्थ्यादिह विशेषपरता | परम्परासम्बन्धोऽङ्कः यथा गवादिनिष्ठः स्वामिना गोद्वारा सम्बन्धः । साक्षातु लक्षणम् ।
·
Page #197
--------------------------------------------------------------------------
________________
१९२
शब्दकौस्तुभे। यथा बिदानां विद्या । घोष आभीरस्थानम् । णित्वं डीप. पुंवद्भावनिषेधाय च । वैदी विद्या यस्य वैदीविद्यः । विदा. नामसाधारणी या विद्या तद्वानित्यर्थः ।
शाकलाहा ॥ २७१ ।। अस्मादण् वा स्यादुक्तेऽर्थे । पक्षे चरणत्वाद् वुन् । शकलेन प्रोक्तमधीयते शाकलाः । तेषां सङ्घः अङ्कः घोषो वा शाकलः । लक्षणे ल्कीबता। छन्दोगौविथकयाज्ञिकबड्चनटाळ्यः ॥ २७२ ॥
सङ्घादयो निवृत्ताः । एभ्यो ज्यः स्यात्तस्येदमर्थे । च. रणशब्देभ्यो कुनोऽपवादः । नटात्तु औत्सर्गिकस्याणः । च. रणाद्धर्माम्नाययोरित्युक्तम् । तत्साहचर्यान्नटशब्दापि तयोरेव । छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औविथक्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् । अन्यत्र छान्दोगं कुलमित्यादि ।
न दण्डमाणवान्तवासिषु ॥ २७३ ॥ दण्डप्रधाना माणवाः तेषु शिष्येषु च वुञ् न स्यात् । गोत्रग्रहणमिहानुवर्तते । तेन वुबः प्रतिषेधोऽयम् । दाक्षाः प्लाक्षाः दण्डमाणवाः शिष्या वा ।
रैवतिकादिभ्यश्छः ॥ २७४ ॥ तस्येदमित्यर्थे । एषां गोत्रप्रत्ययान्तत्वाद् वुबि प्राप्ते छो विधीयते । रैवतिकीयः । औदयधीयाः । वैजवापीयाः । अत्र वार्चिकद्वयम् । कौपिञ्जलहास्तिपदादण आथर्वणिकस्येकलोपश्चेति । द्वयमपीदं वृत्तिकृता मूत्रमध्ये प्रक्षिप्तमिति हर• दत्तः । आचं वार्षिकं द्वितीयं मूत्रमिति तु कैयटः । त.
Page #198
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे २ आह्निकम् । १९३ बायो गोत्रवुनोऽपवादः । द्वितीयस्तु चरणबुबः । कपिअलस्यापत्यम् । अस्मादेव निपातनादण् । तदन्तात्पुनरण् । को. पिनलः । हस्तिनः पाद इव पादो यस्य हस्तिपादः । पा. दस्य लोपो न भवति अहस्त्यादिभ्य इति वचनात् । ह. स्तिपादस्यापत्यम् । अस्मादेव निपातनादण् पद्भावश्च । हास्तिपदः । ततः पुनरण । हास्तिपदः । आथर्वणिकस्यायमा. थर्वणो धर्म आम्नायो वा चरणाद्धर्माम्नाययोरित्युक्तम् । आणिकस्तु देवा व्युत्पादितः । तथाहि अथर्वणा प्रोक्तो वेदोऽथर्वाः अभेदोपचारान् तमधीते वसन्तादित्वाहा । दा. ण्डिनायनादिसूत्रे निपातनाडिलोपाभावः । यद्वा मोक्तहेऽण् । ततश्छन्दोब्राह्मणानीति तद्विषयतायामाथर्वणशब्दस्याऽपि वसन्तादिषु पाठादध्येतरि ठक् । तस्य विधानसामर्थ्यात् प्रोताल्लुगिति लुङ् नेति । समाप्ताः शैषिकाः ।
तस्य विकारः ॥ २७५ ।। पष्ट्यन्ताद्विकारे अणादयः स्युः अपाणि आयुदात्तं अ. वृद्धं प्रतिपदमवक्ष्यमाणप्रत्ययं चेहोदाहरणम् । अश्मनो वि. कार आश्मः । अश्मनो विकार इति लोपः पाक्षिकः । भा. स्मनः । मार्चिकः । नित्स्वरेणाद्युदात्ता एते । अश्मन् भस्मन् शब्दौ हि मनिन् प्रत्ययान्तौ मृदस्तिकन् । घादिसम्बद्धस्य ग्रहणस्य निवृत्तये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते प्राक् दीव्यतः प्राग्भवनादिति विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । हालः । सैरः।
अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ २७६ ॥ चाद्विकारे। तेन वक्ष्यमाणाः प्रत्ययाः प्राण्यादिभ्यः त्रि
शब्द. तृतोय. 13.
Page #199
--------------------------------------------------------------------------
________________
नामस्तुम।
भ्योऽर्थद्वये । अन्येभ्यस्तु विकार एव । तत्र प्राणिभ्योऽञ् वक्ष्यति । मयूरस्यावयवो विकारो वा मायूरः । औषधिः भ्यः मौर्वे काण्डं भस्म वा । मूर्वाशब्दस्तृणधान्यानां च यषामित्यायुदात्तः । पैप्पलः।
बिल्वादिभ्योऽण् ॥ २७७॥ बैल्वम् । व्रीहिमुद्गाशब्दौ घृतादित्वादन्तोदात्तौ । ममूरगोधृमगवेधुकाशब्दा लघावन्ते द्वयोश्चेति मध्योदात्ताः । इषेः क्सुः । इक्षुः । प्रत्ययस्वरेणान्तोदात्तः । वेणुशब्दो वेण्वि. म्धानयोरिति पक्षेऽन्तोदात्तः । कृत्रः पास इति पासे कृते कपीसीशब्दो जातिलक्षणङीषन्तः । कर्कन्धूशब्दोऽलावूकर्कन्धूदिधीपूरिति निपातनान्मध्योदात्तः। कुटीशमीशुण्डाभ्यो रः । प्रत्ययस्वरेणान्तोदात्तः । तत्र काण्डपाठलीशब्दाभ्यां वृद्धलक्षणस्य मयटोऽपवादः । शेषेभ्यस्तु । अनुदात्तादिलक्षणस्यावः । गवेधुकाशब्दस्य कोपधत्वादेव सिद्ध मयड् वैतयोरित्यादिना प्राप्तस्य मयटो बाधनार्थ ग्रहणम् । शेषेभ्यस्त्वद्धभ्यः पक्षे मयद् भवत्येव । अण्ग्रहणं वाधकबाधनार्थम् । विल्वादयो यथाविहितमिति हुक्ते पाटलीशब्दादनुदाचादिलक्षणस्याबो मयटा बाधे प्राप्ते पुनर्वचनात् अव स्यात् ।
कोपधाच्च ॥ २७८ ॥ अण् स्यात् । अनोऽपवादः । त• तार्कवम् । ओरञ् प्राप्तः । तैतिडीकम् । तिन्तिडीकशब्दो लघावन्त इति म. ध्योदाचः।
पुजतुनोः षुक् ॥ २७९ ॥ आभ्यामण स्याद्विकारे नयोः पुकागमश्च। औरञोऽपवादः।
Page #200
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे २ आदिकम् । १९५ त्रपुणो विकारः त्रापुषम् । जातुषम् ।
ओरञ् ॥ २८० ॥ दैवदारवम् । देवदारुभद्रदारुशब्दौ पीतर्थानामित्याद्युदात्तौ ॥
__ अनुदात्तादेश्च ॥ २८१ ॥ दाधित्थम् । गार्मुतम् । गर्मुच्छब्दो यो मुट् चेत्युतिप्रत्ययान्तः । कथं तर्हि तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेदित्यबान्तोदात्ततेति चेत् व्यत्ययेनेति नोत्वत्सूत्रे प्रामाणिकाः ।
पलाशादिभ्यो वा ॥ २८२ ॥ उभयत्र विभाषेयम् । पलाशखदिरशिंशपास्यन्दनानां अनुदात्तादित्वात्माप्ते अन्येषामप्राप्ते । पालाशम् । पलाशशब्दो घृतादित्वादन्तोदात्तः । खदिरशन्दोऽजिरशिशिरेत्यादौ किरप्रत्ययान्तो निपातितः। शिशपाशब्दो अथ द्वितीयं प्रागीषादिति वर्चमाने पान्तानां गुर्वादीनामिति मध्योदात्तः । स्पदि किश्चिञ्चलने अनुदात्तेतच हलादेरिति युन् । किरतेरीरन् करीरम् । कृतृम्पापीषन् पृभ्यां किच शिरीषम् । नित्स्वरेणादाचावेतौ । विककृतपूलासयवासशब्दा ग्रामादीनां चेत्याधुदाचाः ॥
शम्या ष्लञ् ॥ २८३ ॥ पिदयम् । टिदिति तु माधवः । अनो ऽपवादः । शामी. कं भस्म । बामीली बुक् । चातुर्मास्येषु वरुणप्रघासे शामील्या सुवो भवन्तीति श्रुतम् । शमीशब्दो गौरादिङीषन्तः ।
Page #201
--------------------------------------------------------------------------
________________
शब्दकौस्तुभं ।
मयड्वैतयोर्भाषायामभक्षाच्छादनयोः ॥ २८४ ॥ प्रकृतिमात्रान्मय वा स्यात् । अश्ममयम् । आश्मम् । भाषायां किम् । खादिरो ग्रूप इति वृत्तिकाराः । वस्तुतस्तु वेदे बहूवचः प्रयुक्तस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् । व्य चछन्दसीतिसूत्रस्य व्यच एवेति नियमार्थत्वे यद्यपीदं गताये तथापि विपरीतनियमाशङ्का निवृत्यर्थं बोध्यम् । अभक्षाच्छादनयोरिति किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । अधिकारादेव सिद्धे एतयोरिति वचनमित उत्तरेपां प्राणिरजसादिभ्योऽञ् इत्यवमादानामपि विषये पक्षे प्रवृत्यर्थम् । कपोतमयम् । इह विकारावयवाभ्यां सह प्रत्येकमभक्षाच्छादनयोरिति सम्बध्यते । समास निर्देशात् । अतो यथासंख्यं न । अत्रेदमवधेयम् । आनन्दमयोऽभ्यासादित्यधिकरणे विका रशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रयतो व्यासस्यापि आनन्दशब्दस्य बह्वच्कतया छन्दसि विकारे मयटू न लभ्यत इत्येव आशयः । अत एव मायपाठोऽप्यकिञ्चित्करः । उभयसम्भव एव तस्य निर्णायकत्वात् । एतच्च वृचिकृतामनुकूलम् । उत्तरमीमांसाभाष्यकारैस्तु विकार एवायं मयडिति सिद्धान्तितम् । तेषामयं भावः अन्नमयप्राणमयमनोमयेषु व्यच्त्वाद्यद्यपि सिद्धिस्तथापि विज्ञानमये तावद्विकारे मयडर्थ वृत्ति कृद्भिरपि यतनीयं तत्रायं यत्नः तात्पर्यग्रहस्य न्यायानुसंधानेनैव सिद्धेस्तदर्थं पाणिनिना सूत्रारम्भदर्शनाच्चेह भाषा - ग्रहस्त्याज्यः । तथा च व्यचश्छन्दसीति नोत्वद्वर्धेति च द्विसूत्र्यपि त्याज्या | छन्दसि सकलविकल्पानां व्यवस्थिततायाः सर्वसम्मतत्वात् । उर्ऋत् नित्यं छन्दसीत्यादीनां वैयाकरणैरित्थमेत्र प्रत्याख्यातत्वाच्च । श्रीग्रामरायोश्छन्दसीत्यत्र श्रियश्छन्द
१९६
Page #202
--------------------------------------------------------------------------
________________
४ अध्याये 3 पाद २ आह्निकम् । १.९७ सीत्यंशं प्रत्याचक्षाणेन भगवतापि ध्वनितमेतत् । तथा चानन्दमय इत्यत्रापि विकार एव मयडस्तु ऐकरूप्यात् । यद्वा प्रा. चुर्ये मयकपि प्रकृत्यर्थविरोधिनो लेशतो ऽनुत्तिलाभाप्रकृते विकार एव पर्यवस्यतीति । अथवा नित्यं वृद्धत्यत्र भाषाग्रहणं मानुवर्ति अनुवृत्तावपि सख्यशिश्वीतिमूत्रे इति शब्दबलेनेवैहापि नित्यग्रहणवलेन भाषायां नित्यमन्यत्रापि कचिदिति व्याख्यामाश्रित्य छन्दस्यपि कचिन्मयटः सम्भवात् । अत एव शरादिषु मृच्छब्दपाठोऽप्यर्थवान् । मोषुवरुणमृन्मयंगृहराहरावहंगमामिति प्रयोगात् । यद्वा आगतार्थे मयट् विकार इति त्वार्थिकार्थकथनमिति दिक् ।
_ नित्यं वृद्धशरादिभ्यः ॥ २८५ ॥ भाषायामभक्षाछादनयोरिति. अनुवर्तत इति वृत्तिः । आम्रमयम् । शरमयम् । आरम्भसामर्थ्यादेव सिद्ध नित्यग्रहणं योगविभागेनान्यत्रापि कचिनित्यार्थम् । तेनैकाचो नित्यमिति सिद्धम् । त्वङ्मयम् । सङ्मयम् । कथं आप्यमम्मयमित्यमरः । अत्राप्यमिति प्रमाद एवेति बहवः । तस्ये. दमित्यणन्तात् स्वार्थे व्यनित्यन्ये । शर दर्भ मृत् कुटी तृण सोम वल्वजा एकाचत्वादेव सिद्ध मृच्छब्दस्येह पाठः प्रपश्चार्थः । वृद्धान्मयट्झाग्दीव्यतीयानामपवादः ।
__ गोश्व पुरीषे ॥ २८६ ॥ गोमयं पुरीषं न विकारो नाप्यवयवः । तथापि तस्येदमित्यर्थेऽयं प्रत्ययः।
पिष्टाच ॥ २८७ ॥ मयड् स्याद्विकारे । अणोऽपवादः । पिष्ठमयम् भस्म । कथं
Page #203
--------------------------------------------------------------------------
________________
१९८
शब्दकौस्तुभे । पैष्टी सुरोति सामान्यविवक्षायां तस्येदमित्यण् ।
संज्ञाया कन् ॥ २८८ ॥ पिष्टादित्येव । पिष्टस्य विकारविशेषः । पिष्टकर।
ब्रीहेः पुरोडाशे ॥ २८९ ॥ मयट् स्यात् बिल्वाधणोऽपवादः । व्रीहिमयः पुरोडाशः ब्रहमन्यत् ।
असंज्ञायां तिलयवाभ्याम् ॥ २९० ॥ तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः । यवशब्दाद्विकारेऽण् ततो यावादिभ्य इति स्वार्थे कन् ।
व्यचश्छन्दसि ॥ २९१ ॥ शरमयं बर्हिः।
नोत्वद्वर्धबिल्वात् ॥ २९२ ॥ बच इति प्राप्तः प्रतिषिध्यते । उत्वानुकारवान् । मौज शिक्यम् । मुञ्जशब्दस्य तृणधान्यानां चेत्यायुदात्तत्वादौत्सर्गिकोऽण् वधं चर्म । वर्धशब्द आयुदात्तः । वृद्धिवपिभ्यां रन् । ततोऽण् । ठिदतिकीए । वार्धी रज्जुः । वध्रीति तु वधेरौणादिके ष्ट्रनि । नधी वधी वरत्रा चेत्यमरः । चनाः पश्य वधिकाः पश्येति भाष्यम् । बाध्यश्वस्य नामेति वेदे प्रयोगः । बैल्वः । तपरकरणाद् धूममयम् । मतुन्निर्देशस्तदन्तविधि वारयितुम् । इहैव हि स्याद्वैणची यष्टिरिति ।
तालादिभ्योऽण् ॥ २९३ ॥ अमयटोरपवादः । तालश्यामाकाभ्यां हि दृद्धत्वा
Page #204
--------------------------------------------------------------------------
________________
४ अध्याये ३ पाद २ आह्निकम् ।
१९:
न्मयट प्राप्तः । बर्हिणां विकारो वाहिणम् । प्राणिरजतादिभ्योऽञ् । ततो जितश्च तत्प्रत्ययादित्यञ् प्राप्तः । शेपेभ्य. स्त्वनुदात्तादित्वाद प्राप्तः । तथाहि लिशिशिभ्यामिन्द्र. शब्द उपपदे मूलविभुजादित्वात्कः अन्येषामपीति दीर्घः । इन्द्रालिश । इन्द्रादृश । चप सान्त्वने । पचायच् । चापः । पीयूक्षा लघावन्त इति मध्योदात्तः । फिष् इत्यधिकारादापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अत्र गणमूत्रम् । तालाद्धनुषि । तालं धनुः । अन्यत्र तालमयम् । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितविधौ बार्हिणशब्दावृद्धलक्षणो मयट् स्यात् । जितश्च तत्प्रत्ययादित्यबो बाधनेन वचनस्य चरितार्थत्वात् ।
जातरूपेभ्यः परिमाणे ॥ २९४ ॥ बहुवचनात् पर्यायग्रहणम् । हाटकस्तापनीयः सौवणों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ।
प्राणिरजतादिभ्योऽञ् ॥ २९५ ॥
अनुदात्तादेरञः सिद्धत्वात् परिशिष्टमिहोदाहरणम् । शौ. कम् । बाकम् । शुकबकशब्दो प्राणिनां कुपूर्वाणामित्याधुदाचौ । किश्च अनुदात्तादिरपि वृद्ध इहोदाहरणम् । श्वाविधो विकारः शौवाविध इति अनुदात्तादेरञः परोपि मयडनेनाबा परत्वाद्वाध्यते । कृदुत्तरपदप्रकृतिस्वरणान्तोदात्तः वाविच्छन्दः द्वारादित्वादैच् । राजतम् । रजत । सीस । लोह । उदुम्बर । नीप । दारु । रोहीतक । विभीतक । पीतदा.
Page #205
--------------------------------------------------------------------------
________________
२००
शब्दकौस्तुभे।
रू । वृद्धदारु । त्रिकण्टक । कण्टकार । रजतादिष्वनुदात्तादीनां पुनः पाठो मयबाधाय ।
___जितश्च तत्प्रत्ययात् ॥ २९६ ॥ विद्या विकारावयवप्रत्ययस्तदन्ताद स्यात् तयोरेवार्थयोः । मयटोऽपवादः । ओरञ् । शम्याः प्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रान् वुन् । एण्या ढञ् । कंसीयपरशव्ययोर्यजत्रौ । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थम् । शामीलस्य शामीलम् । इत्यादिनितः । बै. वयमिति वृत्तिकाराः । भाष्ये तु विकारावयत्रप्रत्ययान्तात्पुनस्तत्प्रत्ययो ऽनभिधानान्नेत्याश्रित्य सूत्रं प्रत्याख्यातम् । द्रुवयात्फललान्चेष्यते द्रौवयं मानम् । कापित्थो रसः । कपि. स्थशब्दानुदात्तादेश्चैत्यनः फले लुक् । पुनरञ् । सूत्रारम्भे हि वैल्वस्य विकार इत्यत्रापि मयट् स्यात् । किश्च औष्ट्रकस्य चर्मणो विकार औष्ट्रिकोपानदित्यत्र ठिड्ढामबिति ङीप् स्यात् । न चेष्यते तथा च सौनागाः पठन्ति वुबश्वाञ् कृतप्रसङ्ग इति तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्दो अभेदोपचाराद्वर्त्तत इत्येव शरणमिति सिद्धान्तितम् । त. स्माद् वृत्तिग्रन्थः सूत्रकाराभिप्रायवर्णनमात्रपरतया नेयः ।
क्रीतवत् परिमाणात् ॥ २९७ ॥ पश्चमे प्राग्वतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्तेऽणादीनामपवादः । संख्योन्माने अपि परिमाणग्रहणेन गृह्येते न तु रूढिपरिमाणमेव । निष्केण क्रीतं नैकिकम् । एवं नि
Page #206
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे २ आह्निकम् । २०१ कस्य विकारो नैष्किकः । शतस्य विकारः शत्यः । शतिकः । शताच ठन्यतौ । साहस्रः । शतमानविंशतिकसहस्त्रवसनादण् ।
उष्ट्राद् वुञ् ॥ २९९ ॥ पारायबोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः ।
__ उमोर्णयोर्वा ॥ ३० ॥ औमम् । औमकम् । और्णम् । और्णकम् । उमाशब्दस्तुणधान्याधुदासः । उर्णाशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ताभ्यां वुनभावे यथाक्रममणबौ ।
एण्या ढञ् ॥ ३०१॥ पाण्योऽपवादः। ऐणेयं मांसम् । एणस्य तु ऐणम् ।
गोपयसोर्यत् ॥ ३०२॥ गव्यम् । पयस्यम् । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव तथापि मयड् वैतयोरिति पक्षे प्राप्तं मयटं बाधितुं पु. नरयं यद्विधिः ॥
द्रोश्च ।। ३०३ ॥ __ओरनोऽपवादः । एकाचो नित्यमिति मयटो वा । दुर्वृक्षः । पलाशी बुद्रुमागमा इत्यमरः । द्रोविकारोऽवयवो वा द्रव्यम् ।
ओर्गुणः वान्तोयिप्रत्यये । पृथिव्यादिषु तु गुणैर्दूयते आधीयत इति दुधातोरचो यदिति यत्पत्ययान्तो द्रव्यशब्दः ।
माने वयः ॥ ३०४ ॥ द्रोरित्येव । यतोऽपवादः । द्रोर्विकारभूतं प्रस्थादि परि. माणं दुवयम् । यौतवं दुवयम् । यौतवं दुवयं पाय्यमिति मानार्थकं त्रयमित्यमरः ।
Page #207
--------------------------------------------------------------------------
________________
२०२
शन्दकौस्तुभे ।
फले लुक् ॥ ३०५ ॥ विकारावयवप्रत्ययस्य लुक् स्यात्फले । आमलक्याः फ. लमामलकम् । मयटो लुक् । लुक् तद्धितलुकि । फलितस्य वृक्षस्य फलमवयवो भवति विकारश्च ।
प्लक्षादिभ्योऽण ॥ ३०६ ॥ अमोऽपवादः । शिग्रुफर्कन्धुशब्दयोरुवर्णान्तत्वादितरेपां त्वनुदात्तादित्वादनः प्राप्तिः । विधानसामर्थ्यादणो न लुक् । प्लाक्षम् । प्लक्ष न्यग्रोध अश्वत्थ इजुदी शिग्रु ककन्धु बृहती। इङ्गुदीहतीशब्दौ गौरादिङीषन्तौ । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फल इत्यमरः । न्यग्रोधशब्दो लघावन्त इति मध्योदात्तः । न्यग्रोधस्य च केवलस्येत्यैजागमः ।
जम्ब्वा वा ॥३०७ ॥ जम्बूशब्दात्फलेऽण् वा स्यात् । पक्षे ओरनित्यनुदा. तादेश्चेति वा उत्पन्नस्यातः फले लुगिति लुक् । जम्बु । जाम्बवम् ।
लुप च ॥ ३०८॥ जम्ब्बाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । जम्वाः फलं जम्बूः । फले जम्ब्बा जम्बूः नी जम्बु जाम्बवमित्यमरः । फलपाकशुषामुपसंख्यानम् । ब्रीहयः । मुगाः । पुष्पमूलेषु बहुलम् । मल्लिकायाः पुष्पं मल्लिका । अनुदानादि. लक्षणस्यानो लुप् । मल्लिकाशब्दो मध्योदाचः । अथ द्विती. यं भागीषात् व्यषां पाङ्नकरादिति सूत्राभ्यां व्यषां द्वितीय. मित्यनुवृत्तौ मादीनां वेति फिदसूत्रात् मादीनां त्र्यचां द्वितीय
Page #208
--------------------------------------------------------------------------
________________
४ अध्याये ३ पादे २ आदिकम् । २०३ मुदात्तमित्यर्थः । वनमालिका । लघावन्त इति मध्योदात्तोऽयम् । जात्याः पुष्पं जाती। विदार्या मूलं विदारी । अंशुमती । बृहती । जातीबिदारीशब्दो गौरादिङीषन्तौ । अंशुशब्दः प्रा. तिपदिकस्वरेणान्तोदात्तः ततो मतुप् । इस्वनुभ्यां मतुबिति मतुबकार उदात्तः । बृहन्महतोनघजाद्युदात्तत्व उपसंख्यानात् बृहतीशब्दो ऽन्तोदात्तः । बहुलग्रहणान्नेह । पाटला. नि पुष्पाणि । साल्वानि मूलानि । बाहुलकादेव कचिल्लुक् लुपोऽभावश्च । कदम्बं पुष्षम् । अशोकम् । करवीरम् । एते लघावन्त इति मध्योदात्ताः। अनुदात्तादिलक्षणस्यानो लुक् । वैल्वानि । बिल्वाधण् । इह न लुप्लुको ।
हरीतक्यादिभ्यश्च ॥ ३०९ ॥ एभ्यः फलप्रत्ययस्य लुप् स्यात् । अत्र लिङ्गं युक्तवत् । वचनं तु विशेष्यवदेव । हरीतक्यादिषु व्यक्तिरित्युक्तत्वात् । हरीतक्याः फलं हरीतकी । कोशातकी । इह द्राक्षाप्रभृतिभ्यो मयटो लुप् । अनुदात्तादिभ्योऽत्रः । इतरेभ्यस्त्वणः ।
कंसीयपरशव्ययोर्यत्रो लुक् च ॥ ३१ ॥
कंसीयपरशव्यशब्दाभ्यां विकारेऽर्थे यथासंख्यं यत्रो स्तः छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परान् शृणाति परशुः तस्मै हितं उगवादिभ्यो यत् । परशव्यं दारु । तस्य विकारः पारशवः । परशव्यस्यानुदाचादित्वादारी सिद्ध लुगर्थे वच. नम् । ननु यस्योतिलोपे कते इलस्तद्धितस्येति यलोपेन सिदम् । मैवम् । ईतीत्यनुवृचेः । अन्यार्थतया कृतात् प्रा.
Page #209
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
तिपदिकाधिकारादेवेह धातुप्रत्यययोर्लुङ् न ।।
इति श्रीशब्द कौस्तुभे चतुर्थस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् । पादश्च समाप्तः ।
२०४
प्राग् हतेष्ठक् ॥
१ ॥
तद्वहतीत्यतः प्राक् ठगधिक्रियते । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । वाक्यादयं प्रत्ययविधिः । माशब्दिकः । माशब्दः कारीति यो निषेधति स एवमुच्यते । आहौ प्रभूतादिभ्य उपसङ्ख्यानम् । प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः । आहेतिपदे एकदेशस्य प्रकृतिभागस्योच्चारणार्थेनेकारेणाहाविति निर्देशः । पृच्छतौ सुस्नातादिभ्यः । सुस्नातं पृच्छति सौस्नातिकः । सौख - शायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः ।
तेन दीव्यति खनति जयति जितम् ॥ २ ॥
अक्षैर्दीव्यति आक्षिकः । अभ्या खनति आभ्रिकः । कौालिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् । दीव्यतीत्यादौ कालपुरुषसङ्ख्या अविवक्षिताः । अदेवीत् देविष्यति वा आक्षिकः । एवं देविष्यसि देविष्यामि वा । दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः । कारकन्तु विवक्षितमेव । अत एव जयति जितमिति कर्तृकर्मणोः पृथगुपादानम् ।
Page #210
--------------------------------------------------------------------------
________________
४ अध्याय ४ पादे १ आह्निकम् ।
संस्कृतम् ॥ ३ ॥
योगविभाग उत्तरार्थः । दध्ना संस्कृतं दाधिकम् । मा
रिचिकम् ।
२०५
कुलत्थकोपधादण् ॥ ४ ॥
ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् । तरति ॥ ५ ॥
उपेन तरति औडुपिकः । गोपुच्छाट्ठञ् ॥ ६ ॥
गौपुच्छिकः ।
नौयचष्ठन् ॥ ७ ॥
नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । पकारः सांहितिको न त्वनुबन्ध इति न ङीष् । तथाच श्लोकवार्त्तिकम् । आकर्षात् पर्यादेर्भस्रादिभ्यः कुसीदसूत्राच्च । आवसथात् किशरादेः पितः षडेते ठगधिकारे इति विधवाक्यापेक्षमिह षट्त्वं षडित्यस्य षड्भिर्वाक्यैर्विधेये लक्षणेति यावत् । प्रत्ययास्तु सप्त । कुसीदादिसूत्रेण द्वयोर्विधानात् । इह येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने क्रियमाणे ष्ठलादेः पित्वमनार्षमिति भ्रमः स्यादतो वार्त्तिककारः सर्वानेव पर्यजीगणत् ।
चरन्ति ॥ ८ ॥
तृतीयान्ताद्गच्छतिभक्षयतीत्येतयोरर्थयोष्ठक् स्यात् । ह स्तिना शकटेन चरति हास्तिकः । शाकटिकः । दधा चरति दाधिकः ।
Page #211
--------------------------------------------------------------------------
________________
२०६
शब्दकौस्तुभे ।
आकर्षात् ष्ठल् ॥ ९ ॥ ठकोऽपवादः । लः स्वरार्थः । आकर्षशब्देन सुवर्णपरीक्षार्थो निकषोपल उच्यते तेन चरति आकर्षिकः । आक. र्षिकी । षित्वान्ङीष् । माधवस्तु भ्वादौ कपरवषेत्यादि. दण्डको आकषात् ष्ठल् इति पाठमुदाजहार । तत्तु आकर्षात्पादरिति भाष्यवार्तिकाभ्यां सह विरुद्धम् । तत्र हि नीरेफपाठे वृत्ताननुगुणत्वं स्पष्टम् ।।
पर्यादिभ्यः ष्ठन् ॥ १० ॥ पण चरति पपिकः । पपिकी । पर्प गतौ । पर्पत्यनेनेति पर्पः । हलश्चेति घन् । येन पीठेन पनवश्वरन्ति स पर्प इति माधवः । उज्वलदत्तस्तु खष्पशिल्पशष्पवाष्परूप. तर्पतल्पा इति सूत्रे तर्पशब्दस्याने पर्पशब्दं पठित्वापि सः प: पर्प गृहं बालवणच तेन चरति पर्पिक इत्युदाजहार । इहान्तर्गणसूत्रे पादः पञ्चेति । पादाभ्यां चरति पदिका यत्तु वात्तिकं पद्माव इके चरतावुपसङ्ख्यानमिति सोऽस्यैव प्रपञ्चः। पर्प अश्व अश्वत्य रय जाल न्यास व्याल पाद त् ।
वगणाट्ठञ् च ॥ ११ ॥ चात्ष्ठन् । ठकोऽपवादः । श्वगणेन चरति श्वागाणिकः । स्वागणिकी । श्वगणिकः । श्वगणिकी । श्वादेरिजीत्यत्रेकारादिग्रहणं कर्त्तव्यमिति वचनानि द्वारादिकार्य न ।
वेतनादिभ्यो जीवति ॥ १२ ॥ वेतनेन जीवति वैतनिकः । धनुर्दण्डति पठ्यते । तच सङ्घातविगृहीतार्थम् । तन्त्रावृत्यादीनामन्यतमाश्रयणात् । धानुण्डिकः । धानुष्कः । दाण्डिकः ।
Page #212
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे १ आह्निकम् । २०७
वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्का. तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ।
आयुधाच्छ च ॥ १४ ॥ चाट्ठन् । आयुध्यन्त्यनेनेत्यायुधम् । घनर्थे कविधानमिति कः । आयुधेन जीवति आयुधीयः । आयुधिकः ।
हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सलेन हरति औत्सङ्गिकः । उत्सङ्ग उडुप उत्पत पिटक पिटाक ।
भस्त्रादिभ्यष्ठन् ॥ १६ ॥ भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् भस्त्रिकी । भखा चर्मविकारः । येन लोहादि ध्मायते जलादिकं च नीयते । शीर्षेभाराब्दोऽत्र पठ्यते । निपातनाद् शीर्षभावः सप्तमीसमा. सश्च । तत्पुरुषे कृतीति वा अलुक् । पक्षे शीर्षभारः । एवमंसे. भारः । अंसमारः।
विभाषा विवधात् ॥ १७॥ तृतीयान्तादस्माद्धरत्यर्थे ष्ठन् वा स्यात् । पक्षे ठक् । विवधेन हरति विवधिकः । विविधकी । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः। वीवधिकी । ठकि प्राग्वत् । वीवधाचेति वक्तव्यमिति वार्तिकं दृष्ट्वा सूत्रेऽपि वीवधशब्दो वृत्तिकता प्रक्षिप्तः वार्तिकं तु न्यायसिद्धार्थकथनपरम् । विवधबीवधशब्दौ पर्यायौ पथि पर्याहारे च वर्तेते इति वृत्तिकृतः । पर्याहारो नाम परित आहियतेऽनेन तण्डु लादिकमिति व्युत्प
Page #213
--------------------------------------------------------------------------
________________
२०८
शब्दकौस्तुभे। त्या उभयतो पद्धशिक्यः स्कवायः काष्ठविशेष उच्यते ।
अण कुटिलिकायाः ॥ १८ ॥ कुटिलिकया हरति मृगान व्याधः कौटिलिकः। कुटिलि. कया हरति अङ्गारान् कौटिलिकः कारः । कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लौहं च ।
निवृत्ते ऽक्षयूतादिभ्यः ॥ १९ ॥ अक्षयूतेन नि आक्षयूतिकं वैरम् ।
त्रैमन्नित्यम् ॥२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्नित्तेऽर्थे मप् स्यात् । नित्यग्रहणं स्वातन्त्र्येण प्रयोग वारयितुम् । अत एव लौकिके विग्रहवाक्ये क्तिनादीनां प्रयोगो न तु कोः । डुकृञ् । कुत्या निर्वृत्तं कृत्रिमम् । पत्क्रिमम् । उत्रिमम् । विहित्रिमम् । संख्यावाची त्रिशब्दस्तु नेह गृह्यते व्याख्यानात । प्रत्ययाप्रत्य. ययोः प्रत्ययस्य ग्रहणात् । निजां त्रयाणामित्यादिलिगाच । ननु नित्यग्रहणेन निवृत्तार्थविवक्षायां वाक्यस्य वारणेऽपि तदविवक्षायां स्वातन्त्र्यस्य दुर्वारत्वान्नेदं लिङ्गमिति चेन्न । नि. त्यमिति योगं विभज्य तत्सामादर्थविशेषानादरेणैव स्वा. तन्त्र्यवारणात् । भावप्रत्ययान्तादिमप् वक्तव्यः । पाकेन नितं पाकिमम् । त्यागिमम् । एवं च म न कर्तव्यः। तथाहि भावप्रत्ययान्तादिमप् । ततः । पूर्वेण सिद्धे नियमार्थमिदम् । तेन निवृत्त तावद्वाक्यं निवर्त्यते ततः नित्यम् । अनेनान्यत्रापि स्वा. तन्त्र्यं वार्यते एवं च संख्यावाचिग्रहणं सम्भवत्यपि न । भावप्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति उदात्तनिव. तिस्वरेणेमप इकारस्योदात्तत्वात् ।
Page #214
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् । २०९ अपमित्ययाचिताभ्यां कक्कनौ ॥२१॥
अपमित्येति ल्यबन्तमव्ययम् । उदीवां माङ इति स्काप्रत्यय अपेत्यनेन सह गतिसमासात् । मयतेरिदन्यतरस्यामि. तीत्वम् । अतो नास्मात्तृतीयान्तात्पत्ययः किन्तु वचनात्मथमान्तादेव । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् ।
संसृष्टे ॥ २२ ॥ दधा संसृष्टं दाधिकम् ।
चूर्णादिनिः ॥ २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनो ऽपूपाः ।
लवणाल्लुक् ॥ २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् । लव. णा यवागूः।
मुद्गादण् ॥ २५ ॥ मुरैः संसृष्टो मौद्ग ओदनः ।
व्यञ्जनरुपसिक्ते ॥ २६ ॥ दमा उपसिक्तं दाधिकम् । व्यज्यतेऽनेन ओदनादिरस इति पञ्जनम् । तदाचिना उपसिक्के सिञ्चनेन मृद्कृत एव यथा स्पादिति नियमार्थमिदम् । तेनेह न स्पेन संसृष्टा स्थाली ।
ओजःसहोम्भसा वर्तते ॥ २७ ।। मोजसा वर्तते चौमासिक शुरः । साहसिकवारः । भ. म्भसिको मत्स्यः ।
शब्द. तृतीय. 14.
Page #215
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
तत्प्रत्यनुपूर्वमीपलोम कूलम् ॥ २८ ॥
प्रत्यनुपूर्वमीपलोमकूलान्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्ताद्वर्तत इत्यर्थे ठक् स्यात् । वृतेरकर्मकत्वेपि क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः । ऋक् पूरित्यकारः समासान्तः द्व्यन्तरूपसर्गेभ्य इतीत्वम् । व्युत्पत्तिमात्रं चेदम् । प्रतिकूलानुकूल पर्यायौ हमौ । एवं लोमकूलशब्दावप्यविवक्षितार्थावेव । रूढ्या योगापहारात् । ऊदनोदेशे इत्युत्वं तु नेह । अदेशत्वात् ।
२१०
परिमुखं च ॥ २९ ॥
परिमुखं वर्तते पारिमुखकः । चात्पारिपार्श्विकः । अपपरी वर्जन इति परेः कर्मप्रवचनीयता पञ्चम्यपापरिभिरिति प मी। अपपरिवहिरश्चवः पञ्चम्येत्यव्ययीभावः । परिमुखं वर्तते इत्यर्थे ठक् । स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । यदा तु सर्वतो भावे परिशब्दः प्रादिसमासश्व तदा यतो यतः स्वामिनो मुखं ततो यो वर्त्तते सोऽर्थः । एवं पारिपार्श्विकोऽपि ।
प्रयच्छति गर्ह्यम् ॥ ३० ॥
द्वितीयान्तात्प्रयच्छतीत्यर्थे ठक् स्यात् यत्प्रयच्छति ग चैतत् । द्विगुणार्थं द्विगुणम् । तात्मथ्यात्ताच्छद्यं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिक उत्तमर्णः । बहुवृद्ध्युद्देश्य कदानकर्मसया गर्ह्यत्वम् । वृद्धेर्वृधुषिभावो वक्तव्यः । वृद्ध्यर्थे दृद्धिः तां प्रयच्छति बाधुषिकः । अथ कथं वृद्ध्याजीवश्च वार्धुषिरित्यम
Page #216
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् । २११ रः । वाधुषिः समकम्पयतेति । नस्तेनः स्यात्रवाधुषी बाधुष्यं लवणक्रियेति च । स्वच्छन्दवाचः कवय इति हरदत्तः । गई किम् । द्विगुणं वृद्धिं च प्रयच्छत्यधमणः ।
कुसीददशैकादशात्ष्ठन्ष्ठचौ ॥ ३१ ॥ आभ्यां गार्थाभ्यां यथासंख्यं ठनष्ठचौ स्तः प्रयच्छ. तीत्यर्थे । कुसीदं वृद्धिस्तदर्थ द्रव्यमपि कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्था दशैकादशशब्देनोच्यन्ते तथा च विशेषणसमासः । एकादशार्थत्वादेकादश एकादश च ते वस्तुतो दश चेति विग्रहः । संख्याया अल्पीयस्या इति । पूर्वनिपातः । इहैव सूत्रे निर्देशादकारः समासान्तः । अत एव पाक्यमप्यकारान्तेन भवति । दशैकादशान् प्रयच्छति दशैकादशिकः । दशैकादशिकी । इहाप्युत्तमर्ण एव तद्धितार्थः ।
उञ्छति ॥ ३२ ॥ षदराण्युञ्छति बादरिकः । श्यामाकिकः । काणिकः । भूमौ पतितस्यैकैकस्योपादानमुञ्छः ।
रक्षति ॥ ३३ ॥ समाज रक्षति सामाजिकः ।
शब्ददर्दरं करोति ॥ ३४ ॥ शब्दं करोति प्रकृत्यादिविभागेन व्युत्पादयति शादि. कः । अभिधानस्वभावाद् व्युत्पादन एवायं प्रत्ययः । नेह शन्दं फरोति वर्बरः । दादुरिकः कुलालः । दईरशम्दः पात्रविशेषवाची । अनुकरणशब्द इत्येके ।
पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ एभ्यो द्वितीयान्तेभ्यो इन्तीत्यर्थे उ स्यात् । स्वरुपस्प
Page #217
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे।
पर्यायाणां विशेषाणां चह ग्रहणम् । तत्र मत्स्यपर्यायेषु मीनस्यैव नेतरेषामिति स्वं रूपमित्यत्रोक्तम् । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मत्स्यस्य ड्यामिति परिगणनात् मूर्यतिष्यति यलोपो न । मैनिकः । शाकलि. कः । मार्गिकः । आरण्यकचतुष्पात्सु हरिणे च वृत्तेद्यर्थो मृ. गशब्दः । तत्राद्यस्य विशेषो द्वितीयस्य तु पर्यायो हरिणशब्दः । हारिणिकः ।
परिपन्थं च तिष्ठति ॥ ३६॥ अस्माद्वितीयान्तात्तिष्ठतीत्यर्थे ठक् स्यात् । परिपथशब्दः परीमुखपदव्ययीभावस्तत्पुरुपो वा । आये क्रियाविशेषणत्वाकर्मत्वम् । द्वितीय तु कालभावाध्वगन्तव्या इति । पन्थानं वर्जयित्वा व्याप्य वा स्थितः पारिपन्धिकश्चोरः । चकारो भि. नक्रमः प्रत्ययार्थ समुचिनोति । परिपन्थं हन्ति पारिपन्थिकः । नेदं प्रत्ययसंनियोगेन पन्थेतिनिपातनं किं तु परिपथमित्येत. त्पर्यायभूतः परिपन्धशब्दोऽप्यस्ति परिशब्देन सह समासते. विषयीभूतः पन्थशब्दोऽस्तीति फलितोऽर्थः तेन ठकं विनापि परिपन्यं तिष्ठतीति लौकिकः प्रयोग उपपद्यते । एतदेव मूत्रयितुं तदिति प्रकृतमपि पुनर्द्वितीयोच्चारणं कृतमिति वृत्तिकाराः ।
माथोत्तरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दः पथिपर्यायः । मध्यतेऽवगाह्यते गन्तृभिरिति व्यु. त्पत्तेः । दण्डाकारो माथा दडमाथः दण्डमाथं धावति दाण्डमा. थिकः । पादविकः । आनुपदिकः।
आक्रन्दाठञ् च ॥ ३८॥ अम्मास्यासाठक धावतीत्यर्थे । स्वरे भेदः । आक्रन्दं.
Page #218
--------------------------------------------------------------------------
________________
प्रतिक
४ अध्याये ४ पाद २ आह्निकम् । २१३ त्यस्मिनित्याक्रन्दो देशः दुःखितानां रोदनस्थानम् । आकंन्दं धावति आक्रन्दिकः।
पदोत्तरपदं गृह्णाति ॥ ३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः। पदान्तादिति तु नोक्तम् । बहुच्पूर्वान्मा भूत् ।
प्रतिकण्ठार्थललामं च ॥ ४०॥ एभ्यो गृह्णात्यर्थे ठक्स्यात् । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः । लक्षणेनाभिप्रती इति वा । यस्तु प्रतिगतः कण्ठमिति प्रादिसमासस्तस्येह न ग्रहणं व्याख्यानात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ।
धर्म चरति ॥ ४१ ॥ धर्मशब्दादृक् स्याञ्चरत्यर्थे । चरतिरिहासेवायां न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तोऽपि दुर्वृत्तो धार्मिक इति नो. च्यते । आसेवा हि स्वारसिकी प्रवृत्तिः । अधर्माचेति वक्तव्य. म् । आधर्मिकः ।
प्रतिपथमेति ठञ् च ॥ ४२ ॥ वीप्सायामाभिमुख्ये वाव्ययीभावः । ऋपूरित समा. सान्तः । प्रतिपथमेति प्रातिपथिकः । प्रातिपथिकी ।
समवायान्त्समवैति ॥ ४३ ॥ समृहवाचिभ्यो द्वितीयान्तेभ्यष्ठक् स्यात् समवैतीत्यर्थे । सा. मवायिकः । सामूहिकः । सांनिवेशिकः । इह समवपूर्वस्येणोऽर्थः प्रविश्येकदेशीभवनम् । तत्र गुणभूतं प्रवेशं प्रति प्रकृत्यर्थस्य
Page #219
--------------------------------------------------------------------------
________________
२१४
शब्दकौस्तुभे। कर्मता बोध्या। विशेष्यानुरोधेन तु लोके सप्तमी प्रायशः प. युज्यते । कुरुक्षेत्रे समवेता इति ।
परिषदो ण्यः ॥ ४४ ॥ समवायान् समवैतीत्यर्थे परिषदं समवैति परिषद्यः ।
सेनाया वा ग्यः ॥ ४५ ॥ पक्षेढक् सैन्याः । सैनिकाः।
संज्ञायां ललाटकुक्कुट्यो पश्यति ।। ४६ ॥ ललाटकुक्कुटीशब्दाभ्यां पश्यतीसर्थे ठक् स्यात् संज्ञायाम् । संज्ञानं संज्ञा प्रतिपत्तिः प्रसिद्धिरिति यावत् । प्रसि. स्यनुसारो योगो ग्राह्यो न तु स्वेच्छयेत्यर्थः । लालाटिकः से. षकः । द्वारे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च य इत्य. परः । वदान्योऽपि कयं दद्याल्लालाटिक्यै ललाटिकामिति लक्ष्यम् । कौक्कुटिको भिक्षुः । संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छति । कुक्कुटीशन्देन तत्पाता. ईः स्वल्पदेशो लक्ष्यते । तथा चाल्पमेव देशं पश्यन् कौक्कुटिक उच्यते । इदमेव विषयविभागं सूचयितुं संज्ञायामित्युक्तम् ।
तस्य धर्म्यम् ॥ ४७ ॥ आपणस्य धर्म्यमापणिकः ।
अण महिष्यादिभ्यः ॥ ४८ ॥ महिण्या धर्म्य माहिषम् । याजमानम् । होत्रम् ।
ऋतोऽज्ञ ॥ ४९ ॥ यातुर्धय॑ यात्रम् । नराधेति वक्तव्यम् । नरस्य धा
Page #220
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आडिकम् । २१५ नारी। विशसितुरिलोपश्चाञ् च वक्तव्यः। विशसितुर्धर्म्य वैशस्त्रम् । विभाजयितुर्णिलोपश्वाञ् च वक्तव्यः । विभाजयि. तुर्धयं वैभाजित्रम् ।
अवक्रयः ॥ ५० ॥ षष्ठ्यन्ताहक स्यादवक्रयेऽर्थे । आपणस्यावक्रय आप. णिकः । धर्मोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । अवक्रयस्तु लोभात्मवर्तित इति भेदः । स्वद्रव्यपरित्यागपूर्वकं परद्रव्यस्य स्वीकारो हि क्रयः तस्यावमत्वमवशब्देन छोयते, वाणिज्यार्थ तैलधानादिकं देशान्तरं नयतास्मिन् शुल्कस्थाने प्रतिभार• मेतावद्देयं तथा इदं विक्रीणानेन राज्ञ एतावद्देयमिति तद्देशाधि. पतिना यत्कल्प्यते सोऽवक्रयः पिण्डक इति वोच्यते । तत्र स्व. द्रव्यमेव दत्वा स्वद्रव्यान्तरस्य स्वीकारायस्यावमत्वम् । सूत्रे च क्रीयतेऽनेनेति करणे एरच । तेन राजग्राह्यं द्रव्यं ठगर्थः ।
तस्य परायम् ॥ ५१ ॥ अपूपाः परायमस्य आपूपिकः । शाकुलिकः ।
लवणाठ्ठञ् ॥ ५२ ॥ लवण परायमस्य लावणिकः ।।
किसरादिभ्यः ष्ठन् ॥ ५३ ॥ किसरं परायमस्य किसरिकः । किसरिकी । किसर नरद नलद स्थगल तरग गुल्गुलु उशीर हरिद्रा हरि. दुपर्णी । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ।
शलालुनोऽन्यतरस्याम् ।। ५४ ॥ छन्स्यात् । पक्षे ठक् । शलालुकः । शलालुकी। शाला. लकः । शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः ।
Page #221
--------------------------------------------------------------------------
________________
२१६
सन्दकौस्तुभे ।
शिल्पम् ॥ ५५ ॥ ___ तदस्येत्यनुवर्तते । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । पाणविकः । मृदङ्गवादनादौ लाक्षणिकी प्रकृतिः । मुख्यार्थे वृत्तेस्त्वनभिधानान्न । शिल्पं कौशलं तच्च मृदङ्गवादनादिविषयके । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः।
मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥ मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झाझरः । झाझरिकः । इदमेव सूत्रं ज्ञापकं तत्सम्बद्धक्रियाविषये लाक्षणिकेभ्यः शिल्पप्रत्यय इति । मड्डुकझझरयोमुख्यार्थस्य शिल्पेन सामानाधिकरण्यायोगात् ।
प्रहरणम् ॥ ५७ ॥ तदस्येत्येव ! असिः प्रहरणमस्यासिकः । चाक्रिकः । धानुष्कः । इणः ष इति विसनीयस्य षः ।
परश्वधाठञ् च ॥ ५८ ॥ चाक् । परश्वधः प्रहरणमस्य पारश्वाधिकः । द्वयोः कु. ठारः स्वधितिः परशुश्च परश्वधः ।
शक्तियष्टयोरीकक् ॥ ५९ ॥ शक्तिः प्रहरणमस्य शाक्तिकः । याष्टीकः ।
अस्ति नास्ति दिष्टं मतिः ॥ ६० ॥ तदस्यत्येव । अस्ति परलोक इत्येवं रूपा मतिर्यस्य स मास्तिकः । तद्विपरीतो नास्तिकः । दैवं दिष्टं भागधेयम् । दिष्टमिति मतिय स दैष्टिकः । अस्तिनास्तिशब्दौ निपातौ ।
Page #222
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् । २१७
यद्वा वचनसामर्थ्यादस्तीत्याख्यातान्निपाताख्यातसमुदायाच प्रत्ययः । प्रमाणानुमा मतिर्दिष्टेति प्रक्रिया तु प्रामादिकी । दिष्टशब्दस्यादृष्टपर्यायत्वात् । क्लीवत्वाच्च । नालम्बते दैष्टिकतामिति माघः ।
शीलम् ॥ ६० ॥
तदस्येत्येव । अपूपभक्षणं शीलमस्यापूपिकः । छत्रादिभ्यो णः ॥ ६१ ॥
छत्रं शीलमस्य छात्रः । छत्रमाच्छादनं गुरोर्दोषाणामावरणमिति यावत् ।
कर्माध्ययने वृत्तम् || ६२ ॥
तदस्येत्येव । प्रथमान्तात्षष्ठ्यर्थे ठकू स्यात् । अध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । द्वैयन्यिकः । एकमन्यदिति विगृह्य तद्धितार्थ इति समासः । ततठक् । यस्याध्ययने परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं स ऐकान्यिकः । एवं द्वैयन्यिकः । त्रैयन्यिकः । बह्वच्पूर्वपदाट्ठञ् ॥ ६३ ॥
प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वारशान्यिकः । त्रयोदशान्यिकः । त्रयोदशापपाठा अस्य जाता इत्यर्थः । हितं भक्षाः ॥ ६४ ॥
अस्येति प्रकृतमपि चतुर्थ्या विपरिणम्यते हितयोगात् । अपूपभक्षणं हितमस्मै आपूपिकः ।
तदस्मै दीयते नियुक्तम् ॥ ६५ ॥ नियुक्तमव्यभिचरितम् । अग्रभोजनमस्मै नियुक्तं दीयते
Page #223
--------------------------------------------------------------------------
________________
२१८
आग्रभोजनिकः ।
शब्द कौस्तुभे ।
श्राणामांसौदना ठिन् ॥ ६६ ॥
उक्तेऽर्थे | इकार उच्चारणार्थः । टो ङीबर्थः । श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । यवागूरुष्णिका श्राणा विलेयी तरला च सेत्यमरः । मांसौदनिकः । मांसौदनिकी । मांसौदनग्रहणं संघातविगृहीतार्थमित्येके । युक्तं चैतत् । प्रत्ययान्तरारम्भसामर्थ्यात् । ओदनिक इत्यत्र वृद्धिवारणेन हि टिठन् सार्थकः । अन्यथा ठबैव सिद्धौ किं तेन ।
भक्तादणन्यतरस्याम् ॥ ६७ ॥
पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः । तत्र नियुक्तः ॥ ६८ ॥
आकरे नियुक्त आकरिकः ।
अगारान्तात् ठन् ॥ ६९ ॥
देवागारे नियुक्तो देवागारिकः ।
अध्यायिन्यदेशकालात् ॥ ७० ॥
सत्रेत्येव । निषिद्धदेशकालवाचकाट्ठक् स्यात् । श्मशानेSata माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । आमावास्थिकः । अदेशकालात्किम् । काश्यां पूर्वाऽधीते ।
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७१ ॥
तत्रेत्येव । क्रियातत्वे चायं व्यवहरतिर्वर्तते । वंशकठिने व्यवहरति वांकठिनिकः । वंशा वेणवः कठिना अस्मिन्देशे स वंशकठिनः । तस्मिन् देशे या क्रिया यथानुष्ठेया तां तथैवानु
Page #224
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् ।
तिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । प्रस्तारसंस्थानशब्दौ सनिवेशपर्यायौ ।
निकटे वसति ॥ ७१ ॥ निकटशब्दात्सप्तम्यन्ताट्ठक् स्याद्वसतीत्यर्थे । नैकटिको
२१९
भिक्षुः ।
आवसथात्ष्ठल् ॥ ७३ ॥
वसतीत्यर्थे । आवसन्त्यस्मिन्नियावसथः । उपसर्गे वसेरित्यथप्रत्ययः । आवसथे वसत्यावसयिकः । षित्वान् ङीष् । आवसथिकी । समाप्तोऽस्य ठकोऽवधिः ।
प्राग्विताद्यत् ॥ ७४ ॥
तस्मै हितमित्यतः प्राक् यदधिक्रियते ।
तद्वहति रथयुगप्रासङ्गम् ॥ ७५ ॥
रथ्यः । युगं रथाङ्गं वहति युग्यः । वत्सानां दमनकास्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः । प्रासज्यतेऽसाविति कर्मणि घञ् तं वहति प्रासङ्ग्यः ।
धुरो यड्ढकौ ॥ ७६ ॥
इह धुरो ढक् चेत्येव सुवचम् । धुरं वहति धुर्यः । धौरेयः । धुर्वी हिंसायाम् । भ्राजभासेति किप् । राल्लोपः धूः । यति तु न भकुर्कुरामिति निषेधाद्धलि चेति दीर्घो न । इह उग् विधीयते न तु ठटञ् । धौरेयो लोहितार्भाशुरिति दृश्यते । धौरेयक इति तु स्वार्थे कनि बोध्यम् ।
रवः सर्वधुरात् ॥ ७७ ॥
शब्दस्वरूपापेक्षया नपुंसकनिर्देशो बन्धुनि बहुव्रीहाविति
Page #225
--------------------------------------------------------------------------
________________
२२०
सन्दकौस्तुभे । यत् ।सर्वा धूः सर्वधूरा । पूर्वकालैकेति तत्पुरुषे ऋपूरिति समासान्तः परवल्लिङ्गमिति स्त्रीत्वादाप् । सर्वधुरां वहति सर्वधुरीणः । ख इति योगविभाग इष्टसिद्ध्यर्थः कर्तव्य इति वृत्तिः । दक्षिणा धुरं वहतीति तद्धितार्थे समासे ततः समासान्तेऽकारे टाषि च खः । दक्षिणधुरीणः । एवमुत्तरधुरीणः ।
एकधुराल्लुक च ॥ ७८ ॥ एकधुरं वहतीति एकधुरीणः । एकधुरः । चकारेण खस्यानुकरणसामर्थ्यात्पक्षे श्रवणम् । अन्यथा हि चकारं विनैव भाकरणिकस्य यतो लुग्विधीयेत ।
. शकटादण् ॥ ७९ ॥ शकटं वहति शाकटो गौः । ननु तस्येदमित्यणा सिद्ध यो हि शकटं वहति शकटस्यासौ भवति । अत्राहुः । आरम्भ. सामर्थ्यात्तदन्तविधिः । तेन द्वे शकटं वहति द्वैशकटिकः । प्राग्दीव्यतीयो लुङ् न ।
हलसीरात ठक् ॥ ८०॥ हलं वहति हालिकः । सैरिकः । ननु तस्येदं हलसीरा. हनिति शैषिकेणैव सिद्धम् । सत्यम् । आरम्भसामोदिहापि तदन्तविधिः । द्वैहालिकः।
संज्ञायां जन्या ॥ ८१ ॥ जनी वधूः जायतेऽस्यां गर्भ इति जनिघसिभ्यामिण् । ज. निवध्योश्चेति वृद्धिप्रतिषेधे कृदिकारादिति ङीष् । जनीं वहतीति जन्या जामातुर्वयस्या । सा हि प्रणयकलहादौ वधू जामातुः समीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुक्त । पातेति जन्यामवद कुमारीति ।
Page #226
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् ।
२२१
विध्यत्यधनुषा ॥ ८२ ॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः । पद्यत्यतदर्थ इति पद्भावः । उख्याः कण्टकाः । अधनुषा किम् । चोरं विध्यति । सम्भाव्यते हि चोरव्यधने धनुषः करणता यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वेनासामदेिव न भवति तद्धितवाच्यायाः क्रियायाः गुणीभावेन भवति वै प्रधानस्येति न्यायस्यहानवतारत् । न चात्राविग्रहा गतादिस्थेति न्याय आश्रयितुं श. क्यः धातूपात्तक्रियायामेव तथा व्युत्पत्तेः । अत एव कण्टकैः पादौ विध्यतीत्यादौ न भवतीति वृत्तिमतम् । भाष्ये त्वधनुषेति प्रत्याख्यातम् । चोरं विध्यतीत्यत्र तु अनभिधानाअति दिक् ।
धनगणं लब्धा ॥८३ ॥ वृनन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गरायः।
___ अन्नाराणः ॥ ८४ ॥ अनं लब्धा आनः।
वशं गतः ॥ ८५ ॥ वशनं वशः इच्छा । वशिरण्योरुपसंख्यानमित्यपू । वशं गतो वश्यः । परेच्छानुसारीत्यर्थः ।
पदमस्मिन् दृश्यम् ॥ ८६ ॥ शक्यर्थे ऋदुपधादिति क्यप् । पदं दृश्यमास्मिन्पयः कईमः । पद्याः पांसवः । नातिद्रवो नातिशुष्कः कर्दमः पद्य उच्यते । नात्यल्पा नातिबहुलाः पांसवोऽपि तथेरिताः ।
Page #227
--------------------------------------------------------------------------
________________
. २२२
शब्दकौस्तुभे ।
मूलमस्याबर्हि ॥ ८७॥ प्रथमान्तादावीत्युपाधिकान्मूलशब्दाद्यत्स्यात् । बृह उद्यमने । दन्त्योष्ठयादिरयं न तु पवर्गादिः । उद्व्हरक्षः सह मूलमिन्द्रम् । जामुष्वीण्यहाणत् इत्यादिदर्शनात् । आबर्हणमावहः । उत्पा. टनम् । आवोऽस्यास्तीत्यावर्हि मूलमावर्हि येषां ते मुल्या मुद्गाः । मूलोत्पाटनं विना संग्रहीतुपशपाः । मध्यतो लूयमानेषु कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्था प्राप्ताः । मुष्ठ शुष्का इति यावत् ।
संज्ञायां धेनष्या ॥ ८८ ॥ धेनुशब्दस्य पुगागमो यपत्ययश्च स्वार्थे निपात्यते सं. ज्ञायाम् धेनुष्याशब्दोऽन्तोदात्तः । यति तु तित्स्वरः स्यात् । ऋणप्रदानाय धेनुर्दोहनार्थमुत्तमाय दीयते तस्याः संज्ञेयम् । पीतदुग्धेति सैवोच्यते । धेनुष्या बन्धके स्थितेत्यमरः ।
गृहपतिना संयुक्त ज्यः ॥ ८९ ॥ गृहपतिर्यजमानः तेन संयुक्तो गार्हपत्योऽग्निः । संज्ञायामि. त्यनुवृत्तेराहवनीयादावतिप्रसङ्गो न । यद्वा गृहपतिर्नामानिविशेपः । तेन संयोगो गार्हपत्यस्यैव । अग्निहोत्रे हि गार्हपतये हूगते । पनीसंयाजेषु च स तत्रज्यते । अत्रापि गृहपतिरमिरेव गृह्यते न तु यजमान इत्यत्र संज्ञाधिकार एव शरणम् ।
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्रा
प्यवध्यानाम्यसमसमितसंमितेषु ॥ ९. नावादिभ्योऽष्टभ्यो यथासंख्यं तार्यादिनष्टसर्गेषु यत्स्या. त् । तार्यादियोगे हि यथासम्भव करणे करितो त.
Page #228
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आडिकम् । २२३ ल्यायोगे च तृतीया भवतीति सैवेह समर्थविभक्तिराल्लभ्यते । अत्र प्रथममूलान्तानां द्वन्द्वं कृत्वा द्वितीयमूलादिद्वन्द्वेन सह महाद्वन्द्वः । मूलान्तानान्दित्राणां वा मूलादीनामेव वा कृत्वेति दिक् । तेन सारूप्याभावादेकशेषो न । नावा तार्य ना. व्यम् । शक्यार्थे ऋहलोर्ण्यत् । करणे तृतीया । वयसा तुल्यो वयस्यः । संज्ञाधिकारानेह । वयसा तुल्यः शत्रुः ! धर्मेण प्राप्यं धर्म्य फलम् । ननु धर्मादनपेत इति वक्ष्यमाणन सिद्धम् । मैवम् । यद्धि धर्ममनुवर्तते तत्तस्मादनपेतम् । फलं तु धर्मवि. रोधि । धर्मस्य फलनाश्यत्वात् । विषेण वध्यो विष्यः । विषण वधमहतीत्यर्थः । दण्डादिभ्य इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । तत्र हि शीर्षच्छेदाद्यच्चेति पूर्वमूत्राद्यदनुवर्तत इति पश्चमे वक्ष्यते । मूलेनायाम्यं मूल्यं लाभाख्यद्रव्यम् । तथाहि मूलं नाम पटादीनामुत्पत्त्यर्थं वणिभिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाख्यं द्रव्यं शेषीक्रियते आत्मन उपकारक क्रियते । आपूर्वकश्च नमिरभिभवे वर्तते तस्मात्पोरदुपधादिति यति प्राप्ते अत एव निपातनाण्ण्यत् । आ. याम्यमभीभवनीयं आत्मानं प्रति शेषीकर्तव्यम् । स च ला. भाख्यो भाग एवं लोके तु यावता द्रव्येण पटादिकं क्रियते तत्रैव समुदाये मूलशब्दः प्रसिद्धः न तु मूलातिरिक्तभागमात्रे । तत्र मूल्यशब्दस्य तद्धटिते सङ्के लक्षणैव । एतेन यत्र दायप्रतिग्रहादिलब्धे क्षेत्रे विक्रीयमाणे मूल्यं नास्ति तत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगो व्याख्यातः । लक्षितलक्षणाभ्युपगमात् । मूलेन समो मुल्यः पटः । उपादानेन समानफल इत्यर्थः । सीतया समितं सीत्यं क्षेत्रम् । सीता हलायम् । स. म्पूर्वादिणः क्तः । समितं सजते निम्नोन्नतादिरहितं कृतमि
Page #229
--------------------------------------------------------------------------
________________
२२४
सन्दकौस्तुभे।
स्यर्थः । समीकृतमिति यावत् । रथसीताहलेभ्यो यद्विधाविति तदन्तविधिः । परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् द्वित्यिम् । तुलया समितं तुल्यम् । संमितं सदृशम् । यथा तुला परिमेयं परिच्छिनत्ति एवं तुल्य. मपि प्रतियोगिनं सादृश्येन परिच्छिननीत्यर्थः । रुढिश्वेयम् । संज्ञायामित्यधिकारात् ।
धर्मपथ्यर्थन्यायादनपेते ॥ ९१ ॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संसाधिकारादभिधेयनियमः । तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यं न तु मार्गादनपेतश्चोरोऽपि ।
छन्दसो. निर्मिते ॥ ९२॥ तृतीयान्ताच्छन्दसो यत्स्यानिर्मिते । छदि संचरण इति चुरादेर्धातूनामनेकार्थतया इच्छापर्यायोऽयं छन्दःशब्दोऽसुनन्तः घअन्तस्तु प्रसिद्ध एव । स्वछन्दोउ उइछकछेत्यादौ । वेदवाची त्रिष्टुबादिवाची च सान्त इह न गृह्यते संज्ञाधि. कारात् । तत्र निर्माणे इछायाः करणत्वात्सामर्थ्यात्तृतीयान्तादिति लभ्यते । छन्दसा निर्मितं छन्दस्यम् । इछया कृतमित्यर्थः ।
उरसोऽण च ॥ ९३ ॥ चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः । सं. ज्ञाधिकारानेह । उरसा निर्मितं सुखम् ।
हृदयस्य प्रियः ॥ ९४ ॥ हृदयशब्दाषष्ठचन्ताधत्स्यात्मीतिकरेऽर्थे । हृयो देशः। हृदयस्य हल्लेखयदण्लासेविति हृदादेशः ।
Page #230
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् । २२५
बन्धने चर्षों ॥१५॥ हृदयशब्दात्षष्ठयन्ताबन्धने यत् स्यादृषावभिधेये । ऋषिरिह वेदः तदुक्तमृषिणेत्यादौ तथा दर्शनात् । हृदयस्य बन्धनो हृयो वशीकरणमन्त्रः । तेन हि परहृदयं वध्यते । कृद्योगल. क्षणा कर्मणि षष्ठी हृदयस्येति । अलौकिके तद्धितप्रकृतिभागे तु वचनसामर्थ्यादेव । संज्ञाधिकाराद्वसिष्ठादाषौ नायं यत् ।
मतजनहलात्करणजल्पकर्षेषु ॥ ९६ ॥ मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । कर्मणि षष्ठी। ततो यत् । जल्पशब्दो भावसाधनः कर्तरि षष्ठी। जनस्य जल्पो जन्यः । हलस्य कर्षों हल्यः । कर्षशब्दो नेह परिमाणार्थः किन्तु क्रियाशब्दः संज्ञाधिकारादलसम्बन्धा. च । हलस्येति कर्मणि षष्ठी करणस्य कर्तृत्वविवक्षायां कर्त. रिवा । रथसीताहलेभ्य इति तदन्तविधिः। द्विहल्यः। त्रिहल्यः ।
तत्र साधुः ॥ ९७ ॥ सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । साधुरिह प्रवीणो योग्यो वा गृह्यते । तदुपकारकोऽपि । संज्ञाधिकारात् ।
प्रतिजनादिभ्यः खञ् ॥ ९८ ॥ जनो जन इति प्रतिजनम् । यथार्थे यदव्ययमिति वी. प्सायामव्ययीभावः । तत्र साधुः प्रातिजनीनः । प्रतिजन । इदंयुग । संयुग । पापकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पञ्चजन । परस्यामुष्येति षष्टया निपात. नादलुङ ।
शब्द. तृतीय. 15.
Page #231
--------------------------------------------------------------------------
________________
शब्दकौस्तुभे ।
भक्ताराणः ॥ ९९ ॥
भक्ते साधवो भाक्ताः शालयः । परिषदो ण्यः ॥ १०० ॥
परिषदि साधुः पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । तथा च भाष्यं प्रयुक्तम् । पारिषद कृतिरेषा तत्र भवतामिति । सर्ववेदपारिषदं शास्त्रमिति च । पार्षद मिति पाठे पृषोदरादित्वादिकारलोपः ।
कथादिम्यष्ठक् ॥ १०१ ॥
१२६
कथायां साधुः काथिकः ।
गुडादिभ्यष्ठञ् ॥ १०२ ॥
गुडे साधुडिक इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड | कुल्माष । सक्तु । अपूप । मांस । ओदन । इक्षु । बेणु । संघात | प्रवास | निवास ।
पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ १०३ ॥
पथि साधुः पायेयः । आतिथेयः । वसनं वसतिः । वसेश्चेत्यतिप्रत्ययः । तत्र साधुर्वासतेयी रात्रिः । स्वस्य पतिः स्वपतिराढ्यः तस्य योग्यं स्वापतेयं धनम् ।
सभाया यः ॥ १०४ ॥
सभायां साधुः सभ्यः । अन्तोदाचः । यति तु वित्स्वरः स्यात् । क्रतुर्भवत्युत्रभ्य इति वत् । व्यच्कत्वेऽपि हि तत्र यतोनाव इति न भवति । यस्येतिलोपात्प्राक् ध्यचत्वात् । यदुत्पतिवेलायां व्यचत्वस्य वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु नमः क्षष्याय च केत्नाय चेत्यादिवदाद्युदात्तः ।
Page #232
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ भाद्विकम् । २२७
ढश्छन्दसि ॥ १०५॥ सभेयो युवा ।
समानत्तीर्थे वासी ॥ १०६ ॥ साधुरिति निवृत्तम् । वासीति प्रत्ययार्थः । वसतीति बासी । निपातनाणिनिः । ग्रहादेराकतिगणवाद्वा । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । तीर्थे ये इति समानस्य सभावः। तरन्त्यनेनेति तीर्थम् । तरतेस्थक् । तीर्थ शास्त्राध्वरक्षे. त्रोपायोपाध्यायमान्त्रिषु । यौनौ जलावतारे चेति विश्वः । इह त्वध्यापकवाचिन एव ग्रहणं नान्यस्य । संज्ञाधिकारात् ।
समानोदरे शयित ओ चोदात्तः ॥ १०७ ॥
समानोदरे शयितः स्थितः समानोदर्यो भ्राता । शेतिर्हि स्थितौ दृष्टः जलाशय कुशेशयमिति यथा । समानमुदरमिति पूर्वापरप्रथमेत्यादिना कर्मधारयः । ततो यत् । तित्स्वरापवाद औचोदात्तः।
सोदरायः ॥ १०८ ॥ औ चोदात्त इति नानुवर्त्तते । विभाषोदर इति सभावः । तत्र तीर्थे य इत्यतोनुवृत्चे ये इत्येतद्विषयसप्तमीपरतया व्याख्यास्यते । तेन सोदर इत्यस्मात् यः । सोदर्यः । समानोदरे श. यित इत्येवार्थः । प्रत्ययस्वरः । कथं तहिं अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चतीति मुरारिः । उच्यते । सह समानम् उदरं यस्येति वोपसर्जनस्येति सभावः । अत एव यत्र भ्राता स. होदर इत्यपि सिद्धम् ।
भवे छन्दसि ॥ १०९॥ सप्तम्यन्ताद्भवार्थे यत्स्याच्छन्दसि । मेध्याय च विद्युत्याय
Page #233
--------------------------------------------------------------------------
________________
२२८
शब्दकौस्तुभे ।
च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधिनां छन्दसि वैकल्पिकत्वात् तद्यथा। मुञ्जधानाम पर्वतः । तत्र भवः । मौञ्जवतः । सोमस्येव मौञ्जवत्तस्य भक्षः । आपादसमाप्तेश्छन्दोऽधिकारः ।
पाथोनदीभ्यां ड्यण ॥ ११० ॥ तमु त्वा पाथ्यो वृषा। चनोदधीत्त नाद्यो गिरो मे। पाथसि भवः पाथ्यः।नयां भवो नाद्यः। पाथोन्तरिक्षमिति वृत्तिकाराः। पाति भूतान्यवकाशदानेनेति व्युत्पत्तेः । यद्यपि पातेले जुट च उदके थुट् अत्रे चेति अत्रोदकयोः पाथःशब्दो व्युत्पाद्यते सथापि बाहुलकादन्तरिक्षेऽपीति भावः ।
वेशन्तहिमवद्दयामण् ॥ १११॥ वेशन्तः पल्बलम् । विशेझच् । तत्र भवा आपो वैशन्त्यः । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ।
स्त्रोतसो विभाषा ड्यड्डयौ ॥ ११२ ॥ पक्षे यत् । ड्यड्डययोस्तु स्वरे भेदः । स्रोतसि भवः स्रो. स्यः । स्रोतस्यः।
सगर्भसयूथसनुत्ताद्यत् ॥ ११३॥ अनुभ्राता सगर्म्यः । अनुसखा सयूथ्यः । योनः सनुत्य उत वा जिगत्नुः । नुतिर्नुतम् । नपुंसके भावे क्तः । सगर्भादयस्त्रयोऽपि कर्मधारयाः । सर्वत्र समानस्य छन्दसीति सभावः ततो भवार्थे यत् । यतोऽपवादः ।
तुग्राढन् ॥ ११४ ॥ भवार्थे । पक्षे यदपि छान्दसत्वात् । आवः शयं सुषमन्तु
Page #234
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् ।
२२९
ग्यास्त्विति बहूचः । तुग्रियास्विति तु शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ।
अग्राद्यत् ॥ ११५ ॥
अग्रे भवमग्न्यम् । भवे छन्दसीत्येव सिद्धे यच्छयन्भिर्वाधा मा भूदिति यद्विधीयते ।
घछौ च ॥ ११६ ॥
चकारो ऽव्यवहितं घनं समुच्चिनोति नतु संनिहितमपि यतम् । पूर्वेणैव तत्सिद्धेः । अग्रियः । अन्तोदात्त आयुदात्तश्च । अग्रीयः । लोके त्वग्रिम इत्येव । कथं तर्हि एतच्छुभं विजानीहि ब्राह्मणाम्यस्य लक्षणमिति । छन्दोवदृषयः कुर्वन्तीति प्राञ्चः । वस्तुतस्तु साध्वर्थे यत् । शाखादित्वादिवार्थे य इति वा । समुद्राभ्राद्धः ॥ ११७ ॥
।
।
समुद्रिया अप्सरसो मनीषिणाम् । नानदतो अम्रियस्येत्र घोषाः । बर्हिषि दत्तम् ॥ ११८ ॥
भव इति निवृत्तम् । अर्चिशुचिहुसृपिछा दिछर्दिभ्य इसि हेर्नलोपश्च । वर्हिः कुशहुताशयोः । बर्हिष्येषु निधिषु प्रियेषु ॥ दूतस्य भागकर्मणी ॥ ११९॥
भागशः । कर्म क्रिया । यदने पासि दूत्यम् । भागे तस्येदमित्यणि प्राप्ते वचनम् । कर्मणि तु दूतवणिग्भ्यामित्योपसंख्यानिके ये प्राप्ते |
1
रक्षोयातूनां हननी ॥ १२० ॥
षष्ठीबहुवचनम् । ताभ्यां रक्षःशब्दयातुशब्दाभ्यां हननकरणभूतेत्यर्थे यत्स्यात् छन्दसि । कुद्योगे कर्मणि षष्ठी । याते अने
Page #235
--------------------------------------------------------------------------
________________
२३०
शब्दकौस्तुभे ।
रक्षस्या तनू । यातव्या । रक्षसां यातूनां च हननीति विग्रहः । बहुवचनान्ताद्विधानं स्तुत्यर्थम् । बहूनां रक्षसां हननेन स्तुतिप्रतीतेः । नैऋतो यातुरक्षसीत्यमरः । सूत्रे विरूपाणामपीत्येकशेषस्तु न भवति । शब्दस्वरूपपरतया भिन्नार्थत्वात् । शैषिकपोरण्छयोरपवादो ऽयं योगः ।
रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२१ ॥ आभ्यां यत्स्यात्प्रशंसने । शंसु स्तुतावित्यस्मात् कृत्यल्युटो बहुलमिति भावे क्यप् । तद्योगे कर्मणि षष्ठी । रयिरस्त्यस्या रेवती । रयेर्मतौ बहुलमिति सम्प्रसारणम् । जगच्छन्दात् छवद्भावान्ङीष् । हविषे हिता हविष्या । उगवादिभ्यो यत् । तासां प्रसंशनं रेवत्यम् जगत्यम् । हविष्यम् । यस्येतिलोपे कृते हलो यमां यमि लोपः ।
असुरस्य स्वम् ॥ १२२ ॥
अणोऽपवादः । असूर्य देवेभिर्धायि विश्वम् ।
मायायामण् ॥ १२३ ॥
असुरशब्दात्षष्ठ्यन्तान्मायायामण् स्यात् । पूर्वसूत्रापवादः । आसुरी माया स्वधया कृतासि । तहानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतेोः ॥ १२४॥
मत्वन्तप्रकृतिकात्मथमान्तादुपधानकरणीभूतमन्त्रार्थकादासामिष्टकानामितीष्टकारूपे सम्बन्धिनि यत्स्यात् मतोथ लुक् । वर्चः शब्दोऽस्मिन्निति वर्चस्वान् । चयनेऽङ्गभूतो मन्त्रः । स व देवस्य त्वा सवितुः प्रसर्व इत्यादिकः । स उपधीयन्तेनेनेत्युपधानो यासामिष्टकानां वा वर्चस्थाः । वर्चस्या उपदधातीति हि श्रूयसे । यद्यपि तस्मिन्मन्त्रे पदान्तराणि सन्ति त
I
Page #236
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आह्निकम् । २३१ थापि तत्प्रकृतिकमतुपि प्रत्ययो नापादनीयः । छन्दोधिकारात् । तत्र हि सिद्धस्यानुशासनं न तु काव्यादिवत् अपूर्वोस्मेक्षासम्भवः एवं चेह इतिशब्दादिकं स्पष्टार्थमित्यवधेयम् । एवं तेजस्याः । ऋतव्याः । अथ कथं सृष्टीरुपदधाति प्रा. णभृत उपदधातीति । सृष्ट्याः प्राणभृत्या इति हि पामोति । सत्यम् । सृष्टयादिशब्दानां तन्मन्त्रोपधेयास्विष्टकासुपचारात्प्रयोगः न तु तद्धितान्तमेतदित्यवधेहि । पूर्वोत्तरमीमांसयोस्तु तद्धितपरतया प्रतीयमाना ग्रन्था भइत्वानेयाः ।
अश्विमानण् ॥ १२५ ॥ अश्विमच्छब्दात्मागुक्तेर्थेऽण् स्याधतोपवादः मतोलक् च । इनण्यनपत्य इति प्रकृतिभावः । अश्विनीरूपदधाति । अश्विन्शब्दवान्मन्त्र उपधानो यासामिष्टकानान्ता इत्यर्थः ।
वयस्यासु मूर्नो मतुप् ॥ १२६ ॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते । तत्र मतोरिति पदमावर्य पञ्चम्यन्ततया व्याख्यायते । मूर्धशब्दप्रकृतिको यो म. तुप तदन्तप्रकृतिकात्मथमान्तान्मतुप् स्यात् । यतोऽपवादः । प्रकृत्यन्तर्गतस्य मतोलक् च । वयःशब्दवन्मन्त्रोपधेयास्थिकासु वाच्यासु । मुर्धन्वतीरूपदधाति । अनोनुडिति नुडागमः । वयःशब्दवन्मन्त्रोपधेयत्वाद्वयस्याशब्देन छन्दसीष्टका व्यवहृताः । ताश्च बहयः तास्वन्तश्चतम्रो मूर्धन्वत्वः विष्टम्भो वय इत्यादिभिर्वयस्वार्द्रमन्त्रैरुपधेयाः । तत्र यद्यपि मूर्धावयः प्रजापतिछन्द इत्यस्मिन्नन्तिम एव मन्त्रे मूर्धन शब्दोऽस्ति तथा. पि तत्साहचर्याद्विष्टम्भोवय इत्यादयश्चत्वारोऽपि मन्त्रा मुर्दशब्दवन्त उच्यन्ते छत्रिणो गच्छन्तीतिवत् अत एव तदुपधेयेष्टकासु
Page #237
--------------------------------------------------------------------------
________________
२३२
शब्द कौस्तुभे ।
।
मूर्धन्वतीरिति बहुवचनम् । वयस्यास्त्रिति किम् । अग्रे यशस्विन्यशसे समर्थय । अयं मूर्वा परमेष्टितिकेवलमूर्धशब्दवता चयशब्दरहितेन मन्त्रेणोपधेयासु मा भूत् । गायत्रीः पुरस्तादुपदधाति तेजो वै गायत्री । तेज एव मुखतो धत्ते । मूर्धन्वतीभवन्तीति श्रूयते । तत्र उपधानमन्त्रेष्वग्निर्मूर्धाभुवइत्यादिषु वयःशब्दाभावात्कथमस्य सूत्रस्य प्रवृत्तिरिति चेत्, अत्राह । प्रथममतुबन्त एवासाविष्टकास्वौपचारिकः सृष्टिप्राणभृदादिवत् । एतावान्परं भेदः । स्टष्यादावेकस्यापि मतुपो विरहालक्षितलक्षणा हह तु लक्षणामात्रमिति । अत्रेदमवधेयम् । सूत्रे वयस्यास्वितिप्रयोगोऽपि लाक्षणिकः । वयस्याशब्देन छन्दसि व्यव हृतावित्यर्थात् । यद्वा । छन्दोवत्सूत्राणीति भाष्यकारेष्टेरय - मेव ज्ञापकः । अथवा सामान्यापेक्षं ज्ञापकम् । छान्दसा अपि कचिद्भाषायां प्रयुञ्जत इति । तेन तुरासाहं पुरोधाय । अनु पस्थित परिपंथिभिः पार्थिवैरित्यादि सिद्धम् ।
मत्वर्थे मासतन्वोः ॥ १२७ ॥
·
·
यत्स्यात् छन्दसि । नभोऽभ्रम् तदस्यस्मिन्निति नभस्यो मासः । तपस्यः । मधव्यः । ओजस्या तनुः । मासतन्वोः किम् । स्वध्वरासो मधुमन्तो अग्नयः । अत्र वार्त्तिकद्वयम् । मासतन्वोरनन्तरार्थे वा । लुगकारेकाररेफाश्चेति । वाशब्दश्चार्थे । मध्वस्मिन्ननन्तरमस्ति मधव्यो मासः । लुक् । मधुः । तपः । नभः । तपोनभसोः क्लीवत्वं छान्दसम् । अकार । इषः । ऊर्जः । इष्यमाणत्वादिदू अन्नम् । ऊर्ग बलम् । तद्वानित्यर्थः । इकारः । शोचनं शुक् । सास्मिन्नस्ति शुचिः । रेफः । शुक्रः । अयस्मयादित्वाज्जश्त्वं न ।
Page #238
--------------------------------------------------------------------------
________________
४ अध्याये ४ पादे २ आदिकम् । २३३
मधोज च ॥ १२६ ॥ चायत् । पक्षे औपसंख्यानिको लुक् । माधवः । मधव्यः मधुः । तन्वो मधव्याः । माधवा तनूः । इह छन्दा धिकारे लुगादीनां विधानाद्भाषायां कथमिति चेत् । अव्युत्पन्ना एव तत्र नभःप्रभृतयः । यद्वा । इषऊर्ज इत्यर्शआद्यच् । शोचतरन्त वितरायर्थादौणादिक इप्रत्यये शुचिः शोचयति प्राणिन इति कृत्वा । नभःप्रभृतीनां अभेदोपचारा. न्मासे वृत्तिः । नभस्यप्रभृतयस्तु तत्र साधुरिति यदन्ताः । मधुयोगान्मासो मधुः । तस्यैव प्रज्ञादिपाठादणि माधवः ।
ओजसोऽहनि यत्खौ ॥ १२७ ॥ ओजःशब्दान्मत्वर्थे यत्खौ स्तः अहनि वाच्ये । ओजस्य. महः । खश्चेति तु न कृतम् । चकारेण संनिहितस्य तस्यानुकर्षजाप्रसङ्गात् ।
वेशोयशआदेर्भगाद्यल्खौ ॥ १२८ ॥ वेशोयशःशब्दौ आदी यस्य तादृशाद्भगशब्दान्ताधल् ख एतौ स्तः । वेशो बलं तदेव भग इति कर्मधारयः । भगः श्री. काममाहात्म्यवीर्ययत्नार्ककीर्तिष्वित्यमरः । वेशो भगोऽस्यास्तीति वेशोभग्यः । वेशोभगीनः । यशोभाग्यः । यशोभगीनः । यथा. संख्यं तु स्वरितत्वाभावान्नेति यथासंख्यसूत्रे भाष्ये स्थितम् । वृत्तिकृत्तु यल् खचेति सूत्रं व्यभजत् ।
पूर्वैः कृतमिनयौ च ॥ १२९ ॥ मत्वर्थ इति निवृत्तम् । पूर्वशब्दात्तृतीयाबहुवचनान्तात्कृ.
Page #239
--------------------------------------------------------------------------
________________
२३४
शब्द कौस्तुभे ।
तमित्यर्थे इनयौ स्तः चात्ख इति वृत्तिकाराः । यलू तु नानुवर्तत इत्येतदपि हि योगविभागफलं तैरुक्तम् । यलूखावित्येक योग इति भाष्यपक्षे तु यलप्यनुवर्तते । यदि वेदे लित्स्वरो नास्तीत्यत्र प्रमाणमस्ति तकदेशानुवृत्तिरस्तु किंच्वेतत्तत्रं सर्वशाखा - हर्षा महर्षीणामेव दृग्गोचरो नतु योगजधर्मरहितानामपि । गाम्भीरेभिः पथिभिः पूर्विभिः । यतेपन्था सचितः पूयसः । पूर्वीणाः । अद्भिः संस्कृतमित्यर्थः ।
सहस्रेण संमितौ घः ॥ १३०॥
'समित इति पाठान्तरम् । उभयथापि तुल्य इत्येवार्थः । सहस्रियासो अपां नोर्मयः । सहस्रेण तुल्या इत्यर्थः ।
मतौ च ॥ १३१ ॥
सहस्रशब्दान्मत्वर्थे घः स्यात् । तपः सहस्राभ्यां विनिनी इत्यस्यापवादः । सहस्रमस्यास्ति सहस्त्रियः ।
सोममईति यः ॥ १३२ ॥
सोम्यो ब्राह्मणः । यज्ञाई इत्यर्थः । कथं तर्हि प्रीताऽस्मि ते सोम्य चिराय जीवेति रघुः । छन्दोधिकारात् । उच्यते । सोमः कर्पूरचन्द्रयोः । सोम इव सोम्यः । शाखादित्वाद्यः । सोमे साधुः तत्र साधुरिति यद्वा । सौम्येत्यादिवृद्धिठे चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् ।
मये च ॥ १३३ ॥
सोमशब्दाद्यः स्वन्मयडर्थे । आगतविकारावयवप्रकृता मयडर्थाः । तथा च सूत्राणि । हेतुमनुष्येभ्योऽन्यतरस्यां
Page #240
--------------------------------------------------------------------------
________________
४ अध्याये ४ पाढे २ आह्निकम् । २३५ रूप्यः । मयट् च मयड् बैतयोर्भाषायामभक्ष्याछादनयोः । तत्प्रकृतवचने मयहिति । तेन यथायोगं पञ्चमीषष्ठीपथमाः समर्थविभक्तयः । सोम्यं मधु । सोममयमित्यर्थः ।
मधोः ॥ १३४ ॥ य इति निवृत्तम् । मधुशब्दान्मयडर्थे यत् स्यात् । मध. ध्यान् । मधुपयानित्यर्थः ।
__ वसोः समूहे च ॥ १३५ ॥ चान्मयडर्थे । यथायोग समर्थविभक्तिः । वसोरितियोगविभागात्स्वार्थेऽपि यत् । अग्निरीशे वसव्यस्य । हस्तौ पृणस्त्र बहुभिर्वसव्यैः । पृणातिः पूरणकर्मा । अक्षरसमूहे छन्दस उपसंख्यानम् । ओश्रावयेति चतुरक्षरम् । अस्तु श्री. पडिति चतुरक्षरम् । येयजामाह इति पञ्चाक्षरम् । यजेति बक्षरम् । यक्षरं वषट्कारः । एष वै सप्तदशाक्षरश्छन्दस्यः प्र. जापतिर्यज्ञमनुविहितः । सप्तदशाक्षरात्मकश्छन्दस्योऽक्षरसमूहः प्रजापतिः । प्रजापतिना दृष्ट इत्यर्थः । छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः ।
नक्षत्रात घः ॥ १३६ ॥ स्वार्थे । नक्षत्रियेभ्यः स्वाहा ।
सर्वदेवात्तातिल् ॥ १३७ ॥ आभ्यां तातिल स्यात्स्वार्थे छन्दसि । सविता नः सवतु सर्वतातिम् । प्रदक्षिणिदेवतातिमुराणः।
Page #241
--------------------------------------------------------------------------
________________
२३६
शब्दकौस्तुभे ।
शिवशमरिष्ठस्य करे ॥ १३८ ॥ करोतीति करः पचायच् । कृद्योगलक्षणा कर्मणि षष्ठीह समर्थविभक्तिः । शिवं करोति शिवतातिः । याभिः शन्ताती भवथो ददाशुष अथो अरिष्टतातये । भाषायां शिवतातिप्रभृतीनां प्रयोगश्चिन्त्यः ।
भावे च ॥ १३९ ॥ शिवादिभ्यो भावे तातिल स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः । यतोऽधिकारः समाप्त श्छन्दसीत्यस्य च ॥
इति पदवाक्यप्रमाणपारावारपारीणस्य श्रीलक्ष्मीधरसूरेः सूनुना भट्टोजिदीक्षितेन कृते शब्दकौस्तुभे चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥
पादः समाप्तोऽध्यायश्च ॥
Page #242
--------------------------------------------------------------------------
_