________________
४ अध्याये १ पादे २ आह्निकम् ।
३९
वात्रोदाहरणम् । उरुभिन्नी । नेह । बहुकृता । अकृता । सुकृता । मासजाता । सुखजाता । जातान्तान्न । दन्तजाता । अन्तग्रहणात्सिद्धम् । वर्णादनुदात्तादितिवद्बहुव्रीहेरनुदात्तादित्येव सिद्धे अन्तग्रहणं नित्यप्रतिपत्यर्थम् । वा जाते इति तु वैकल्पिक उदात्तो न तु नित्यः । पाणिगृहीती भार्यायाम् । पाणिगृहीताSन्या । बहुलं ताण । संज्ञाछन्दसोरित्यर्थः । प्रबद्धविलूनी । प्रबद्धबिलूना । बहुव्रीहिरयम् । कर्मधारय इत्यन्ये ।
अस्वाङ्गपूर्वपदाद्वा ॥ ५३ ॥
पूर्वेण नित्ये प्राप्ते विकल्प आरभ्यते । सुरापीती । सुरापीता । अन्तोदात्तादित्येव । नेह वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ।
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ॥ ५४ ॥
असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्तात्प्रातिपदिकाददन्ताद्वा ङीष् स्यात् । केशानतिक्रान्ता अतिकेशी । अतिकेशा | चन्द्रमुखी । चन्द्रमुखा । संयोगोपधातु सुगुल्फा । उपसर्जनात्किम् । शिखा । स्वाङ्गन्तु त्रेधा परिभाषितम् । अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । सुस्वेदा । द्रवत्वात् । सुझाना | अमूर्तत्वात् । सुमुखा शाला । अप्राणिस्थत्वात् । कथं तर्हि फलमुखी कारणमुखी वानवस्थेति । प्रमाद एवायम् । टावन्तन्तु पाठ्यम् । सुशोफा । विकारजत्वात् । अतत्स्थं तत्र दृष्टं चेति लक्षणान्तरम् । सुकेशी सुकेशी वा रथ्या । तेन चेत्तत्तथायुतम् । सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत् प्राणिसदृशे स्थितत्वात् ॥