SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ शब्दकौस्तुभे। व कुर्यादिति चेन्न । अल्लोपोन इत्यस्य बाधने चरितार्थत्वात् । पत्युन इतिवदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेवाल्लोपो न भविष्यतीति चेत्र । शर्वशब्दे ककारस्य चारितार्थ्यात् नहि तत्र लोपोऽस्ति । न संयोगादिति निषेधात् । तस्मात्ककाराकारयोः सामर्थ्य विरहे पररूपबाधनार्थ दीर्घोच्चारणमावश्यकमिति स्थितम् । कथं तर्हि ब्रह्माणाति ब्रह्माणमानयति जीवयतीति कर्मण्यण बोध्यः ॥ क्रीतात् करणपूर्वात् ॥ ५० ॥ क्रीतान्तात्करणपूर्वकात् प्रातिपदिकाददन्तान्ङीष्स्यात् । वस्त्रक्रीती । वस्त्र भिम् क्रीत इत्यस्यामवस्थायां प्राक् सुबुत्पत्तेः समासे अदन्तत्वान्ङीष् । कर्तृकरणे कृतेति सूत्रे बहुलग्रहणात् सुबुत्पत्तौ सत्यां समास इति पक्षे तु सुपः प्रागेवान्तरङ्गत्वादाए । तेन सा हि तस्य धनक्रीतेति सिद्धम् । क्तादल्याख्यायाम ॥५१॥ करणादेः क्तान्ताददन्तात्मातिपदिकान् डीप्स्यात्समुदा. येनाल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । सूपलिप्ती पात्री। बहुव्रीहेश्वान्तोदात्तात् ॥ ५२ ॥ बहुव्रीहेः क्तान्ताददन्तोदात्तात्त्रियां ङीष् स्यात् । जातिपूर्वादिति वक्तव्यम् । तेन बहुनसुकालमुखादिपूर्वान्न भवति । वहोर्नवदुत्तरपदभूनि । नमुभ्याम् । जातिकालसुखादिभ्योऽनाच्छादनाकोकृतमितमतिपमाः। इति अन्तोदात्तताविधायकानि । तथाचान्तोदाचादबहुनसुकालमुखादिपूर्वादितिन्यासापेक्षया अन्तोदाचाजातिपूर्वादिति न्यासे लाघवं स्पष्टमेव । उत्तरंस्त्रेणास्वापूर्वपदादिकल्पो वक्ष्यत इति स्वाइपूर्वपद ए
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy