________________
४ अध्याये २ पादे १ आह्निकम् । १०७ प्रथमान्तस्यार्थः पौर्णमासी चेत्सा । इतिशब्दाल्लौकिकीं विवक्षामनुसारयति । तेन संज्ञायामेवायं प्रत्ययः। सूत्रे संज्ञायामिति वृत्तिकृता प्रक्षिप्तम् । तत्तु भाष्यादिविरोधादितिशब्देन गतार्थत्वाचात्रोपेक्ष्यम् । पौषी पौर्णमासी अस्मिन् पौषः । मासार्द्धमाससंवत्सराणामियं संज्ञा । नेह । पौर्णमासी अस्मिन्दशरात्रे । भृतकमासेव । भृता एव भृतकाः कर्मकराः तेषां हे कर्मकरणादारभ्य त्रिंशदहोरात्रात्मकः । सावनो मासः । स पौष्या पौर्णमास्या तद्वानपि न पोषाख्यः । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहिः । प्रज्ञादेराकृतिगणत्वादत एव वा निपातनादण् यद्वा माश्चन्द्रमाः भीमो भीमसेन इतिवत् । पूर्णो. माः पूर्णमाः । तस्येयं पौर्णिमासी । वस्तुतस्तु महाराजपोष्ठपदानित्यत्र तदस्मिन् वर्तत इत्यर्थे पूर्णमासादण उपसंख्यानासिद्धम् ।
आग्रहायण्यश्वत्थाट्ठक् ॥ २२॥ पूर्वेण प्राप्तस्याणोऽपवादः । अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणवादण् । पूर्वपदात्संज्ञायामग इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन्नाग्रहायणिको मासः संवत्सरो वा । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिकः । विभाषा फाल्गनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २३ ॥
एभ्यः पौर्णमासीशब्देभ्यः प्रागविषये ठग्वा स्यात्पक्षेऽण् । फाल्गुनो मासः । फाल्गुनिकः । श्रावणः । श्रावणिकः । कार्तिकः । कार्तिकिकः । चैत्रः । चैत्रिकः ।