________________
शब्दकौस्तुभे ।
इनित्रकट्यचश्च ॥ ५० ॥
खलादिभ्यः क्रमादमी स्युः । खलिनी । गोत्रा । रथकव्या । स्वलादिभ्य इनिर्वक्तव्यः । डाकिनी । कुठुम्बिनीत्यादि । आकृ तिगणोऽयम् । इति सामूहिकाः । विषयो देशे ॥ ५१ ॥
११८
षष्ठ्यन्ताद्यथाविहितं प्रत्ययः स्यादत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिवीनां विषयो देशः शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ।
राजन्यादिभ्यो वुञ् ॥ ५२ ॥
राजन्यादिभ्यो वुञ् स्यात् । राजन्यानां विषयो देश : राजन्यकः । आकृतिगणोऽयम् । भौरिक्याद्यैषुकार्यादिभ्यो विधभक्तलौ ॥ ५३ ॥
आभ्यां यथासंख्यमिमौ स्तः । भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । अत्र वार्त्तिकानि । विषयाभिधाने जनपदे लुप् बहुवचनविषयात् । अङ्गानां विषयः अङ्गाः । वङ्गाः । सुमाः । पुण्ड्राः । गान्धार्यादिभ्यो वा । गान्धारः । गान्धारयः । वासातः । वसातयः । शैवः । शिवयः । राजन्यादिभ्यो वा वुञ् राजन्यकः राजन्यः । दैवयातवाः । दैवयातवकः । वैल्ववनादिभ्यो नित्यम् । वैल्ववनकः । आम्बरीषपुत्रकः । आत्मकामेयकः । न वाऽभिधेयस्य निवासविषयत्वान्निवासावेवक्षाय लुब्विषयविवक्षायां प्रत्ययः । अस्यार्थः । यो येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप् स्मर्यते न