________________
शब्दकौस्तुभे ।
राकाङ्गत्वात् । एतदेव हि मध्येऽपवादयीयेऽपि तत्वम् । दृष्टं साम ॥ ७ ॥
१०२
तेनेति तृतीयान्तादृष्टमित्यर्थे ऽण स्याद्यदृष्टं साम चेत्तत् । वासिष्ठ साम । यस्य साम्रो विशेषे विनियोगो येन ज्ञातस्तत्तन दृष्टमित्याहुः ।
कलर्क्टक् ॥ ८ ॥
अणपवादः । कलिना दृष्टं कालेयं साम । यत्तु व्याकरणाधिकरणे भट्टरुक्तं यदकालयत्तत्कालेयस्य कालेयत्वमिति श्रुतिविरुद्धेयं पाणिनिस्मृतिरिति तत्प्रौढिवादमात्रम् । एकस्मिन्नेव सामान कलिदृष्टत्वस्य कालायितत्वस्य चाविरोधात् । तन्त्रेणावयवार्थद्वयसम्भवाच्च । अत एवाह भर्तृहरिः ।
वैरवासिष्ठगिरिशास्तथैकागारिकादयः । कैश्वित्कथं चिदाख्याता निमित्तावधिसङ्करैरिति ॥
अस्यार्थः वीरेषु भवं वीरैर्लब्धं वीराणामिदमिति निमित्तसङ्करेण वैरशब्दो व्याख्यातः । अतिशयेन वासयन्तीति वा वसिष्टेन प्रोक्तमधीयत इति वा निमित्तस्य सङ्करः प्रकृतिप्रत्ययावधिसङ्करश्च । गिरौ शेते गिरिं श्यति उपभोगेन तनूकरोति गिरिरस्यास्तीति वा एकागारिकशब्दोऽप्येकेनागारेण जयतीति एकमगारं प्रयोजनमस्येति वा निमित्तसङ्करेण व्याख्यातः । एतेन वामदेवादिति उत्तरसूत्रमपि व्याख्यातम् । वामं वा इदं देवेभ्यः समजनि तद्वामदेव्यस्य वामदेव्यत्वमिति श्रौतव्युत्पत्यन्तरस्य वामदेवदृष्टत्वेन सह विरोधात् । एतेन एतत्सूत्रद्वयं श्रुतिविरोधादप्रमाणमिति पार्थसारथेरुक्तिः परा