________________
१५६
शब्दकौस्तुभे ।
श्रद्धावान् पुरुषस्तु नेह गृह्यते । व्याख्यानात् रुढियोगमपहरतीति न्यायाच । शारदिकं श्राद्धं शारदमन्यत् ।
विभाषा रोगातपयोः ॥ १५७ ॥ शारादिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ।
निशाप्रदोषाभ्यां च ॥ १५८ ॥ चात् ठञ् । कालाहमिति नित्ये प्राप्ते । नैशिकम् । नैशम् । पादोषिकम् । मादोषम् ।
श्वसस्तुट् च ॥ १५९ ॥ श्वःशब्दाठञ् वा स्यात् तस्य तुडागमश्च । ऐषमोह्यःश्वस इत्यादिना त्यबपि विकल्पितः । ट्युट्युलौ । शौवस्तिकः । द्वारादित्वान्न वृद्धिः ऐजागमश्च । श्वस्त्यः । श्वस्तनम् । स्यादेतत् । तुटः प्रत्ययभक्ततया उस्यादित्वाभावादादेशो दुर्लभः कर्मठ इत्यठचो यथा । न च परत्वादिकः आङ्गतया तस्य बहिरङ्गत्वात् । तुटः प्रत्ययसनियोगशिष्टतयान्तरङ्गत्वात् । न च सूत्रभङ्गेन तुक् सुकरः इसुसुक्तान्तादिति कादेशप्रसङ्गात् । मैवम् वुञ्छणादिसूत्रे बढचो मनुष्यनाम्नष्ठज्वेत्यत्र च ठचश्चित्वेन इकादेशोऽन्तरङ्गेभ्योऽपि बलवानिति ज्ञापितत्वात् । अन्यथा प्रत्ययाद्युदात्ते कृते इकादेशः स्यादिति किं ठचश्चित्वेन । कृते विकादेशे प्रत्ययस्वरं बाधितुं चित्वं युज्यते ।
सन्धिवेलातुनक्षत्रेभ्योऽण् ॥ १६ ॥ सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण