________________
४ अध्याये ४ पादे २ आदिकम् । २३३
मधोज च ॥ १२६ ॥ चायत् । पक्षे औपसंख्यानिको लुक् । माधवः । मधव्यः मधुः । तन्वो मधव्याः । माधवा तनूः । इह छन्दा धिकारे लुगादीनां विधानाद्भाषायां कथमिति चेत् । अव्युत्पन्ना एव तत्र नभःप्रभृतयः । यद्वा । इषऊर्ज इत्यर्शआद्यच् । शोचतरन्त वितरायर्थादौणादिक इप्रत्यये शुचिः शोचयति प्राणिन इति कृत्वा । नभःप्रभृतीनां अभेदोपचारा. न्मासे वृत्तिः । नभस्यप्रभृतयस्तु तत्र साधुरिति यदन्ताः । मधुयोगान्मासो मधुः । तस्यैव प्रज्ञादिपाठादणि माधवः ।
ओजसोऽहनि यत्खौ ॥ १२७ ॥ ओजःशब्दान्मत्वर्थे यत्खौ स्तः अहनि वाच्ये । ओजस्य. महः । खश्चेति तु न कृतम् । चकारेण संनिहितस्य तस्यानुकर्षजाप्रसङ्गात् ।
वेशोयशआदेर्भगाद्यल्खौ ॥ १२८ ॥ वेशोयशःशब्दौ आदी यस्य तादृशाद्भगशब्दान्ताधल् ख एतौ स्तः । वेशो बलं तदेव भग इति कर्मधारयः । भगः श्री. काममाहात्म्यवीर्ययत्नार्ककीर्तिष्वित्यमरः । वेशो भगोऽस्यास्तीति वेशोभग्यः । वेशोभगीनः । यशोभाग्यः । यशोभगीनः । यथा. संख्यं तु स्वरितत्वाभावान्नेति यथासंख्यसूत्रे भाष्ये स्थितम् । वृत्तिकृत्तु यल् खचेति सूत्रं व्यभजत् ।
पूर्वैः कृतमिनयौ च ॥ १२९ ॥ मत्वर्थ इति निवृत्तम् । पूर्वशब्दात्तृतीयाबहुवचनान्तात्कृ.