________________
शब्द कौस्तुभे ।
I
इतश्चानिञः ॥ १२४ ॥ इकारान्ताद्व्यचोऽपत्ये ढक् स्यान्न त्विजन्तात् । दौलेयः । नैधेयः । परत्वादयमृष्यणं बाधते । आत्रेयः । द्व्यचः किम् | मरीचेमारीच इति काशिका | तच्चिन्त्यम् । बाह्वादित्वेनेज्यसङ्गात् । तथा च मिदचोन्त्यात्पर इति सूत्रे भाष्यं मरीचिशब्दो बाह्वादिषु पठ्यते इति तस्मादुदधेरौदध इत्यादि प्रत्युदाहरणान्तरं बोध्यम् । अनिञः किम् । दाक्षायणः ।
७८
शुभ्रादिभ्यश्च ॥ १२५ ॥
I
एभ्यो ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । इहादन्तेष्विञ् प्राप्तः । शलादिषु तन्नामिकान् । विधवाशब्दात् क्षुद्रालक्षणो ढुक् । चतुष्पाद्वाचिषु ढञ् । गोधाशब्दाइढक् । वचनात्तु सोऽपि भवति । कचिदौत्सर्गिकाण प्राप्तः । पाण्डवेयः । उलोपस्तु न भवति । कद्रूपर्युदासेन स्त्रीलिङ्गस्यैव लोपविधौ ग्रहणादिति केचित् । एवन्तु मार्कण्डेयो न स्यात् तस्मात् पाण्डवशब्दात् पाण्डवेय बोध्यः । केचित्तु मृकण्ड शब्दमदन्तं पठन्ति । मृगय्वादयश्चेतिसूत्रे उज्वलदत्तोऽप्येवम् । मृकण्डस्य मुनेस्तीर्थे तयास्यामथ निर्मलमिति काशीखण्डे । अस्मिन् पक्षे पर्युदासेऽपि सिद्धम् । विमातृशब्दादप्यौत्सर्गिकोऽण् प्राप्तः । वैमात्रेयः । एवं लैरवाभ्रेयः । लक्षणश्यामयोर्वासिष्ठे । लाक्षणेयः । वासिष्ठ - श्वेत् । लाक्षणिरन्यः । श्यामेयो वासिष्ठः । श्यामायनोऽन्यः । अश्वादित्वात्फञ् । आकृतिगणोऽयम् ।
विकर्णकुषितकात्काश्यपे ॥ १२६ ॥
वैकर्णेयः । कौषीतकेयः । काश्यपे किम् । वैकाणिः । कौषीतकिः ।