________________
४ अध्याये १ पादे ४ आह्निकम् ।
भ्रुवो वुक् च ॥ १२७ ॥ भ्रौवेयः ।
कल्याणादीनामिनङ् ॥ १२८ ॥ एषामिनङादेशः स्यात् ढक् च । इह स्त्रीप्रत्ययान्तानामादेशार्थ ग्रहणम् । प्रत्ययस्य सिद्धत्वात् । अन्येषां तूभयार्थम् । काल्याणिनेयः । सौभागिनेयः । दौ गिनेयः । हृद्भगासवन्त इन्युभयपदवृद्धिः । कल्याणी | सुभगा । दुर्भगा । बन्धकी । अनुसृष्टि । जरती । बाला । वृद्धा । ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री।
कुलटाया वा ॥ १२९॥ पूर्वेण सिद्धो ढक् इनङ्मात्रं विकल्प्यते । कौलटिनेयः । कौलटेयः । सती भिक्षुक्यत्र कुलटा । या हि व्यभिचारार्थ कुलान्यटति तस्या ग्रहणं नेष्यते । किन्तु तत्र क्षुद्राभ्यो वेति पक्षे दूक । तेन कौलटेर इति द्वितीयं रूपम् । उक्तं चामरसिंहेन अथ बान्धकिनेयः स्यादन्धुलश्चासतीसुतः । कोलटेरः कोलेटेयो भि. क्षुकी तु सती यदि । तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मज इति । केचित्तु क्षुद्राया अपीनङा तृतीयं रूपमाहुः । वृत्तौ तु क्षुद्राभ्यः परत्वादागित्युक्तम् । तच्चिन्त्यम् । तस्य वै. कल्पिकतया पाक्षिकस्य ढकस्त्वयाप्यभ्युपगमाच । तत्र पक्षे इनङो दुर्वारत्वात् ।
चटकाया ऐरक् ॥ १३० ॥ अत्र वार्तिकम् । चटकायाः पुंलिङ्गनिर्देश इति । लिङ्गविशिष्टपरिभाषया स्त्रिया अपि भवति । चटकस्य चटकाया वा