________________
४ अध्याये १ पादे ४ आह्निकम् ।
७५ त्रिवेण्या अपत्यं त्रैवेणः । तन्नामिकाणि सिद्धे आदेशार्थ वचनम् । भूमिप्रभृतिभ्य इतश्वानित्र इति ढक् प्राप्तः । इलाप्रभृतिभ्यो स्त्रीभ्यो ढक् प्राप्त इति दिक् । स्यादेतत् । अण्ग्रहणं माऽस्तु | वचनसामर्थ्यादिनादिभिर्वाधितुमारब्धो ऽणेव प्रसोध्यते । मैवम् । ऋषिषेणशब्दोऽत्र पठ्यते । तस्मादत इब् प्राप्तः । स एव सेनान्तलक्षणेन येन परत्वाद्वाधितुमारब्धोsनेन सूत्रेण प्रतिप्रसूयेत । तस्माद्यथान्यासमेवास्तु |
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११५ ॥
अवृद्धशब्दोपस्थितास्तन्नामिकाच या नदीमानुष्यस्ताभ्यो ऽण् स्यात् । अवृद्धेभ्यो नदीमानुषीनामभ्य इति फलितार्थः । ढोऽपवादः । यमुनाया अपत्यं यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम् । वासवदत्तेयः । नदीत्यादि किम् । वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ।
1
ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११६ ॥
1
एभ्योऽरा स्यात् । ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः । श्वाफल्कः । हृष्णिभ्यः । वासुदेवः । आनिरुद्धः । शौरिः । श्रीपतिरिति तु वाह्वादित्वात् । कुरुभ्यः । नाकुलः । साहदेवः । इञ एवायमपवादः । मध्येऽपवादन्यायात् । अत्रिशब्दात् परत्वाड्ढक् । आत्रेयः । ण्योऽपि परत्वाद्बाधक एवेति वक्ष्यते ।
1
मातुरुत्संख्यासम्भद्रपूर्वायाः ॥ ११७ ॥
संख्यादिपूर्वस्य मातृशब्दस्य उदादेशः स्यादण्प्रत्ययश्च ।