________________
शब्दकौस्तुभे ।
उत्सर्गसिद्धमणमनूध तत्सन्नियोगेनादेशमात्रं विधीयते । पूर्वस्येति वाच्ये स्त्रीलिङ्गनिर्देशोऽर्थगतं स्त्रीत्वमारोप्य । आरोप्यफलं तु जननीवाचिन एवं ग्रहणं यथा स्यादित्याहुः । अभिव्यक्तपदार्था इत्यनेन सिद्धस्यापि स्पष्टीकरणं फलमिति भावः । द्वैमातुरः । सांमातुरः । भाद्रमातुरः । संख्येत्यादि किम् । सौमात्रः । केवलातु न भविष्यति । अव्यभिचारेणापत्यं प्रत्य. विशेषकत्वादित्याहुः । अयोनिजव्यावर्तकता वास्तु ।
__कन्यायाः कनीन च ॥ ११८ ॥
ढकोऽपवादोऽरा स्यात् तत्सनियोगेन कनीनादेशश्च । का. नीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः।
विकर्णशुङ्गछगलाद्वत्सभरद्वाजात्रिषु ॥ ११९ ॥
वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द्वः । बहुत्वस्य लोपिभिरेव कृतत्वान्नित्यं लुक् । न तु वत्सादीनामेव द्वन्द्वः । मूलप्रकृत्यर्थानां विकर्णादीन्प्रत्यपत्वाभावात् । वैकर्णः । वात्स्यश्वेत् । वैकर्णिरन्यः । शौङ्गः । भारद्वाजश्वेत् । शौगिरन्यः । छागलः । आत्रेयश्चेत् । छागलिरन्यः । केचित्तु सूत्रे शुक्राशब्दं टावन्तं पठन्तः शौङ्गेय इति प्रत्युदाहरन्ति । पाठद्वयमपि प्रामाणिकमिति वृत्तिकाराः।
पीलाया वा ॥ १२० ॥ तनामिकाणं बाधित्वा घच इति ढाक प्राप्ते पक्षेऽण् वि. धीयते । पीलाया अपत्यं पैलः । पैलेयः ।
ढक् च मण्डकात् ॥ १२१ ॥ मण्डूकाड्ढगणौ वा स्तः पक्षे इत्र । तेन त्रैरूप्यम् । माण्डूकेयः। माण्डूकः । माण्डूकिः ।