________________
४ अध्याये १ पादे २ आह्निकम् । हायनस्येत्यौपसंख्यानिकं णत्वम् । अथ कथं चतुर्हायना शालेत्यत्र न डीम्णत्वे । उच्यते । हायनो वयसि स्मृत इति भाष्यात् वयोवाचकस्यैवोभयत्रापि ग्रहणमिति तस्यार्थः । सूत्रे अन्तग्रहणं स्पष्टार्थम् । बहुत्रीह्यधिकारादेव विशेषणेन तदन्तविधिलाभात् ।
__ अन उपधालोपिनोऽन्यतरस्याम् ॥ २८ ॥
अनन्ताद् बहुव्रीहेर्योऽसौ वैकल्पिको ङीप्राप्तः स उपधालोपिन एव स्यात् । अन उपधालोपिनो नेति फलितोऽर्थः । सुपर्वा । उपधालोपिनस्तु स्यादेव । सुराज्ञी । सुतक्ष्णी। पक्षे डाम्निषेधौ ॥
नित्यं संज्ञाछन्दसोः ॥ २९ ॥ अन्नन्ताद् बहुव्रीहेरुपधालोपिनो नित्यं डीप्स्यात् संज्ञाछ. न्दसोः । सुराज्ञी नाम ग्रामः । शतमूर्नी । यद्यपि अनिदंप्रथमासु संज्ञासु नियतैवानुपूर्वी । एवं छन्दस्यपि । तत्र च डीपः प्राग्वदेव सिद्धौ विपरीतस्य चापादकाभावे व्यर्थमिदं सूत्रं तथाऽप्युत्तरार्थ बोध्यम् । योगविभागस्तु स्पष्टार्थः । केवलमामकभागधयापापरसमानार्यकृतसु
___ मङ्गलभेषजांच्च ॥ ३० ॥ एभ्यो नित्यं ङीप्स्यात् संज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । अध्यस्यां मामकी तनू । मित्रावरुणयोर्भागधेयी । अनिषव्यास्तन्धः सन्तु पापीः । उतापरीभ्यो मघवा विजि. ग्ये । समानीव आकूतिः । आर्यकृती । सुमङ्गली । शिवा रुद्रस्य भेवजी । कथं तर्हि सुमङ्गलीर्बिभ्रती देववीतिम् । सुमङ्गली