________________
२२
शब्दकौस्तुभे
ततो डाङीनिषेधेषु प्राप्तेषु ङीष् विधीयते । न च मध्येऽपवादन्यायेन डाप्पतिषेधावेव बाध्यौ न त्वन उपधालोपिन इति डीविति वाच्यम् । तस्य नियामकतायाः प्रागेवोक्तत्वात् । कुण्डोध्नी । स्त्रियां किम् । कुण्डोधो धैनुकम् । इहानङपि न । तद्विधी वियामित्युपसंख्यानात् । स्यादेतत् । इहैव तर्हि लाघवार्थ ऊधसो ङीष् नश्चेति मून्यताम् । उधसो नङिति च त्यत्का धनुषो ऽनङित्येव पठ्यताम् । मैवम् । कवभावे सावकाशस्यास्य पक्षे कपा बाधापत्तेः । सिद्धान्ते तु अनङः समासान्ततया शेषत्वमेवेह नास्ति ।
संख्याव्ययादेर्डीप् ॥ २६ ॥ ङीषोऽयमपवादः । ट्यूध्नी । न्यूनी । अत्युध्नी । निरूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्युधाः । संरव्याव्ययाभ्यामिति तु नोक्तम् । प्रत्युत मात्राधिक्यापत्तेः । द्विविधोध्नीत्यत्र संख्योधसोः पदान्तरेण व्यवाये ङीवभावापत्तेश्चेति दिक् ।
दामहायनान्ताच्च ॥२७॥ संख्यादेवहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप्स्यात् । दा. मान्ते डाप्पतिषेधयोर्बाधनार्थं वचनं हायनान्ते तु टापि प्राप्ते । द्विदाम्नी । समासानदेशेऽप्येकदेशस्यैव स्वरितत्वं प्रतिज्ञाय तेन संख्याग्रहणमेवेहानुवर्तते न त्वव्ययग्रहणम् । अत उद्दामा वड. वेत्यत्र डाम्निषेधावपि पक्षे स्तः । दृष्टा चैकदेशानुवृत्तिबहुशः। यथा तस्य पाकमूले इत्यतो मूलग्रहणमात्र पक्षात्तिरित्यत्रानुवर्त्तते । यथा वा झोऽन्त इत्यत्र प्रत्ययग्रहणमात्रमनुवर्त्तते न त्वादिशब्दः । द्विहायनी बाला । चतुर्हायणी । त्रिचतुर्यो