________________
३६
शब्दकौस्तुभे ।
मानाभावाजन्यजनकभावोऽपि गृह्यते । तथाच भट्टिः प्रायुक्त । कौशल्यया सावि मुखेन रामः प्राक् केकयीतो भरतस्ततोऽभूत् । केकयदुहिता केकयीत्युपचर्यते । जनपदशब्दादित्यपत्यप्रत्यये तु कैकेयीति स्यात् । न च तस्यातश्चेति लुक् । न प्राच्यभर्गादीति प्रतिषेधात् । तथाच कालिदासः। कैकोय कामाः फलितास्तवेति । एतेन देवकी व्याख्याता। आद्यपक्षे तु गौरादित्वं शाखादित्वं वा केकयशब्दस्य कल्पयन्ति । देवकशब्दात्तु अपत्यप्रत्यये कृतेऽपि संज्ञापूर्वकत्वेनानित्यत्वान वृद्धिरित्याहुः । पुंयोगात्किम् । देवदत्ता । आख्यायां किम् । प्रखता । अस्तीह पुंयोगो न तु पुंस आ. ख्यैषा । गोपालिकादीनां प्रतिषेधो वक्तव्यः । सिद्धये इति शेषः । आदिशब्दः प्रकारे । तेन पालकान्तान्नेत्यर्थः । तथा च परिशिष्टे मूत्रितम् । पुंयोगादज्येष्ठादिपालकान्तादिति । गोपालकस्य स्त्री गोपालिका। अश्वपालिका । सूर्याद्देवतायां चाब्वक्तव्यः । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती । मानुषीयम् । सूर्यतिस्येति यलोपः । इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमा
तुलाचार्याणामानुक् ॥ ४९॥ एषामानुगागमः स्यान् ङीष् च । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र पूर्वेण सिद्ध आगममात्रं विधीयते । हिमादीनां तूभयम् । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । हिमारण्ययोर्महत्वे । महदिमं हिमानी। महदरण्यमरण्यानी । यवादोषे । दुष्टो यवो । यवानी । जात्यन्तरमेवेदम् । यवत्वजातिविरहेऽपि