________________
४ अध्याये ? पादे ४ आह्निकम् ।
भाष्यवार्तिकानारूढत्वान्निर्मूलेति स्पष्टमेव । जीवति तु वंश्ये युवा ॥ १६५ ॥
इह पौत्रप्रभृतीत्यनुवृत्तं षष्ठ्या विपरिणम्यते व्याख्यानात् । तुर्भिन्नक्रमो युवेत्यस्मात्परो बोध्यः । स चैवकारार्थे । वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यान्न तु गोत्रसंज्ञा । गार्ग्यायणः । संज्ञासमावेशे शालङ्काः पैलीया इत्यत्र दोषः स्यात् । तथाहि । शलङ्कोरपत्यं शालङ्किः । पैलादिषु पाठादिञ् । शलङ्कादेशश्च । ततः शालङ्केरपत्यं युवा यञिञोश्चेति फक् । पैलादिभ्यश्चेति लुक् । ततः शालङ्केर्यूनरछात्रा इत्यर्थविवक्षयामि श्वेत्यणि शालङ्का इति भवति । तथा पीलाया अपत्यं पीलाया वेत्याणि पैलः । तस्यापत्यं युवाऽणो व्यच इति फिन तस्य पैलादिभ्यश्चेति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः स। मावेशपक्षे गोत्रेऽलुगचीति फफिञोरलुक् प्रसज्येत । नच परत्वाद्यूनि लुग्भविष्यतीति वाच्यम् । फक्फञोरन्यतरस्यामिति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्क्यः । स .हि यूनि लुक एवापवादः नतु पैलादिभ्यश्चेत्यस्य अनन्तरस्येतिन्यायात् । न चानपवादत्वेऽपि परत्वाद्विकल्पः स्यादेवेति वाच्यम् । परादप्यन्तरङ्गस्य पैलादिभ्यश्चेत्यस्य बलीयस्त्वादिति दिक् । अत्र वार्तिकं वृद्धस्य च पूजायाम् । युवसंज्ञेति शेषः । गार्ग्ययणः । युवसंज्ञका हि प्रायेणाल्पवयस्काः वृद्धनियन्त्रणात् समर्यादाः । तदधीनत्वादेव सुखिनश्चेत्यादि प्रसिद्धम् । तेन वृद्धोऽपि युवत्वेन पूजां मन्यते । इत्यारोपेणापीदं पूर्वोक्तं वार्तिकं गतार्थम् । वृत्तिकारस्तु सूत्रेष्वेव वान्यस्मादिति सूत्रात्परं प्रचिक्षेपेत्युक्तम् ।
९ ३