________________
४ अध्याये २ पादे २ आह्निकम् । १३३
व्यावृत्तये शेषाधिकारः । तथापि साकल्यार्थः सः अन्यथा संनिहिते जातार्थ एव घादयः स्युः भवादौ तु प्राग्दीव्यत इति इति विशिष्टावधिपरिच्छिन्नेषु अर्थेषु विधीयमाना अणादय एव स्युर्न तु घादयः शेषशब्दात्तु सर्वेषु घादयः सिध्यतीति । मैवम् । जाताधिकारानन्तरमावृषष्ठवित्यादिभिः सह घादिषु वक्तव्येषु ततः प्राक् पाठसामर्थ्यादेवार्थसाकल्यलाभात् । तस्मात् शेष इति लक्षणं चाधिकारथेति वृत्तिरप्यसङ्गता । उभयत्रापि प्रयोजनस्य दुर्लभत्वात् । अत्रोच्यते । शैषिकत्वप्रयुक्तं कार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकारो ज्ञापयति ।
शैषिकान्मत्वर्थीयाच्छैषिको मतुबर्थिकः ॥ सरूपः प्रत्ययो नेष्टः सन्नन्तान सनिष्यत ॥ इति ।
एतच सन्विधौ मतुब्विधौ च भाष्ये पठितम् । अस्यार्थः । शेषाधिकारे भवः शैषिकः । अध्यात्मादित्वादृञ् । मतुवर्थे भवो मतुवर्थीयः । गहादेराकृतिगणत्वाच्छ इति सन्विधौ हरदतः । रोगाख्यायामितिसूत्रे तु मत्वर्थाच्छ इति वार्तिकं व्याचक्षाणो हरदत्त आह । मतुना समानार्थो मत्वर्थः तस्मा त्स्वार्थे छः कुद्दधिकारे विधानसामर्थ्यात्कृत्संज्ञा कृदन्तत्वात् प्रातिपदिकत्वं बहुलवचनादभत्वेऽपि यस्योतिलोपः । बाहुलाकादेव कचिन्न । तसौ मत्वर्थ इति यथा । बाहुलकादेव मतुवशब्दादपि भवति । शैषिकान्मतुवर्थीयादिति यथा । मतुपोऽर्थो मतुबर्थः सोस्यास्तीति मतुबर्थिकः अत इतिठनाविति उन् । शैषिकप्रत्ययान्ताच्छैषिकः सरूपप्रत्ययो नेष्टः तद्यथा शालायां भवो घटः शालीयः । तत्र भवमुदकम् । पुनश्छो न