________________
१३४
शब्दकौस्तुभे ।
भवति । विरूपस्तु स्यादेव तद्यथा अहिछत्रे भव आहिछत्रः । तत्र भव आहिछत्रीयः । दण्डोऽस्यास्तीति दण्डिकः । सोऽस्यास्तीति पुनष्ठञ् नेति तृतीये कैयटहरदत्तौ । इदं च मतुप्सूत्रस्थ. भाष्यापोलोचनमूलकम् । तत्र हि षष्ठयर्थे वृत्तं सप्तम्यर्थे व.
ते सप्तम्यर्थे वा वृत्तं षष्ठयर्थे इत्युक्तं तच्चावश्यं वक्तव्यम् । उनन्तादिनिरपि मा भूदित्येवमर्थम् । न हीनिठनोरथभेदः सुलभः सप्तम्यां च न तौ स्मृतावित्युक्तेरुभयोरपि षष्ठयर्थत्वात् । स्पष्टं चेदं पाश्चमिककैयटेऽपि । तस्मादिह दण्डिशब्दात् सप्तम्यर्थे यथा मतुब्भवति दण्डिमतीति एवं मत्वन्तादपि प्राप्तोऽनेन निषिध्यत इति तत्वम् । वद्विमदानित्यादिनैयायिकपयोगस्तु दोषव्यग्रस्तः । मतुबन्तान् मतुपो निषेधात् । तसावितिभत्वेन जश्त्वासम्भवाच । केचित्तु शाब्दिकम्मन्या घटत्वत्वमित्यादि नैयायिकप्रयोगमपि दूषयन्ति । तन्मन्दम् । त्व. तलोरशैषिकत्वात् । विकारावयवप्रत्ययेभ्यः प्रागेव हि शेषाधिकारः। सनन्तादिति । अत्रापि सरूप इत्यपेक्ष्यते सारू. प्येण चात्रार्यसादृश्यं लभ्यते सामर्थ्यात् । तेन स्वार्यसनन्तासन् स्यादेव जुगुप्सिषते मापांसिषत इति दिक् ।
राष्ट्रावारपाराद् घखौ ॥ ९३ ॥ आभ्या क्रमात् घखो स्तः । राष्ट्रियः । अवारपारीणा। अवारपाराद्विगृहीतादपि विपरीताचेति वक्तव्यम् । चाचनिकमेवेदम् । सूत्रे तु सङ्घातस्यैव ग्रहणम् । अन्यथा वैषम्यात् संख्यातानुदेशो न स्यात् । अवारीणः पारीणः।पारावारीणः । प्रकृतिविशेषात्सत्ययविशेष इत्येतावन्मात्रमिह प्रकरणे उच्यते । जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥