________________
४ अध्याये १ पादे २ आह्निकम् ।
दित्यकारेऽतोलोपे टापा सह सवर्णदीर्घ च कृते अकारेण व्यवधानादित्यर्थः । शङ्कते । इतरत्रापीति । वाराहीपुत्र इत्यत्रापि टापा व्यवधानं तुल्यमित्यर्थः । समाधत्ते दीर्घ इति । न चैवमपि स्थानिवद्भावाद्यवधानमेवेति वाच्यम् । एकादेशस्य पूर्वान्ततयाहि याशब्दस्य विधिः । न चासावनादिष्टादचः पूर्वः येन स्थानिवत्वं स्यादिति भावः । आदेशवाद्याह धुत्वेति । धुत्वं धातुत्वम् । अधाविति छेदः । अयं भावः । आदेच इत्यात्वस्य गोशब्दादावतिप्रसङ्गं वारयितुं धातुग्रहणमनुवय॑म् । तस्य चेहापि सम्बन्धध्रौव्ये । योनन्तरो न धातुः स यो धातुः सोननन्तर इति भाष्योक्तरीत्याऽधातौ वाराहीपुत्र इत्यत्रेवानन्तरे लोलूयापुत्रेऽप्यतिप्रसङ्गो दुर्वारः । अथ यधात्वो. विशेषणविशेष्यभावानापन्नयोः कार्यान्वयस्तर्हि लोलूयापुत्रः सिध्यतु नाम । वाक्पतौ तु इक् स्यात् । तस्माद्धातुग्रहणं स्वतन्त्रमस्वतन्त्रं वा । उभयथापि प्रत्ययवादिनो दोष इति भावः । प्रत्ययवादी समाधत्ते धो नेति । गोनौं । गोशब्दस्यात्वं नेत्यर्थः । आत्वे हीति । प्रातिपदिकानान्तु अवयवशो व्युत्पादनरूप उद्देशो नतु साक्षात्पाठरूप उपदेश इति भावः । स्यादेतत् । नौद्यचष्ठन् । गोयचोसंख्येत्यादावस्त्येवोपदेशः । न च स्वरूपज्ञापनमात्रफलकः स नास्तीति वाच्यम् । धा. तूनामपि विकरणानुवन्धादिज्ञापनफलकत्वात् । न च औतौम्शसोरिति ज्ञापकम् । स्मृत अर्वा येन सः स्मृतौः । तं स्मृ. तामित्यत्र चारितार्थ्यात् । न च गोतो णिदिति ज्ञापकम् । तत्राप्योकारान्तोपलक्षणतया स्मृताः । स्मृतावावित्यत्र चरितार्थत्वात् । उच्यते । रायो हलीत्यत्र । राय इति योगविभागस्तावद्भाष्यारूढ एव तत्र राय एव प्रातिपदिकस्य नान्यस्येति