________________
शब्द कौस्तुभे ।
न विधेयौ चाबू च न विधेय इति पूर्वोत्तराभ्यां नञः सम्बन्धः । विधेयशब्दस्य च वचनविपरिमाणः । गार्ग्यामरायादाविव स्त्रीम त्ययद्वयं भविष्यतीति भावः । आदेशपक्षेऽपि तर्ह्यनुबन्धं मास्त्वित्याह । अपीति । इश्व अश्व यौ । अण्योऽकारः इञ इकार इति व्याख्यास्यते । अलविधित्वान्न स्थानिवत्वम् । टिड्ढाणञित्यत्र ह्यत इत्यनुवर्तते । इन उपसंख्यानमित्यत्रापि सौत्रमित इति सम्बध्यते । यद्यपि प्रपठ्येत्यादाविडभावायामाधान्येनाप्यलाश्रयणे स्थानिवत्वं नेति सिद्धान्तितम् । तथाचेकारान्तो य इमिति व्याख्यानेऽपि न दोषस्तथापि अण् योऽकार इत्यावश्यकम् । अन्यथा स्थानिवत्वेनाणत्वं स्वाश्रयमाकारान्तत्वं चाश्रित्य ङीप्स्यात् । यथा वृक्षायेत्यादौ स्वाश्रयं यवादित्वमाश्रित्य दीर्घ इति भावः । आदेशपक्षे दोषमाह । जित्वादिति । इञादेशस्येति शेषः । तथाचान्तोदात्तसिद्धये आदेश - वादिना चावेव वैष्टव्यः । तथा षङावप्यासञ्जनीयावित्यर्थः । स्यादेतत् । सानुबन्धकस्य स्थानिवत्वेन निर्देशे अनुबन्धकार्यतेति गालिटीति सूत्रे उक्तम् । तथाच । ञित्स्वरो न भविष्यतीत्याशङ्कयाह । सत्रकेति । तथाच । तस्मिन्नेव सूत्रे हल: श्नः शानजिति सूत्रे चोक्तपक्षो दूषित एव । तदभ्युपगमेऽपि न निर्वाहः । वृद्धेरप्यसिद्धिप्रसङ्गात् । ननु प्रत्ययत्वपक्षेऽपि सम्प्रसारणविधौ ष्यङ् इति विशेषणार्थमनुबन्धावावश्यकावित्याशयाह । पाश्येति । ष्यङः सम्प्रसारणमित्येव प्रत्ययपक्षेऽप्यस्तु । तावतापि पाश्यापुत्रे सम्प्रसारणनिवृत्तेरित्यर्थः । त्वया तु यङश्वावित्यत्र सामान्यग्रहणाविघाताय षकारोऽपि कार्य इति गौरवमिति भावः । ननु प्रत्ययपक्षे लोलूयापुत्रेऽपि सम्प्रसा रणं स्यादित्याशङ्कयाह । लोलूयेति । आदिति । अप्रत्यया
५४