________________
४ अध्याये ३ पादे १ आह्निकम् । १५९ स्तस्तयोस्तुद् च स च कृतादेशयोः घकालतनेषु अनद्यतन इत्यादिनिर्देशात् अन्तरङ्गत्वाद्धि प्रथमं तुटि भुज्युमृत्युरित्यादाविव त्युशब्दस्य प्रत्ययतयाङ्गसंज्ञानिमित्तं यो युस्तस्य विधी. यमानो ऽनादेशो न स्यात् । तुगेव तु न कृतस्तस्य पूर्वान्ततया प्रातस्तनमित्यादौ विसर्जनीयासिद्धिप्रसङ्गात् । सायन्तनम् । प्राङ्केतनम् । प्रगतनम् । दोषातनम् । दिवातनम् । सायमिति मान्तमव्ययम् । स्वरादिषु पाठात् । ततोऽव्ययत्वादेव सिद्धः प्रत्ययः । यस्तु स्यतेविसायशब्दो दिवसावसाने रूढः । तस्य प्रत्ययसन्नियोगेन मान्तत्वं निपात्यते । अन्यत्र त्वकारान्त एव सायाह्नः । आह च संख्याविसायपूर्वस्याहस्येति । भारविश्च सायमण्डनमभित्वरयन्त्य इति । इदं च वार्तिकमतम् । आह हि । सायचिरयोर्मान्तत्वं प्रत्ययसनियुक्तमिति । भाष्ये तु । सायंशब्दस्य पाठ इह सूत्रे प्रत्याख्यातः। घनन्तस्य सायशब्दस्य पाकादिशब्दवदकालवाचित्वात् । कथं तर्हि सायाह्नः सायमोऽढे मलोप इति वचनात् । तरे वा । सायतरे । सायन्तरे । वा सप्तम्याम् । साये सायम् । एवं च भाष्यमते सायमण्डनमित्यादयोऽपप्रयोगा एवेति बोध्यम् । पाहेप्रगे इत्यनयोरेदन्तत्वं निपात्यते । प्राह्नः सोढोऽस्य प्राङ्केतन इत्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जाताद्यर्थे तु घकालतनेवित्यलुकापि सिद्धम् । अत्र वार्तिकानि । चिरपरुत्परारिभ्य. स्त्रो वक्तव्यः । चिरवम् । परुनम् । परारित्रम् । चिरशब्दस्य सूत्रे उपादानात् युट्युलावपि भवतः न तु किंय. चहषु कृमो ऽविधानमित्यत्रेव सूत्रस्य बाधः । सायश्चिरमो मकारान्तत्वमिति वार्तिके चिरन्तनमितिभाष्योदाहरणात् । परुव । पूर्वस्मिन्वर्षे । परारि पूर्वतरे वर्षे । प्रगस्य छन्दसि गलोप