________________
शब्दकौस्तुभे। वामदेवाड्यड्डयौ ॥ ९॥ वामदेवेन दृष्टं साम वामदेव्यम् । सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ ।
ग्रहणं मा तदर्थे भूद्वामदेव्यस्य नअस्वरे ॥ नमाश्रयः स्वरो नभूस्वरः उत्तरपदान्तोदात्तत्वम् । अत दर्य इति सूत्रावयवेन ययतोरिति सूत्रं लभ्यते । तदयमर्थः । ययतोश्चेति सूत्रेण विधीयमानं ना उत्तरस्य ययदन्तस्यान्तोदात्तत्वं अवामदेव्यशब्दे मा भूत्किन्वव्ययपूर्वपदस्वर एव यथा स्यादित्येतदर्थमनयोडित्वम् । यग्रहणेन हि ड्यग्रहणं न भवति । निरनुबन्धकग्रहणे न सानुबन्धकस्यति । तथा यद्रहणेन ड्यग्रहणं न भवति तदनुबन्धकग्रहणेनातदनुबन्धकस्येति । एते च परिभाषे इहैव डित्वेन ज्ञापिते । तत्राद्यायाः प्रयोजनम् । पूरणगुणेति सूत्रे तव्यतो ग्रहणं मा भूत् दिव औदित्यत्र दीव्य. तेर्माभूदिति । द्वितीयस्यास्तु अङ्ग्रहणे चङ्ग्रहणं मा भूत् श्वयतेरः अश्वत् नेह अशिश्वियदिति ।
परिवृतो रथः ॥ १० ॥ तृतीयान्तात्परिवृतेऽर्थेऽण रथश्चेत्सः । वस्त्रैः परिवृतो वास्रो रयः। तदेकान्तग्रहणं कर्त्तव्यम् । नेह पुत्रैः पौत्रैः परिवृत्तो वा।
पाण्डुकम्बलादिनिः ॥ ११ ॥ मत्वार्थीयेनेनिना सिद्धेऽण्बाधनार्थ सूत्रम् । पाण्डुकम्बलो गजास्तरणं तेन परिवृतः पाण्डुकम्बलो रथः ।
द्वैपवैयाघादञ् ॥ १२ ॥ अणोऽपचादः । स्वरे विशेषः। द्वीपिन्याप्रशब्दाभ्यां विका