SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये १ पादें २ भाविकम् । ४७ गुल्मधुजतुपतयालूनामुपसंख्यानम् । तत्राद्यानां त्रयाणां छ. न्दास व्यत्ययेन स्त्रीत्वम् । पतयालुस्तु स्पृहिगृहीत्यालुजन्तो विशेष्यलिङ्गः । गुग्गुलुः । मधूः । जतूः । पतयालूः । संज्ञायाम् ॥ ७२ ॥ श्रच्छन्दोऽर्थ सूत्रम् । कदूः । कमण्डलुः । शाखाद्यो ङीन् ॥ ७३ ॥ शाखादेरो योऽकारस्तदन्ताच्च जातिवाचिनो हीन्स्यात्।। शारिची । बैदी। जातेरित्यनुवृत्तेः पुंयोगे डीषेव । जातिलक्षण एवं परं डीना बाध्यते ॥ अत्राकारविशेषणानेह । शूरसेनी ॥ जनपदशब्दादित्यनोऽतश्चेति लुकि जातिलक्षणो ङीष् । अत एव यौधेय्यां डीसिध्यर्थं न प्राच्यभगादियाँधेयादिभ्य इति सू. त्रेणातश्चेति प्राप्तो लुङ् निषिध्यते । ततः पश्र्वादियौधेयादिभ्यो ऽणत्राविति पाश्चमिकस्य स्वार्थकस्यानो लुगभावादनेन छीन् सिध्यतीति कैयटादिग्रन्थे चरणसमाप्तौ स्पष्टम् । शारिव । कापटव । ब्राह्मण। गौग्गुलव । शृङ्गरु कपटु ब्रह्मन् गुग्गुलु एभ्यः प्राग्दीव्यतोऽण् । गौतम ऋष्यणन्तः । अयं च गौरादिष्वपि पठितः । कामण्डलेय । कमण्डलुशब्दाचतुष्पाद्भ्यो ढञ् । ब्राह्मणकृतेय । आतिथेय। आगरकेय । एते शुभ्रादिढगन्ताः । वात्सायन । वत्सशब्दाद् गर्गादियम् । ततो यूनि यनिमोश्चेति फक् । यद्यपि स्त्रियां युवसंज्ञा नास्ति तथापि वात्सायनशब्दस्यह गणे पाठसामर्थ्यात् स्त्रियामपि युवसंज्ञा । गोत्रे एव वा प्रत्ययद्वयम् । मौञ्जायन । मुञ्जशब्दो नडादिः । कैकसेय । कीकसाशब्दः शुभ्रादिः । काप्य । शैब्य । कपिशिविभ्यां वृद्धकोसलाजादान । यश्चाबत्र प्राप्नोति । ऐहि । पर्येहि । ईई चेष्टायाम् ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy