________________
४६
शब्दकोस्तुभे । इति कुमारः । संज्ञापूर्वकस्य विधेरनित्यत्वात् संबुद्धिमयुक्तगुणाभावो बोध्यः । एतेन विहर मया सह भीरु कामिनीति व्या. ख्यातम् । श्रीकण्ठपुरुषोत्तमादयस्तु स्त्रीजातिविशेषवाची भीरुशब्दस्तस्मादुङत इत्यूङमाहुः । कथं तर्हि । विशेषस्त्वङ्गना भीरुरित्यमरः । सपदि वारिधरारवभीरव इति माघश्च । मनुष्यत्वा. विवक्षायां नोङ् । मनुष्यजातरित्यनुवृत्तेः भियः क्रुल्कुकनाविति को क्रियाशब्दो वा । अत एव वारिधरारवस्य भीत्रार्थानामित्यपादानकारकतेति दिक् । ऊर्वन्तादिति उरोरिति वा वक्तव्ये उत्तरपदग्रहणं हस्तशुनोरुरित्यादौ पदान्तरव्यवधाने मा भूदित्येतदर्थम् । अत एव धात्री कराभ्यां करभोपमोरूरिति रघुकाव्ये दीर्घपाठः काचिकः प्रामादिकः । विचकरेचकरेणु. करोरुभिरिति माघे तु प्रमाद एव । करेण वरोरुभिरिति वा पठनीयमिति हरदत्तः ।
संहितशफलक्षणवामादेश्च ॥ ७० ॥ अनौपम्याथ सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्द अर्शआद्यजन्तः। लक्षणोरू: । वामौ सुन्दरौ ऊरू यस्याः सा वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् । सहितोरूः । समो वा हितततयोरिति व्युत्पादितस्य सहितशब्दस्य नेह ग्रहणम् । एकदेशविकृततया संहितग्रहणादेव सिद्धेः। किन्तु सह हितेन वर्तते इति व्युत्पादि. तस्य ग्रहणम् । सहोरूः । सहेते इति सही तादृशावुरू यस्याः सा। यद्वा । विद्यमानवचनस्य सहशब्दस्य उर्वतिशयमतिपाद. नाय प्रयोगः।
कद्रुकमण्डल्वोश्छन्दसि ॥ ७१ ॥
भाभ्यामूङ् स्यात् । कद्रूश्च वै मुपर्णी च । कमण्डलू: ॥ गुः