SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे २ आदिकम् । १९५ त्रपुणो विकारः त्रापुषम् । जातुषम् । ओरञ् ॥ २८० ॥ दैवदारवम् । देवदारुभद्रदारुशब्दौ पीतर्थानामित्याद्युदात्तौ ॥ __ अनुदात्तादेश्च ॥ २८१ ॥ दाधित्थम् । गार्मुतम् । गर्मुच्छब्दो यो मुट् चेत्युतिप्रत्ययान्तः । कथं तर्हि तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेदित्यबान्तोदात्ततेति चेत् व्यत्ययेनेति नोत्वत्सूत्रे प्रामाणिकाः । पलाशादिभ्यो वा ॥ २८२ ॥ उभयत्र विभाषेयम् । पलाशखदिरशिंशपास्यन्दनानां अनुदात्तादित्वात्माप्ते अन्येषामप्राप्ते । पालाशम् । पलाशशब्दो घृतादित्वादन्तोदात्तः । खदिरशन्दोऽजिरशिशिरेत्यादौ किरप्रत्ययान्तो निपातितः। शिशपाशब्दो अथ द्वितीयं प्रागीषादिति वर्चमाने पान्तानां गुर्वादीनामिति मध्योदात्तः । स्पदि किश्चिञ्चलने अनुदात्तेतच हलादेरिति युन् । किरतेरीरन् करीरम् । कृतृम्पापीषन् पृभ्यां किच शिरीषम् । नित्स्वरेणादाचावेतौ । विककृतपूलासयवासशब्दा ग्रामादीनां चेत्याधुदाचाः ॥ शम्या ष्लञ् ॥ २८३ ॥ पिदयम् । टिदिति तु माधवः । अनो ऽपवादः । शामी. कं भस्म । बामीली बुक् । चातुर्मास्येषु वरुणप्रघासे शामील्या सुवो भवन्तीति श्रुतम् । शमीशब्दो गौरादिङीषन्तः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy