________________
शब्दकौस्तुभं ।
मयड्वैतयोर्भाषायामभक्षाच्छादनयोः ॥ २८४ ॥ प्रकृतिमात्रान्मय वा स्यात् । अश्ममयम् । आश्मम् । भाषायां किम् । खादिरो ग्रूप इति वृत्तिकाराः । वस्तुतस्तु वेदे बहूवचः प्रयुक्तस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् । व्य चछन्दसीतिसूत्रस्य व्यच एवेति नियमार्थत्वे यद्यपीदं गताये तथापि विपरीतनियमाशङ्का निवृत्यर्थं बोध्यम् । अभक्षाच्छादनयोरिति किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । अधिकारादेव सिद्धे एतयोरिति वचनमित उत्तरेपां प्राणिरजसादिभ्योऽञ् इत्यवमादानामपि विषये पक्षे प्रवृत्यर्थम् । कपोतमयम् । इह विकारावयवाभ्यां सह प्रत्येकमभक्षाच्छादनयोरिति सम्बध्यते । समास निर्देशात् । अतो यथासंख्यं न । अत्रेदमवधेयम् । आनन्दमयोऽभ्यासादित्यधिकरणे विका रशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रयतो व्यासस्यापि आनन्दशब्दस्य बह्वच्कतया छन्दसि विकारे मयटू न लभ्यत इत्येव आशयः । अत एव मायपाठोऽप्यकिञ्चित्करः । उभयसम्भव एव तस्य निर्णायकत्वात् । एतच्च वृचिकृतामनुकूलम् । उत्तरमीमांसाभाष्यकारैस्तु विकार एवायं मयडिति सिद्धान्तितम् । तेषामयं भावः अन्नमयप्राणमयमनोमयेषु व्यच्त्वाद्यद्यपि सिद्धिस्तथापि विज्ञानमये तावद्विकारे मयडर्थ वृत्ति कृद्भिरपि यतनीयं तत्रायं यत्नः तात्पर्यग्रहस्य न्यायानुसंधानेनैव सिद्धेस्तदर्थं पाणिनिना सूत्रारम्भदर्शनाच्चेह भाषा - ग्रहस्त्याज्यः । तथा च व्यचश्छन्दसीति नोत्वद्वर्धेति च द्विसूत्र्यपि त्याज्या | छन्दसि सकलविकल्पानां व्यवस्थिततायाः सर्वसम्मतत्वात् । उर्ऋत् नित्यं छन्दसीत्यादीनां वैयाकरणैरित्थमेत्र प्रत्याख्यातत्वाच्च । श्रीग्रामरायोश्छन्दसीत्यत्र श्रियश्छन्द
१९६