________________
शब्दकौस्तुभे ।
फफिञोरन्यतरस्याम् ॥ ९१ ॥ यूनीत्येव । पूर्वेण नित्य लुकि प्राप्ते विकल्पार्थ सूत्रम् । गाायणस्य छात्राः गार्गीयाः । गाायणीयाः । यस्कस्यापत्यं शिवादिभ्योऽण् । यास्कः। तस्यापत्यं युवाऽणो यच इति फिञ् । यास्कायनिः । तस्य छात्रा यास्कायाः । यास्का. पनीयाः।
तस्यापत्यम् ॥ ९२ ॥ तस्येति षष्ठचन्तात् समर्यादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया स्युः । लिङ्गवचनेऽतन्त्रे । उपगोरपत्यमोपगवः । आश्वपतः । दैत्यः । स्त्रैणः । पौंस्नः । यद्यपि तस्येदमित्ये. वापत्येऽप्यण सिद्धस्तथापि अत इञ् इत्याद्यर्थं तस्यापत्यमिति तावद्वक्तव्यम् । योगविभागस्तु भानोरपत्यं भानव इत्यत्र वृद्धाच्छं बाधितुम् । तथाहि असति योगविभागे प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगात्ततोऽन्योऽपत्यार्थः शेष एव स्यात् तथा च वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते अपत्यार्थस्योपयोगाच्छेषत्वाभावेन छस्य प्राप्तिरेव नास्तीति ।
एको गोत्रे ॥ ९३ ॥ गोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते । उपगोगर्गोत्रापत्यमोपगवः । इह पक्षदयम् । अपत्यशब्दो जन्यपरः । तेनोत्पादयितैवापत्येन युज्यते । तथा च लोके कस्येदमपत्यमिति पितामहं पति पृष्टे चैत्रस्य मैत्रस्य वेत्युत्तरयति नतु ममेति । अमरोऽप्याह । आत्मजस्तनयः सुनुः सुतः पुत्रस्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः स. मे इति । मुख्यमतं तु प्रयोज्यपरोऽपत्यशन्दः न पतन्त्यनेना