________________
४ अध्याये २ पादे २ आह्निकम् । १४७ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ नगराद् वुञ् कुत्सने प्रावीण्ये च गम्यमाने । प्रत्ययार्थवि. शेषणं चेदम् । कुत्सिते प्रवीणे च जातादौ प्रत्ययार्थे इति यावत् । नागरकश्चौरः शिल्पी वा । एतयोः किम् । नागरा ब्राह्मणाः । अञ् । न च कादिषु नगरशब्दस्य पाठात् ढकञ् शयः । तत्र माहिष्मतीसाहचर्यात् संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणात् । तत्र तु नागरेयकमिति भवत्येव ।।
__अरण्यान्मनुष्ये ॥ १२९ ॥
बुब् । अरण्याणो वक्तव्य इत्यौपसंख्यानिकस्य णस्यापवादः । अत्र भाष्यम् । पथ्यध्यायन्यायविहरमनुष्यहस्तिष्विति वक्तव्यम् । आरण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा। वा गोमयेष्विति वक्तव्यम्। आरण्यका आरण्या वा गोमयाः ।
विभाषा कुरुयुगन्धराभ्याम् ॥ १३०॥
आभ्यां वा वुञ् । कौरवकः । कौरवः । यौगन्धरकः । योगन्धरः । युगन्धरार्थ विभाषाग्रहणम् । कुरुशब्दस्य कच्छादिपाठादेवाणः पक्षे सिद्धत्वात् । अवृद्धादपीति प्राप्तऽपि जनपदलक्षणो वुञ् अणा मा बाधीति स एव परं विधेयः । मनुष्यतत्स्थयोस्तु कुरुशब्दानित्य एव बुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितमिति । यथा एतदर्थमेव हि कच्छादिषु कुरुशब्दः पठ्यते । अन्यथाऽनयैव विभाषया वुबणोः सिद्धौ किं तेने. ति हरदत्तः। यत्तु वृत्तावुक्तं जनपदशब्दावेतौ ताभ्यामद्धा. दपीति नित्ये वुनि प्राप्ते विकल्पोऽयमिति तत्प्रथमप्राप्त्यभिप्रायकम् ।