________________
१४८
शब्दकौस्तुभे ।
मद्रवृज्योः कन् ॥ १३१ ।। आभ्यां कन् । जनपदवुञोऽपवादः । मद्रेषु जातः । मद्रकः । वृजिकः ।
कोपधादण् ॥ १३२ ॥ जनपदवुनोऽपवादः । ऋषिकेषु जात आर्पिकः । माहिपिकः । इह देश इत्यनुवर्तते वृत्तौ तचोत्तरार्थ न त्वदेशनिवृत्त्य. र्थम् । तत्र हि :प्राग्दीव्यत इत्यण भवत्येव । प्रस्थोत्तरपदादिसूत्रं तु उदीच्यग्रामलक्षणस्यानो बाधनार्थम् । स्यादेतत् । इहाणग्रहणं मास्तु । कोपधादित्युक्ते आरम्भसामथ्योद् यो विहितो न च प्राप्नोति स एव प्रतिप्रसोष्यते । मैवम् । इक्ष्वाकुशब्दादोर्देशे ठञ् प्राप्तः तस्मिन् जनपदबुना बाधिते यद्यण्ग्रहणं न क्रियते ततष्ठव स्यात् । सिद्धान्ते त्वणेव सिध्यति । ऐक्ष्वाकः । दाण्डिनायणादिसूत्रेण टिलोपः ।
कच्छादिभ्यश्च ॥ १३३ ॥ एभ्यो देशवाचिभ्योऽण् स्यात् । वुबादेरपवादः। काच्छः। सैन्धवः । कच्छशब्दो न बहुवचनविषयः तस्य मनुष्यतत्स्थयावुनर्थः पाठः। विजापकशब्दः पठ्यते तस्य कोपधत्वादेवाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ सिन्धु बहुडव वर्गु गन्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अणु खण्ड द्वीप अ. नप अजवाह विजापक कुलूत कच्छादिः ।
___ मनुष्यततस्थयोवुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । अणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः।काच्छकं हसितं जल्पितम् । काच्छिका चूडा । मनु