________________
११४
शब्दकौस्तुभे। भाष्यम् । राजन्याद् वुञ् मनुष्याच्च ज्ञापकं लौकिकपरमिति । सोऽयं भाष्यवार्तिकारूढः पन्थाः । अपरे तु नेमौ गोत्रप्रत्ययान्तौ शिवादिभ्योऽणिति सूत्र एव गोत्रग्रहणं निवृत्तमिति वृत्तिकारकैयटप्रभृतिभिरुक्तत्वात् । अपत्याधिकारादन्यत्र लौकिकग्रहणं तु व्याख्यानादेव उभयगतिरिहेति भाष्यात् । न चैवं प्रकृतसूत्रे राजन्यमनुष्यग्रहणवैयर्थ्यम् । एतयोरपत्यकृतं नेति ज्ञापनेन सफलत्वात् । तेन यलोपो नेत्याहुः । अन्ये तु जातिरेवार्थो न त्वपत्यमित्याहुः । इह पक्षद्वयेऽपि प्रकृत्याके इति वचनं न कर्त्तव्यमिति तत्वम् ।
केदाराद्यञ् च ॥ ४० ॥ चाद् बुब् । अचित्तलक्षणस्य ठकोऽपवादः । केदाराणां समूहः केदारम् । केदारकम् । गणिकायाश्चेति वार्तिकम् । अ. व यमेव नतु वुअपि गाणिक्यम् ।
ठञ् कवचिनश्च ॥४१॥ चात् केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥
ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ब्राह्मणानां समूहो ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । स्यादेतत् । ब्राह्मणादयो वृद्धाः तेभ्यः प्रकृतो यबेवास्तु । नहि वृद्धाद्यनि यनि वा रूपे विशेषोऽस्ति । न वा स्वरे उभयथाप्याद्युदात्तत्वात् । ठञ् तु नानुवर्तिष्यते स्वरितत्वात् । सत्यम् । अन्यतो विधानार्थं यन्वचनम् । तेन पृष्ठादुपसंख्यानमिति वार्तिकं गतार्थम् । पृष्ठशब्दः स्तोत्राविशेषस्य संज्ञा । पृ.