________________
१६
शब्दकौस्तुभे
प्युदीचां मते सावकाशस्तथापि परत्वादावव्यात् ष्कं प्राचां मते बाधेत । अत्राहुः । उत्तरसूत्रात् सर्वत्रग्रहणमिहापकृष्यते तेन बाधकविषयेऽपि प्राचां ष्फ एव भवति । एवं पाद्यमश्वाविषयेऽपि प्राचां ष्फ एव । शार्कराक्ष्यायणीति यथा ॥ १६ ॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १७ ॥
लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यः ष्फः स्यात् सर्वस्मिन् मते । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेन्न । पूर्वसूत्रे बाधकबाधनेनोपयुक्तस्य तस्येहापि स्पष्टत्वार्थमनुवृत्तेरभ्युपगमात् । लौहित्यायनी । इह गर्गादौ कपि कत कुरुतेति पठ्यते । तत्र कपिशब्दात् परः कतशब्द एवावधिः तस्य स्वतन्त्रप्रातिपदिकतया अर्थवत्वात् । कुरुकतेति तु कतशब्दः प्रातिपदिकैकदेशः ।
कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी फाणौ तत्र प्रयोजनम् ॥ गणशुद्ध्यर्थमिदं वार्त्तिकम् । गणे हि कपिकत कुरुकत । अनडुहः । कण्व शकलेति पठ्यते । तत्रानडुहकुरुकतशब्दावस्मात् स्थानादपकृष्यान्यत्र पाठ्यौ शकलशब्दस्तु कतकरावयोर्मध्ये पाठ्यः । न चैवं शकलो गर्गादियमात्रं लभेत न तु ष्फाणौ । लोहितादिकण्वाद्युभयबहिर्भूतत्वादिति वाच्यम् । कतन्तेभ्यः कण्वादिभ्य इत्युभयत्रापि षष्ठीतत्पुरुषबहुव्रीह्योरेकशेषाश्रयणात् । कतस्य ह्यन्तः समीपः शकलः तथा कण्वस्यादिरपि स एव । स्वराभिन्नानामिति वचनाद्बहुव्रीहेः शेषः । तेन शाकल्यायनी शाकल्यस्य छात्राः शाकलाः । लोहितादित्वात् ष्फः । कण्वादिभ्यो गोत्रे इत्यण् च सिद्ध्यति ।