________________
४ अध्याये १ पादे २ आह्निकम् ।
१५
शाक्तीकी । बाहीकी । आढ्यङ्करणी । तरुणी । तलुनी । तरुणतलुनयोगरादिषु पाठान् ङीष्ङीपोः पर्यायो बोध्यः । स्वरे विशेषः । तरुणतलुनयोरुनन्प्रत्ययान्तत्वेनाद्युदात्तता । सैवङीपि । ङीषि त्वन्तोदात्ततेति । वृत्तिकारस्तु ख्युनं सूत्रे प्रक्षिप्तवान् ॥ १४ ॥
यञश्च ॥ १५ ॥
1
यञन्तात् स्त्रियां ङीप् स्यात् । गार्गी । वात्सी । ननु द्वीपे भवा द्वैप्या | द्वीपादनुसमुद्रं यञ् । इहापि ङीप् प्राप्नोति । सत्यम् । अत एवेह आपत्यग्रहणं कर्त्तव्यमिति वार्त्तिककाराः । भाष्ये तु कञ्करपो ऽञश्चेत्यकारः प्रश्लिष्यते । गर्गादिभ्यो यत्रिति सूत्रे ऽप्येवम् । न चैवं यञिवोश्चेति सूत्रे अनुवन्धकत्वादयञ् न गृह्येतेति वाच्यम् । गोत्रग्रहणानुवृत्तिसामथ्र्यैन परिभाषाबाघात । यस्कादिभ्यो गोत्रे यञिञोश्चेति तत्राप्यकारप्रश्लेषाद्वेति सिद्धान्तः । देवाद्यञञाविति प्राग्दीव्यतीये यजि तु देवस्यापत्यं दैव्येति टाबेव । यद्यपि वार्त्तिकरीत्या ङीमातस्तथापि भाष्ये ऽयञ् इति व्याख्यातत्वात् । यथोत्तरं मुनीनां प्रामाण्यात् । यद्वा आपत्येति वार्त्तिकमपत्याधिकारविहितपरं व्याख्येयम् । तथाभूतश्च गर्गादियमेव न तु देवाद्यञ् । तस्यापत्याधिकारात् प्रागेव पाठात् । तथा च भाष्यवार्तिकयोरविरोधः ॥ १५ ॥
प्राचां ष्फ तद्धितः ॥ १६॥
·
यञन्तात् ष्फो वा स्यात् स्त्रियां स च तद्धितः । षित्वसामर्थ्यात् ष्फेणोक्ते ऽपि स्त्रीत्वे ङीष् । गार्ग्यायणी । आवट्यायनी | स्यादेतत् । आवट्याच्चेति चाहि भाव्यम् । चां च यद्य