________________
शब्दकौस्तुभे।
पकर्षणादित्युक्तम् । आवट्यायनी ।
तद्धिताः ॥ ७६ ॥ आ पञ्चमाध्यायसमाप्तेराधिकृतं बोध्यम् । बहुवचनमनुक्तानामुपसंख्येयानां संग्रहार्थम् । अन्यथा प्रत्यय इतिवत्तद्धित इ. त्येव ब्रूयात् । ननु स्त्रीप्रत्ययानामुपक्रम एव तद्धिता इत्यधिक्रियताम् । तथाच फविधौ तद्धितग्रहणं यस्येतिलोपे ईद्रहणं च मास्त्विति लाघवम् । सत्यम् । एवं सति ङीवादीनां डकारस्येत्संज्ञा न स्यात् । अतद्धित इति पर्युदासात । डकारस्थाने टकारोऽस्त्विति चेन्न । एवमपि पद्वीत्यादावोगुणप्रसङ्गात् ।
यूनस्तिः ॥ ७७ ॥ युवन्शब्दात्तिप्रत्ययः स्यात्स च तद्धितः ॥ स्त्रियां तद्धितान्तत्वात् प्रातिपदिकत्वे स्वादयः । युवतिः । लिङ्गविशिष्टपरिभाषया सिद्धेऽप्युत्तरार्थस्तद्धिताधिकारः । अथ कथं प्रौढभावा युवत्य इति । युवतीकरनिर्मथितं मथितमिति च । न चेतो मनु. व्यजातेरिति डीषि वाच्यम् । यौवनं न जातिरित्युक्तत्वात् । अन्यथा इस्वपयोगासनतेश्च । उच्यते । सर्वतो क्तिनादिति पहाधन्तर्गणसूत्राद्वैकल्पिको डीए । उक्तेऽपि भवन्त्येत इति भाव्यात् । अन्ये त्वाहुः यौतेरौणादिके कतिप्रत्यये कृदिकारादिति जीषिति । यौतेः शत्रन्तान्डीबिति वा । अत एव युवतीनां समूहो यौवतमित्यपि सङ्गच्छते। त्यन्तात्तु अणि पुंवद्भावाद्यौवनमित्येव । भिक्षादिपाठसामर्थ्यान पुंवदिति वृत्तिस्तु भाष्यविरुदा। भाष्ये भिक्षादिषु युवतिशब्दपाठस्य प्रत्याख्यानात् ।। अणिञोरनार्षयोर्गुरूपोत्तमयोः व्यङ् गोत्रे ॥ ७८ ॥ ज्यादीनामन्त्यमुत्तमम् । तत्रैव रूढेः । तस्य समीपमुपो