SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३८ शब्दकौस्तुभे। पादानादुभयेऽपीह गृह्यन्ते । कालवाचिनोऽव्ययात्तु परत्वात ट्युट्युलौ । प्राक्तनम् । कन्थायाष्ठक् ॥ १०२ ॥ कान्थिकः। वर्णौ वुक् ॥ १०३ ॥ वर्णी या कन्था ततो वुक् स्यात् । ठकोऽपवादः । यथा हि जातं हिमवत्सु कान्थकम् । वर्ण म नदः तत्समीपदेशो 'वर्णः अदूरभवश्वेत्यर्थे सुवास्त्वादिभ्योऽण् । तस्य जनपदे लुप् । न च प्रतिपदविधानाल्लुम्नेति वाच्यम् । मुवास्त्वादिपाठस्य जनपदादन्यत्र कृतार्थत्वात् । वार्णवो ग्रामो वार्णवं नगरमिति यथा । सूत्रे सप्तमीनिर्देशस्तु गम्यमानसतापेक्षः कारकाणां क्रिययैवान्वयस्थितत्वात् । तथा च व. ९ विद्यमाना या कन्थेति विवरीतव्यम् । अव्ययात्यप् ॥ १०४ ॥ अत्र वार्तिकम् । अमेहकतसित्रेभ्यस्त्यबिधिर्योऽव्ययात् स्मृतः । अमात्यः । अमान्तिकसहार्थयोरिति मेदिनी । इहत्यः। कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः । पारतः । विभाषापरावराभ्यामित्यमुजन्तः परतः शब्दः ततोऽण् । अव्ययानां ममात्रे टिलोपः । बहिषष्टिलोपविधानात् ज्ञापकादनित्योऽयम् । तेनेह न । आरातीयः । . दाच्छ इति छः । त्यन्नेधुव इति वक्तव्यम् । नित्यः । निसो गते इति वक्तव्यम् । निष्टयः । निर्गत इत्यर्थः । निर्गतो व. र्णाश्रमेभ्यो निष्टयश्चण्डालादिरिति तु वृत्तिकाराः । इस्वात्तादौ
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy