________________
४ अध्याये २ पादे २ आह्निकम् ।
१३७
दिभ्यश्चेत्यण प्राप्तः ततः फगणौ विधीयते । कोपधत्वादे. वाणि सिद्धे रङ्कुशब्दस्य कच्छादिपाठो मनुष्यतत्स्थयोवुविधा नार्थः । अमनुष्ये किम् । रावको मनुष्यः । स्यादेतत् । रकोरित्येवं सूत्रमस्तु । कच्छादिषु पाठादणः सिद्धेः । मनुष्ये तु फगणौ बाधित्वा मनुष्यतत्स्थयोवुन् भविष्यति । येननाप्राप्तिन्यायेनापवादत्वात् । न च तत्स्थे फगणावेव स्त इति ज्ञापनार्थमिदमिति वाच्यम् । रायकः कम्बल इत्यत्र कुन एवेष्यमाणत्वात् । अत्र वृत्तिकाराः । मनुष्य इति पर्युदासात् प्राणिन्येव ष्फग्विधीयते तेन रावकः कम्बल इत्यत्र फङ् न । विशेषविहितेन ष्फकाऽणो बाधो मा भूदित्यण्ग्रहणमपि कर्त्तव्यम् । एतच भाष्यवार्तिकाभ्यां विरुध्यते । तथाहि । अमाणिन्यपि फकं स्वीकृत्य शेषस्तत्र प्रत्याख्यातः । आह च रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोवुविधानात् । तत्स्थे फगणोपिकमिति चेन्नानिष्टत्वात् । अण्ग्रहणानर्थक्यं च कच्छादिभ्योऽण्विधानात् ।
धुप्रागपागुदप्रतीचो यत् ॥ १०१ ॥
एभ्यो यत् । दिवि भवं दिव्यम् । प्राच्यम् । उदीच्यम् । इह मूत्रे दिवशब्दो दिवउदित्युत्वेन निर्दिष्टः न तु घुशब्दः व्याख्यानात् । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो न तु दन्त्योष्ठयः। यदिन्द्रप्रागपागुदक् । राजा वञ्जकमागपागुदगित्यादौ दर्शनात् । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमा इत्यमरः । प्रागादयः शब्दा द्विविधा अव्यया अनव्य याश्च । अस्तात्यन्ता अव्यया अन्ये तु न । विशेषानु