________________
१५०
शब्दकौस्तुभे। धीमध्यनिवासिन एव चरणा न त्वन्येऽपि तेन पृथिवीमध्यादागताश्चरणा इत्यर्थे मध्यमीया इत्येव भवति । मुखपाशर्वतसोर्लोपश्च । मुखतीयम् । पार्श्वतीयम् । आधादित्वात्तसिः । अलोन्त्यस्येति सकारलोपे कृते यस्येतिचेति अकारलोपः । अव्ययानां भमात्रे टिलोप इत्यस्यानित्यतां ज्ञापयितुं चेदम् । तेनारातीयः सिद्धः। कुग् जनस्य परस्य च । जनकीयम् । परकी. यम् । देवस्य च । देवकीयम् । वेणुकादिभ्यश्छण् वक्तव्यः । वैणुकीयम् । वैत्रकीयम् । औसरपदकीयम् । प्रास्थकीयम् । आकृतिगणोऽयम् । तेन स्वशब्दात् स्वार्थकनन्ताच्छे स्वकीयम् । तथा च लुब्योगाप्रख्यानादित्यत्र नहि स्वकीय. स्यैव प्रत्याख्यानमिति न्यासः । केवलस्वशब्दात् सौवम् । द्वारादीनाश्चेति सूत्रे सौवं मुहूर्तम् । स्वीयमिति तु प्राक्क्रीताच्छः। चान्द्रास्तु स्वजनपरदेवराज्ञां कुक् चेति सूत्रयन्ति । तत्र राज्ञो नलोपे यवान्तरमन्वेषणीयम् । अन्तरशब्दाद्हादित्वाच्छे नशब्देन समासे नान्तरीयकमिति । अविनाभूतमित्यर्थः ।
प्राचां कटादेः ॥ १३९ ॥ प्राग्देशवाचिनः कटादेश्छः। अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्बलीयम् । राज्ञः क च । अस. म्भवादिह देशो न सम्बध्यते । वृद्धत्वाच्छे सिद्ध तत्सनियोगेन कादेशमात्रं विधीयते । राजकीयम् ।
वृद्धादकेकान्तरोपधात् ॥ १४ ॥ अक इक एतदन्तात् खोपधाच वृद्धाद्देशवाचिनश्छः । कोपधलक्षणस्याणो वाहीकग्रामलक्षणयोष्ठअिठोः रोपधेतोरिवि पुनश्चापवादः। ब्राह्मणको नाप जनपदः यत्र ब्राह्मणा आ