________________
४ अध्याये ४ पादे २ आह्निकम् । २१७
यद्वा वचनसामर्थ्यादस्तीत्याख्यातान्निपाताख्यातसमुदायाच प्रत्ययः । प्रमाणानुमा मतिर्दिष्टेति प्रक्रिया तु प्रामादिकी । दिष्टशब्दस्यादृष्टपर्यायत्वात् । क्लीवत्वाच्च । नालम्बते दैष्टिकतामिति माघः ।
शीलम् ॥ ६० ॥
तदस्येत्येव । अपूपभक्षणं शीलमस्यापूपिकः । छत्रादिभ्यो णः ॥ ६१ ॥
छत्रं शीलमस्य छात्रः । छत्रमाच्छादनं गुरोर्दोषाणामावरणमिति यावत् ।
कर्माध्ययने वृत्तम् || ६२ ॥
तदस्येत्येव । प्रथमान्तात्षष्ठ्यर्थे ठकू स्यात् । अध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । द्वैयन्यिकः । एकमन्यदिति विगृह्य तद्धितार्थ इति समासः । ततठक् । यस्याध्ययने परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं स ऐकान्यिकः । एवं द्वैयन्यिकः । त्रैयन्यिकः । बह्वच्पूर्वपदाट्ठञ् ॥ ६३ ॥
प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वारशान्यिकः । त्रयोदशान्यिकः । त्रयोदशापपाठा अस्य जाता इत्यर्थः । हितं भक्षाः ॥ ६४ ॥
अस्येति प्रकृतमपि चतुर्थ्या विपरिणम्यते हितयोगात् । अपूपभक्षणं हितमस्मै आपूपिकः ।
तदस्मै दीयते नियुक्तम् ॥ ६५ ॥ नियुक्तमव्यभिचरितम् । अग्रभोजनमस्मै नियुक्तं दीयते