________________
शब्दकौस्तुभे।
हेतुभ्य आगतं गोरूप्यम् । गोमयम् । हेतुमनुष्येभ्योऽन्यतरस्या रूप्यः मयट चेति रूप्यमयटौ। ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषिद्धम् । रायादीनामवकाशः दितिर्देवताऽस्य दैत्यः । इतश्चानिज इत्यस्यावकाशः दुलेरपत्यं दौलेयः । दितेरपत्यं दैत्य इत्यत्र पूर्वविप्रतिषेधेन ण्यः । कथं तर्हि दैतेय इति । असाधुरेवायमित्येके । वृत्तिकारस्तु दितेः कृदिकारा. दिति ङीषि कृते लिङ्गविशिष्टपरिभाषाया अनित्यत्वाण्याभावे स्त्रीभ्यो दगित्याहुः । वानस्पत्यम् । अत्राचित्तहस्तिधेनोरिति ठकं बाधित्वा रायः । अर्थविशेषलक्षणात् किम् । तस्येदमित्यर्थसामान्यलक्षणः पर एव यया स्यात् । औष्ट्रपतम् । उष्ट्रपति म पत्रम् । तस्येदम् । पत्राध्ययुपरिषदश्चेत्यन् ।
उत्सादिभ्योऽञ् ॥ ८६ ॥ अणस्तदपवादानामियादीनां चापवादः । औत्सः । औ. दपानः । बष्कयासे । असे । असमासे । पूर्वाचार्यसंज्ञेयम् । वष्कयस्यापत्यं बाष्कयः । असे किम् । गौवष्कयिः । अस इत्येतदेवेह तदन्तविधि ज्ञापयति । धेनुशद्धोऽत्र पठ्यते । अधेनना स. मृहः आधेनवमिति सिध्यति । उदस्थानो देशे । औदस्थानः । देशे किम् । यदृच्छया कश्चिदुदस्थानः तस्यापत्यं औदस्थनिः । पृषदंशे । पार्षतोंऽशः । अन्यत्र त्वणेव । ग्रीष्मादछन्दसीति वक्तव्यम् । इह मा भूत् । त्रिष्टुब् ग्रेष्मी । छन्दश्चेह वृत्तं न तु वेदः । स्यादेतत् । अछन्दसीति मास्तु । ग्रीष्मे भवेत्यादिशेषार्थविवक्षायां ऋत्वणाऽबो वाधात् । न छात्र पूर्वविप्रतिषेधः । अर्थ. विशेषलक्षणापवादापेक्षयैव ण्यादीनां तदभ्युपगमात् । ऋत्वण तु नार्थविशेषलक्षणः । शेषमात्रे विधानात् । किश्च । कक्ष्या.