________________
४ अध्याये ? पादे ३ आह्निकम् ।
न्तरप्राप्तोऽयम् । तथाहि । अणोऽपवादः कालाट्ठञ् तस्यापि ऋत्वण् । इति । सत्यं ग्रीष्मो देवता अस्या इत्यशैषिकार्यविवक्षायामौत्सर्गिकोऽणेव यथा स्यादित्येतदर्थमिदम् ।
६.
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ८७ ॥
भवन इत्यतः मागर्थेषु स्त्रीपुंसाभ्यां क्रमेण नञ्स्नौ स्तः । स्त्रीषु भवं स्त्रैणम् । स्त्रीणां सङ्घः स्त्रैणः । स्त्रीभ्य आगतस्ताभ्यो हितो वा स्त्रैणः । एवं पौंस्नः । अयं योगो वत्यर्थे न प्रवर्धते । स्त्रीपुंबच्चेति ज्ञापकात् । स्त्रीवत् । पुंवत् । कथं तर्हि स्वतभ्यां समावेशः । स्त्रीत्वम् । स्त्रीता । पुंस्त्वम् । पुंस्तेति । आच त्वादिति चकारादिति वक्ष्यते । स्यादेतत् । उभाभ्यां नमेवास्तु | पौंस्नमित्यत्र संयोगान्तलोपे सति सकारो न श्रूयेतेति चेत्तर्हि प्रकृतोऽमेवास्तु | स्त्रीपुंसयोर्नुक् चेति सूत्रयताम् । न चैवं स्त्रैणाः पौंस्ना इत्यत्र यञञोश्चेति लुक्प्रसङ्गः । सङ्घाङ्कलक्षणेष्वण्प्रसङ्गश्च स्यादिति वाच्यम् । उभयत्रापि गोत्र इत्यनुवृत्तेः । ऋषिप्रजनस्य तत्र गोत्रशब्देन ग्रहणात् । अत एव हि सिद्धान्ते पौत्रा दौहित्रा नानान्द्रा इत्यत्र न लुक् । अत्राहुः । नकि टिलापेः स्यात् । न चैनं नुगानर्थक्यं यं विधि प्रतीति न्यायात् टिलोपप्रवृत्यैव नुकः सार्थक्यात् । पुंशब्दे हि नुकं विना टिलोपो न प्राप्नोतीति स्पष्टमेव । स्त्रीशब्देऽपि श्रीर्देवतास्य श्रायं हविरित्यत्रेव यस्येतिलोपात् परत्वाद् वृद्धिः स्यात् । तस्मायथान्यासमेवास्त्विति । अत्रेदं वक्तव्यम् । स्त्रीपुंसयोनक् चेत्यस्तु आगमे अकारोऽपि विवक्षितः । तस्य च यस्येतिलोपे कृतेऽपि स्थानिवत्वाट्टिलोपो न भविष्यतीति । एवञ्च टिड्ढाणञिति सूत्रेणैव ङीपूसिद्धौ नबस्नञोरुपसंख्यानमपि