________________
शब्दकौस्तुभे
ग्रहणं व्यर्थमिति चेदुच्यते । लोहिनिकार्यकयोः सिद्ध्यै तत् । तथा हि । स्वार्थिकत्वेनान्तरङ्गः परश्च लोहितान्मणाविति कन् जीषं बाधेत । ततश्च लोहितिकेत्येव स्यात् । इष्यते तूभयम् । ङीब्ग्रहणसामर्थ्यात्तु ड्यन्तात् कनि रूपद्वयं सिद्धम् । वर्णादनुदात्तादिति नत्वस्य वैकल्पिकत्वात् । तथा च लोहिताल्लिङ्गबाधनं वेति नारम्भणीयम् । आर्यशब्दात्तु न सामिवचन इत्यत्र ज्ञापयिष्यमाणो ऽन्यन्तस्वार्थिको ऽपि कन् आष्ग्रहणसामर्थ्यात् पूर्व न प्रवर्तते । तेनोदीचामातः स्थाने यकपूर्वाया इतीत्वविकल्पः सिद्ध्यति ।
स्यादेतत् । एवं सति बहुगामत्का न स्यात् । ब. हुगोमच्छब्दात् कपः प्रागुगिल्लक्षणडीप्पसङ्गात् । मैवम् । अकृत एव समासे अलौकिकप्रक्रियावाक्य एव उत्तरपदस्यावयवीभूय समासान्तः प्रवर्त्तत इति वक्ष्यमा. णत्वात् । स च विभक्तेः पुरस्तादित्येके । परस्तादिति पक्षे तु तद्धितान्तत्वात् सुब्लुकि पुनः सुपि चाकृते समास इति सिद्धान्तः । तस्मादन्तरङ्गतद्धितवाधनार्थ ड्याग्रहणमिति स्थितम् । युवतितरेत्यत्र तु तिप्रत्यय एवान्तरङ्गः । कृते तु तस्मिन् तरप् । पुंवद्भावस्तु तसिलादिष्विति प्राप्तो ऽपि पर्जन्यवल्लक्षणप्रवृत्त्या हस्तेन बाध्यते । आह च । श्रृंबद्भाबाद्धस्वत्वं खिद्यादिकेष्विति केचित् तन्न । युवतिशब्दस्याज्यन्तत्वन हस्वाप्राप्तेः। तस्माद् भाष्यप्रयोगादेघेह न पुंवदिति तत्वम् । जातेश्चेति पुंवद्भावप्रतिषेध इति तु न युक्तम् । यौवनस्यानित्यतया अजातित्वात् । अन्यथा युवजानिरिति न सिद्धयेत् ॥ १॥ स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यसङ.