________________
शब्द कौस्तुभे
तलुकि किम् । समाहारे पञ्चाश्वी । स्थादेतत् । तद्धितलुकि परिमाणादिति सूत्रमस्तु | नियमोऽयम् । तद्धितलुकि परिमाणादेवेति । ततः विस्तादिभ्यो नेति । मैत्रम् | परिमाणाल्लुक्येवेति विपरीतनियमापत्तेः । तथाच समाहारे व्याढकीति न स्यात् । स्याच्च द्विवर्षेत्यत्र ङीप् । अथ व्याख्यानादिष्टतोऽवधारणं ब्रूयाः । एवमपि विपरीतं गौरवम् । तथाहि । अपरिमाणेत्येतदपेक्षया परिमाणादित्यत्रार्द्धमात्राधिक्यं त्रिदोषपरिसंख्यापत्तिश्च । तस्माद्यथान्यासमेवास्तु |
काण्डान्तात् क्षेत्रे ॥ २३ ॥
२०
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणनस्याद्विकाण्डा क्षेत्रभक्तिः । प्रमाणे साजति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । प्रक्रियायां तु द्वयसजो लुगिति प्रमादः । प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ ममेति पञ्चमे वक्ष्यमाणत्वात् । ननु मानदण्डः काण्ड स च प्रमाणविशेषो न परिमाणम् । ततश्च पूर्वेणैव सिद्धो निषेधः । सत्यम् । क्षेत्रे नियमार्थं वचनम् । तेन द्विकाण्डी रज्जुरित्यत्र ङीप्स्यादेव | क्षेत्र इति च काण्डान्तस्य विशेषणं न तु काण्डस्य । बहुव्रीह्यर्थं प्रति गुणभूतत्वात् । तेन द्वाभ्यां काण्डाभ्यां काण्डप्रनिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेत्यत्र न निषेधः । द्विकाण्डा क्षेत्रभक्तिरित्यत्र च निषेधः सिध्यति । अन्यथोभयत्रापि वैपरीत्यं स्यात् । अत एवान्तग्रहणं सार्थकम् | अन्यथा पुरुषात् प्रमाण इत्यत्रेव विशेषणेन तदन्तविधिलाभेऽपि पुरुषस्येव काण्डस्यैव श्रूयमाणत्वाद्विशेषणतंत्रन्यापतेः ॥