________________
शब्द कौस्तुभे ।
यञिञोश्च ॥ १०३ ॥
गोत्रे यौ यत्रिवौ तदन्ताद्यूनि फक् स्यात् । गाग्यायणः । दाक्षायणः । गोत्रे किम् । द्वीपादनुसमुद्रं यञ् । द्वैप्यः । सुतङ्गमादिभ्य इञ् । सौतङ्गमिः । तदपत्ये मा भूत् ।
शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ १०४ ॥
एभ्यो गोत्रे फक् स्यात् यथासंख्यमेषु । शरद्वदादीनां भृग्वादिवंशप्रभवा दत्रिमा अपि पुत्राः सन्ति स्ववंशप्रभवा अपि । अतो विशेषणम् । तत्र भृगुः शरद्वतोऽपत्यं न भवति । पूर्वभावित्वात् । एवं शुनकस्य वत्सः । तस्माद् भार्गवश्च वात्स्यश्चाप्रायणश्चेति द्वन्द्वे अत्रिभृग्विति यञञोरिति च लुक् । लोप्यलोपिनां द्वन्द्वे हि वैकल्पिकोऽयम् । अत एव निर्देशादगार्ग्यत्यादेश्चेत्युक्तम् । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । aौनकायनो वात्स्यवेत् । शौनकोऽन्यः । दार्भायण आप्रापणचेत् । दार्भिरन्यः । शरद्वच्छुनको बिदादी । ताभ्यामअपबादः फक् ।
द्रोणपर्वत जीवन्तादन्यतरस्याम् ॥ १०५ ॥
एभ्यो गोत्रे फग्वा स्यादिञोऽपवादः । द्रौणायनः । द्रौणिः । पार्वतायनः । पार्वतिः | जैवन्तायनः । जैवन्तिः । कथं तर्हश्वत्थामा द्रौणायनिरिति । अनन्तरे स्वयम् । सत्य -- म् | आरोपाद् भविष्यति ।
अनुष्यानन्तर्ये बिदादिभ्योऽञ् ॥ १०६ ॥
एभ्योऽञ् स्याद् गोत्रे ये त्वत्रानृषयस्तेभ्य आनन्तर्ये । अवृषीति पञ्चम्याः सौत्रो लुक् । आनन्तर्ये इंति स्वार्थे ष्यन् ।