SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये १ पादे ४ भाहिकम् । तस्मिन् पक्षे फवं कृत्वा बहुषु तदपवादः फगपि सुकरः । युवबहुत्वे यून्येव प्रत्ययद्वयोत्पादेन यकारश्रवणापत्तेरभावात् । अबहुत्वे च फकोऽनुत्पत्या यकारसिद्धः । नडादिभ्यः फक् ॥ १.१ ॥ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः। नड । चर । बक। मुञ्ज । इतिक । इतिश । उपक । लमक । शलङ्क शलकश्च । शलङ्कोर्गोत्रापत्यं शालङ्कायनः । पैलादिषु शालकिशब्दः पठ्यते शालङ्किः पिता पुत्रश्चेति यथा स्यात् । तत्र पैलादिपाठसामर्थ्याच्छलङ्कादेशः । इन्न । बाहादेराकृतिगण. स्वाद्वा । एवं फगिबोगोत्रे विकल्पः स चैच्छिकः । वृत्तिका. रास्तु कौशिकगोत्र एव फक् अन्यत्रेषिति व्यवस्थेष्यत इत्याहुः । अग्निशमन्वृषगणे । आग्निशर्मायणो वार्षगण्यश्चेत् । आमिशर्मोऽन्यः । कृष्णरणौ ब्राह्मणवासिष्ठौ । कार्णायनो प्रा. मणश्चेत् । काणिरन्यः । राणायनो वासिष्ठश्चेत् । राणिरन्यः। क्रोष्टु क्रोष्टश्च । क्रौष्टायनः । अमुष्यति पठ्यते निपातनादलुक् । आमुष्यायणः । लिगु । अश्वल । द्वीप । शकट । मिमत । उदुम्बर । इत्यादि । हरितादिभ्योऽञः ॥ १०२ ॥ अवन्तेभ्य एभ्योऽपत्ये फगिति दृचिकाराः । वस्तुतो व्यधिकरणे पञ्चम्यौ । हरितादिभ्यो विहितः परो वा यो गोत्रे ऽ तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात् षष्ठयन्तात् फक् स्यात् । स चार्थाङ्न्येव । गोत्रेऽपत्यप्रत्ययद्वयायोगात् । अत एवोत्तरार्थमनुवृत्तस्यापि गोत्रग्रहणस्येहाना सम्बन्धो नतु फकेति तत्वम् । इयोऽपवादोऽयम् । हरितादिर्बिदाधन्तर्गणः हारितायनः॥
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy