________________
शब्दकौस्तुभे।
तेन रक्तं रागात् ॥ १ ॥
रज्यतेऽनेनेति रागः । शुक्ले वर्णान्तरापादनमिह रञ्जेरर्थः । तृतीयान्ताद्रागविशेषवाचिनो रक्तमित्यर्थे यथास्वमणादयः स्युः । कषायेण रक्तं वस्त्रं काषायम् । माठिम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् । कथं हारिद्रौ कुक्कुटस्य पादाविति । उपमानाद् भविष्यति । हारिद्राविव हरिद्राविति ।
लाक्षारोचनाद्वक् ॥ २॥
शकलकर्दमौ तु वार्तिकं दृष्ट्वा सूत्रे प्रक्षिप्तौ । लाक्षया रक्तो लाक्षिकः। रौचनिकः । शाकलिकः। कार्दमिकः । शकलकदमाभ्यामणपीष्यत इति वृत्तिकारः। शाकलः । कार्दमः । भाष्यादौ तु नैतदस्ति । नील्या अन् वक्तव्यः । नीली ओषधिविशेषः । तया रक्तं नीलम् । पीतात्कन् वक्तव्यः । रागद्रव्यविशेषः पीतं तेन रक्तं पीतकम् । हरिद्रामहारजनाभ्यामन वक्तव्यः । हारिद्रम् । माहारजनम् ।
नक्षत्रेण युक्तः कालः ॥ ३॥
तृतीयान्तानक्षत्रवाचिनो युक्तऽर्थेऽण् स्याद्युक्तः स कालश्चेत् । नक्षत्रवाचकाः शब्दा वृत्तिविषये तयुक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते। पुष्येण युक्तः कालः पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः। पौषमहः । नक्षत्रेण किम् । चन्द्रमसा युक्ता रात्रिः। कालः किम् । पु. ध्येण युक्तश्चन्द्रः ।